________________
कण्डिका ]
द्वितीयकाण्डम् |
२८१
1
असत्रह्मचारिणि त्वेकरात्रम् । अर्द्धषष्ठानिति पौषस्य रोहिण्यां मध्यमायां चाष्टकायाम् । उत्सृष्टान्यपि अर्द्ध: षष्ठो येषु तान् सार्द्धपञ्चमासानधीत्योत्सृजेयुः तदुत्सर्गे कुर्युः । अर्द्धसप्तमान्वेति विकल्पः । उत्सर्गश्चात्र छन्दसामङ्गानां च । आचार्येण सह शिष्या उभाकवी इतीमामृचं जपन्ति । तदर्थ:तत्र परमेष्ठी अनुष्टुप् अश्विनौ जपे० । हे अश्विनौ युवा युवामुभा उभौ यतः कवी क्रान्तदर्शनौ । युवा युवानौ च वचनव्यत्ययः । किंच । युष्मत्संपादितो यो धर्मः नोऽस्माकं धर्मिणः परिसख्यस्य सुमित्रभावस्य परापतत् रक्षणार्थमागतः तेन धर्मेण विसख्यानि विद्वेषादीनि विषमाध्ययनादीनि वा वयं विसृजामहे त्यजामहे । किभूतस्य सख्यस्य धर्मिणः उपकारादिधर्मवतः परस्परमनुकूलस्येत्यर्थः । त्रिरात्रमिति । अत्र त्रिरात्रं सहवासनियमः । विप्रतिष्ठा ( नुवर्तत एव विनू ) द्यत एव ॥ ११ ॥
( हरिहर : ) — त्रिरात्रं नाधीयीरन इत्यनध्यायप्रसङ्गादनध्यायानाह । ' वाते "ध्यायः ' वाते वायौ प्रचण्डे वाति सति । वातमात्रस्य सर्वदा विद्यमानत्वात् नानध्यायनिमित्तता । अमावास्यायां दशैं च सर्वानध्यायः सर्वत्र वेदेषु वेदाङ्गेषु चानध्यायः अध्ययननिवृत्तिः सर्वानध्यायः । मतान्तरे तु यद् गुरुमुखाच्छक्ष्यते शिल्पश्रमादि तत्राप्यनध्यायः । यतः शिल्पिनः स्थपत्यादय: श्रमिणो मल्लादयः अनध्यायं मन्यमाना दृश्यन्ते । अतो यत्किञ्चिदुपाध्यायादधीयते श्रूयते वा शिक्ष्यते वा तत्र सर्वत्रानध्यायः । सचानध्यायः गुरोः सकाशात् अनधीताध्ययने अध्यापकधर्मप्रकरणात् न गुणनेऽपि । केचित्तु सर्वशब्दस्य गुणनादिविषयतां मन्यन्ते तन्मते नापूर्वाध्ययनं नाधीतस्याभ्यसनमपि । श्रद्धाशकालम् ' न केवलममावस्यायाम् अपितु श्राद्धाशने च श्राद्धान्नस्य भोजने अशने भक्षणे च उल्का ज्वालाकृतिः पतन्ती तारका, अवस्फूर्जन्ती विद्योतमाना विद्युत्, भूमिः पृथिवी तस्याञ्चलनं कम्पः भूमिचलनम्, अग्निः प्रसिद्धः, उल्का च अवस्फूर्जे च भूमिचलनं च अग्निश्च उल्कावस्फूर्जद्भूमिचलनाग्नयः तेषामुत्पातः उत्पतनं तस्मिन् ऋतुसंधिपु ऋतूनां संघयः अन्तरालानि ऋतुसंघयः तेषु सर्वानध्याय इत्यनुवर्तते । कि यावत् आकालं यस्मिन्काले यस्य निमित्तस्य उल्कादेरापतनम् अपरदिने तावत्कालपर्यन्तमाकालम् । केचित्तु श्राद्धाराने यावदन्नं जीर्यते तावदनध्यायमाहुः । ऋतु संधिशब्देन एकस्य ऋतोः अन्ते अपरस्य यावदप्रवृत्तिः स काल उच्यते तत्राकालिकता नोपपद्यते । ततश्च पूर्वस्यतः अन्त्या रात्रिः उत्तरस्य आद्य महः तावाननध्यायः । 'उत्सृन्ध्यं वा' उत्सृष्टेषु छन्दःसु वक्ष्यमाणेन पुन - विधिना छन्दसामुत्सर्गे कृते अनध्यायः । अभ्रस्य मेघस्य अतिशयितस्य दर्शने आविर्भावे विद्युदवायुवृष्टिगर्जितानां युगपत्प्रवृत्तिः सर्वरूपं तस्मिन् सर्वरूपे च त्रिरात्रं त्रीण्यहोरात्राणि वा त्रिसंध्यं संध्यात्रयमनध्याय इति चकारेणानुगृह्यते । अन्येषां पक्षे (?) अभ्रदर्शने त्रिसंध्यं सर्वरूपे त्रिरात्रमिति व्यवस्थितो विकल्पः । ' भुक्त्वाऽऽ' 'याम् ' भुक्त्वाऽशित्वा यावदार्द्रपाणिस्तावदनध्याय इत्यनुषङ्गः । उदके यावतिष्ठति तावत् निशायां महानिशायां 'महानिशा च विज्ञेया मध्यस्थं प्रहरद्वयमिति स्मरणात् ' रात्रेः पूर्वोत्तरौ यामौ वेदाभ्यासेन तौ नयेदिति वचनेन रात्रेः पूर्वचतुर्थयामयोर्वेदाभ्यासविधानात् द्वितीयतृतीयप्रहरयोः परिशेषादनध्याय इत्यर्थान्महानिशा लभ्यते । 'संधिवेलयो: ' अहो - रात्रयोः संधिवेले तयोः सन्ध्याकालयोरित्यर्थः । ' अन्त 'ग्रामे ' अन्तर्मध्ये शवः मृतशरीरं यस्य सः तस्मिन् ग्रामे तावदनध्यायः । ' अन्त कीयें ' दिवाऽह्नि कीर्त्य पठनीयं यत् प्रवर्ग्यादि तद्दिवा - कीर्त्य तस्मिन् दिवाकीर्त्ये विपये अन्तर्ग्राममध्ये अनध्यायः । पक्षान्तरे तु अन्तः संनिहितो दिवा - कीर्त्यश्चण्डालो यत्र सोऽन्तर्दिवाकीत्यों देशः तत्रानध्यायः । ' धावत्कालम् ' धावतः शीघ्रं गच्छतः अभिशस्तः ब्रह्महत्यादिपापेनाभियुक्तः पतितो ब्रह्महत्यादिना पापेन । अभिशस्तच पतितश्च अभिशस्तपतितौ तयोर्दर्शनम् । माश्वर्यमद्भुतम् । अभ्युदयः पुत्रजन्मविवाहादि । एतेषु धावनादिनिमित्तेषु तत्कालं यावन्निमित्तं तावत्कालमनध्यायः । ' नीहा'त्कालम् ' नीहारे धूमरिकायां
३६
•