________________
कण्डिका ] द्वितीयकाण्डम् ।
२८३ हत्यादिपापेन अभिशस्तपतितयोर्दर्शनम् । आश्चर्यमद्भुतमिन्द्रजालादि । अभ्युदयः पुत्रजन्मविवाहादि । एषु धावनादिनिमित्तेषु तत्कालं यावन्निमित्तं तावत्कालमनध्यायः । नीहा' 'तेच ' नीहारे धूमरिकायाम् वादित्राणां मृदङ्गादीनां शब्दे । आर्तस्य दुःखितस्य स्वने शब्दे । ग्रामस्यान्ते सीन्नि । श्मशाने मृतकदाहभूमौ । श्वा च गर्दभश्च उलूकश्च शृगालश्च साम च श्वगर्दभोलूकश्गालसामानि तेषां शब्दे श्रूयमाणे । शिष्टाचरिते च शिष्टस्य श्रोत्रियस्याचरिते आगमने चकारात् तत्कालं यावनिमित्तमनध्यायः । 'गुरौ''मेत ' गुरौ आचार्य प्रेते मृते अप उदकमभ्यवेयात् प्रविशेत् । स्नानपूर्वकमुदकदानाय दशरात्रं दशाहानि स्वाध्यायाध्ययनादुपरमेत् । ' सता'"रात्रम् । तानूननं धौवं व्रतप्रदाने गृह्णाल्यापतय इति द्विश्च स्थाल्याः सुवेण तानूनप्त्रमेतद्दक्षिणस्यां वेदिश्रोणी निधायावमृशत्यत्विजो यजमानश्वानाधृष्टमिति ज्योतिष्टोमे विहितम् । सह तानूनत्रमाज्यं येन स्पृष्टं स सतानूननी तस्मिन् सतानूनप्त्रिणि प्रेते । समाने तुल्ये ब्रह्मणि वैदे चरतीति सब्रह्मचारी तस्मिन् सब्रह्मचारिणि सहाध्यायिनि समानाचार्ये च प्रेते त्रिरात्रं स्वाध्यायादुपरमेत् । 'एक "रिणि' न सब्रह्मचारी असब्रह्मचारी तस्मिन् भिन्नाचार्य प्रेते एकरात्रमनध्यायः । अर्द्ध"जेयुः । अर्द्धः षष्ठो मासो येषां ते अर्द्धपष्ठा मासास्तानद्धषष्ठान्मासानधीत्य पठित्वोत्सृजेयुः । पूर्वमुपाकृतानि स्वीकृतानि छन्दांसि उत्सृजेयुः । उत्सर्गश्छन्दसामेव । अङ्गानि पुनरधीयीत । 'अर्द्ध"न्वा ' अधीत्योत्सृजेयुरिति शेषः । अर्द्धसप्तमो मासो येषु ते अर्द्धसप्तमासाः । ' अथेमा "महे इति उत्सर्गानन्तरमाचार्येण सह शिष्या उभा कवी इतीमामृचं जपन्ति । उच्चारयन्ति । मन्त्रार्थः हे अश्विनौ युवा उभा उमौ यतः कवी क्रान्तदर्शनौ । युवा युवानौ । युष्मत्संपादितो धर्मो नोऽस्माकं परिसख्यस्य सुमित्रभावस्य परापतत् रक्षणार्थमागतः । तेन धर्मेण विसख्यानि विद्वेषादीनि विषमाध्ययनादीनि वा विसृजाम त्यजाम । किंभूतस्य सख्यस्य धर्मिणः उपकारादिधर्मवतः परस्परमनुकूलस्येत्यर्थः । त्रिर"रन् । अन त्रिरात्रं सह एकस्मिन् गृहे आचार्यसहिताः शिष्या निवासं कृत्वा विप्रतिष्ठेरन विविध प्रवासं कुर्युः । त्रिरात्रं सहवासनियमः । विप्रतिष्ठान विद्यत एव ॥ इत्येकादशी कण्डिका ॥ ११ ॥ ॥*॥ ॥ * ॥ ॥*॥ ॥॥
(विश्व०) अनध्यायानाह 'वातेमावास्यायामिति । सर्वानध्यायः । प्रचण्डे वाते, अन्यथा तस्य साधारणस्य सार्वकालिकत्वात् । सर्वपदमङ्गादिपरम् । शिल्पिनामपीत्यन्ये । अपरे तु गुर्वधीनपदार्थमात्रगोचरानध्ययनमाहुः । स्वाधीनतां प्रापितस्याप्यनभ्यसनमिति केचित् । व्यस्तयोर्वातामावास्ययोरध्ययननिषेधप्रयोजकत्वे समुदितयोविहितश्राद्धादिव्यतिरिक्तकर्तव्यतामात्रनिषेधकतेति नव्याः । 'श्राद्धाशनेच' श्राद्धाशनदिनेऽनध्याय इत्यर्थः । 'उल्का 'कालं यस्मिन्काले उल्कायुत्पात आपतति अपरदिनेऽपि तत्कालपर्यन्तम् । उल्का अलातम् , अवस्फूजे विद्युत् , चलनं क्रिया । उत्पातः अनिष्टत्वसूचकोहव(?)विशेपः । ऋतुसंधिश्च धर्मशाखेषु ऋतुसंधित्वेन प्रसिद्धमहोरात्रम् । पूर्वतोरन्त्या रात्रिः अपरस्यताराद्यमहरित्यन्ये । 'उत्स"संध्यवा' उत्सृष्टेपु छन्दासु त्रिरात्रम् । अभ्रदर्शनमहरभ्रदर्शनम् । सर्वरूपता च स्तनितविद्युद्वष्ट्यादिसंघातः । तस्मिन्निमित्ते त्रिरात्रं त्रिसंध्यं वेति विकल्पः । अभ्रदर्शने त्रिसंध्यं संघाते च त्रिरात्रमिति व्यवस्थितं विकल्पमन्ये । 'भुक्त्वार्द्रपाणिः' नाधीयीतेति शेषः । 'उदके निशायां । निशायाः मध्यमौ प्रहरौ । अर्द्धरात्रमित्यन्ये । संधिवेलयोः । अहोरात्रस्य । 'अन्तःशवग्रामेऽन्तः' अन्तर्मध्ये शवो यस्य तस्मिनन्तमध्ये नाधीयीत । यावद्ग्राममध्ये शवस्तावदन्त ध्ययनमित्यर्थः । 'दिवाकीत्यें। दिवाकीर्ति
१ न महदै ।