________________
२८२ पारस्करगृह्यसूत्रम् ।
[एकादशी वादित्राणां मृदङ्गादीनां शब्दे आर्तस्य दुःखितस्य स्खने शब्दे ग्रामस्यान्ते सीनि श्मशाने प्रेतभूमौ श्वा च गर्दभश्च उलूकश्च शृगालश्च साम च श्वगर्दभोलूकश्गालसामानि तेषां शब्दे श्रूयमाणे शिष्टाचरिते च शिष्टस्य श्रोत्रियस्य आचरिते आगमने तत्कालं यावत् तन्निमित्तं तावत्कालमनध्यायः । 'गुरौ "मेत् ' गुरौ आचार्ये प्रेते मृते अपो जलं अभ्यवेयात्प्रविशेत् । स्मानपूर्वकमुदकदानाय दश. रात्रं दशाहानि अध्ययनादुपरमेत् । सता"त्रम् । तानूननं नाम सोमयागे ऋत्विजां दीक्षितस्य च आज्याभिमर्शनलक्षणं कर्म समानं तानूननं यस्यास्तीति स सतानूनत्री तस्मिन् सतानूनत्रिणि प्रेते । समाने तुल्ये ब्रह्मणि वेदे चरति स सब्रह्मचारी तस्मिन् सब्रह्मचारिणि सहाध्यायिनि समानाचार्य प्रेते त्रिरात्रमनध्यायः । 'एक'"रिणि ' न सब्रह्मचारी असब्रह्मचारी तस्मिन् असब्रह्मचारिणि भिन्नाचार्ये सहाध्यायिनि प्रेते एकरात्रमनध्यायः । अर्द्ध 'जेयुः । अर्द्धः पष्ठो मासो येषां मासानां ते अर्द्धषष्ठा मासाः तान् मासानधीत्य पठित्वा उत्सृजेयुः । पूर्व श्रावण्यादौ उपाकतानि छन्दॉसि । 'अर्द्ध'वा' अर्द्धः सप्तमो येषान्ते अर्द्धसप्तमाः तान् अर्द्धसप्तमान् मासान वा अधीत्य छन्दांसि उत्सृजेयुरिति पूर्वोक्तेन संबन्धः । अन्न छन्दसामुत्सर्गोपदेशात् अड्डाध्ययनमनुज्ञायते । 'अथे 'इति ' आचार्येण सह शिष्याः उभाकवीयुवा इतीमामृचं जपन्ति उभाकवीयुवायोनो धर्मः परापतत् । परिसख्यानि धर्मिणो विसख्यानि विसृजामहे इति इमामृचं जपन्ति । 'विरा"रन् । त्रिरात्रं सह एकत्र उपित्वा विप्रतिष्ठेरन् विप्रवासं कुर्युः विशेषेण प्रवासं कुर्युरिति सूत्रार्थः ॥ ११॥ ॥*॥
(गदाधरः )-वाते."ध्यायः' वाते वायौ प्रचण्डे सति वातस्य सर्वदा विद्यमानत्वादतिशयितोऽत्र ग्राह्यः । सर्वशब्दाचाडानामपि न छन्दसामेव । यद्यदुपाध्यायसकाशाद् गृह्यते शिल्पाद्यपि तत्सर्वग्रहणेन गृह्यते । शिल्पिनामपि हि अनध्यायप्रसिद्धिरस्ति । अनध्यायश्च प्रकृतत्वाद् गुरुमुखाद्यच्छिक्ष्यते तत्रैव भवति न गुणनेऽपीति । अपरे तु सर्वविषयतामिच्छन्ति। श्राद्धा''कालम् । आकालिका एते अनध्यायाः । आकालं यस्मिन्काले उल्कादेरापतनं अपरदिने तावत्कालपर्यन्तं श्राद्धाशने श्राद्धान्नभोजने श्राद्धान्नेऽजीर्णे इत्यपरे । उल्का ज्वालाकृतिः पतन्ती तारका । अवस्फूर्जत् विद्योतमाना विद्युत् । भूमिचलनं भूमेः कम्पः । अग्निामदाहः । एषामुत्पात उत्पतनं तस्मिन् । ऋतुसंधिशब्देन एकस्य त्रस्तोरन्तः अपरस्य यावदप्रवृत्तिः स काल उच्यते । तन्न चाकालिकता नोपपद्यते । ततश्च पूर्वस्यान्तोऽन्त्या रात्रिः उत्तरस्याद्यमहस्तावाननध्यायः । ' उत्सवा' उत्सृष्टेपु छन्दासु वेदानामुत्सर्गे कृते अभ्रदर्शनमत्रातिशयितं गृह्यते सर्वकालमभ्रस्य विद्यमानत्वात् । विद्युदभ्रवायुवृष्टिगर्जितानां युगपत्प्रवृत्तिः सर्वरूपम् । तत्रापि त्रिरात्रमनध्यायः। त्रिसंध्यं वेति विकल्पः। अभ्रदर्शने त्रिसध्यं सर्वरूपे च निरात्रमिति व्यवस्थितविकल्प इत्यन्ये । 'भुक्त्वा' 'कीय भुक्त्वा यावदार्द्रपाणिस्तावन्नाधीयीत । तथोदके यावत्तिष्ठति तावत् । निशायाम स्मृत्यन्तरान्निशाशब्देनार्द्धरात्रमुच्यत इति कर्कः । महानिशा च विज्ञेया मध्यस्थं प्रहरयमिति स्मरणात् । रात्रेः पूर्वोत्तरी यामौ वेदाभ्यासेन तौ नयेदिति वचनेन रात्रेः पूर्वचतुर्थयामयोर्वेदाभ्यासविधानाद् द्वितीयतृतीययोः परिशेपादनध्याय इति हरिहरः । संधिवेलयोः अहोरात्रयोः संध्याकालयोः । अन्तःशवे ग्रामे प्राममध्ये यावच्छवं मृतशरीरं भवति तावन्नाधीयीत । अन्तर्दिवाकीत्य । दिवा अहि कीर्त्य पठनीयं यत् प्रवादि तहिवाकीत्यै तस्मिन्विषये ग्रामे अनध्यायः । तद्ग्राममध्ये न पठनीयम । सूत्रयोजनायां प्रामपदं काकाक्षिगोलकन्यायेनोभयत्र योजनीयम्। प्रामेऽन्तर्दिवाकीत्ये इति अन्येतु अन्तः संनिहितो दिवाकीर्तिश्चाण्डालो यत्र सोऽन्तर्दिवाकीयों देशस्तत्रानध्यायः । धाव"स्कालम् । धावतः शीघ्रं गच्छतः । अभिशस्तो ब्रह्महत्यादिपापेनाभियुक्तः पतितो ब्रह्म