________________
२८०
पारस्करगृह्यसूत्रम्
[ एकादशी
1
वार्धषष्ठान् मासानधीत्योत्सृजेयुरर्धसप्तमान्वेति तत्रानध्यायः । ' अभ्रन्ध्यं वा ' अभ्रदर्शनमतिशयिकं गृह्यते सर्वकालमभ्राणि सन्त्येव सर्वरूपं च स्तनितविद्युवृष्ट्यादि तत्र त्रिरात्रं त्रिसंध्यं वा नाधीयीतेति विकल्पः । अपरे व्यवस्थितं विकल्पमिच्छन्ति । अभ्रदर्शने त्रिसंध्यं सर्वरूपे च त्रिरात्रम् । भुक्त्वार्द्रपाणिर्नाधीयीत । तथा उदके । न निशायाम् । निशाशब्देनार्धरात्रमुच्यते स्मृत्यन्तरात् । अहोरात्रस्य संधिवेलयोः । अन्तःशवे ग्रामे ग्राममध्ये यावच्छवो भवति तावन्नाधीयीत । ग्रामेऽन्तः ग्राममध्ये नाधीयीत । अपरे तु वर्णयन्ति - अन्तर्दिवाकीर्तिरनध्ययनम् । दिवाकीर्तिर्यद्दिवा कीर्त्यते तत् ग्राममध्ये न पठनीयम् । अन्ये दिवाकीर्ति चण्डालमभिवदन्ति तद्दर्शने नाधीयीत । तथाच स्मृत्यन्तरम् - दिवाकीर्तिमुदक्यां च स्पृष्ट्वा स्नानं समाचरेत् । 1 धावत्कालम् ' नाधीयीत । ' नीहा "लम्' एते तात्कालिका: । ' गुरौ "मेत् ' अपोऽभ्यवायेनोदकक्रिया लक्ष्यते । तद्दशरात्रं चानध्ययनं भवति । ' सता त्रम् ' सह तानूनप्त्रं येन स्पृष्टं स सतानूनप्त्री समाने ब्रह्मणि यचरति स सब्रह्मचारी । ' एक 'रिणि ' अनध्यायः । ' अर्ध "जेयुः उपाकृतानि छन्दाँसि । ' अर्ध‘न्वा ' अधीत्योत्सृजेयुः । ततश्व विकल्पोऽयम् । उत्सर्गश्च छन्दसामङ्गान पुनरधीयीतैव । 'अथे "युवेति ' जपन्ति च सहाचार्येण शिष्याः । ' त्रिरा" रन् ' अत्र त्रिरात्रं सहवासनियम: विप्रतिष्ठा विद्यत एव ॥ || # 11 11 11
JC
( जयरामः ) - वातस्य सर्वदा विद्यमानत्वादतिशयितोऽत्र गृह्यते । सर्वशब्दादङ्गानां छन्दसामपि तदहरनध्यायः । यद्यदुपाध्यायाद् गृह्यते शिल्पाद्यपि तत्सर्वग्रहणेन गृह्यत इति । शिल्पि - नामप्यनध्यायप्रसिद्धिरस्ति । अनध्यायश्च गुरुमुखा च्छिक्षितस्यानध्ययनम् । सर्वविषयमित्यन्ये मन्यन्ते । श्रद्धाशने स्वीकृते तथोल्काद्युत्पातेऽपि सर्वानध्याय इत्यनुवर्तते । कियावत् । आकालमाकालिका एतेऽनध्यायाः । यावत्कालमुत्पातस्तत्कालपर्यन्तम् । श्राद्धाशनें अजीर्ण इत्यपरे यावच्छ्राद्धेऽशितं न जीर्यते तावदिति वर्णयन्ति । उल्का अलातम् । अवस्फूर्जत् विद्योतमाना विद्युत् | भूमेश्चलनं कम्पः । एषामुत्पातेऽभिभवे । ऋतुसंधिषु चाकालमनध्यायः । ऋतुसंधिश्चैकस्य ऋतोरन्तः अपरश्च यावन्न प्रवर्तते तत्राका लिकताऽनुपपत्तिः । तस्मात्पूर्वस्य ऋतोर्या अन्तिमा रात्रिरपरस्य च यदाद्यमहः स ऋतुसन्धिरत्रानध्यायः । एवं च सति प्रतिपद्यनध्यायः स्यात् तत्र तु विद्य मानत्वात् द्वितीयायामित्यपरे । उत्सृष्टेषु छन्दस्सु । उत्सर्गोऽर्धषष्ठान् मासानधीत्योत्सृजेयुरर्धसप्तमान्वेति । एषु त्रिरात्रम् । अभ्रदर्शनमत्रातिशयितं गृह्यते । सर्वरूपं च स्तनितविद्युद्वृष्टयादिसंघातस्तत्रापि त्रिरात्रमनध्यायः । त्रिसंध्यं वेति विकल्पः । अभ्रदर्शने त्रिरात्रं सर्वरूपे च त्रिसंध्यमिति व्यवस्थाविकल्प इत्यपरे । भुक्त्वा र्द्रपाणिर्नाधीयीत । तथा उदकादौ स्थितः । निशाशब्देन तन्मध्यमप्रहरो गृह्यते स्मृत्यन्तरात् । संधिवेलयोः अहोरात्रस्य । अन्तःशवे ग्रामे । ग्राममध्ये यावच्छ्वो भवति तावन्नाधीयीरन् अन्तः ग्राममध्य एवेदानीम् । अपरे त्वन्यथा वर्णयन्ति । अन्तर्दिवाकीत्यैऽनध्ययनम् । दिवाकीर्तिश्चाण्डालः ग्रामे च तस्य दर्शने नाधीयीत । यद्दिवैव कीर्त्यते तद्दिवाकीर्त्य प्रवर्ग्यादि तद्ग्रामे न पठितव्यम् । तथा च स्मृत्यन्तरम् । दिवाकीर्तिमुदक्यां च स्पृष्ट्वा स्नानं समाचरेदिति । धावतोऽनध्यायः । अभिशस्तो मिथ्याऽभिशप्तः । पतितो ब्रह्महत्यादिना । तयोर्दर्शने । तथा आश्चर्ये अद्भुतदर्शने । अभ्युदयः पुत्रजन्मादि । एषु तत्कालं यावन्निमित्तम् । नीहारादिषु च तत्कालम् । ग्रामस्यान्ते सीनि । श्वादीनां शब्दे श्रूयमाणे । शिष्टाचरिते च आगमै तत्कालम् । गुरौ प्रेते अपोऽभ्यवेयात् उदकक्रियां कुर्यात् । दशरात्रं चोपरमेदध्ययनात् । तानूनप्त्रं सोमयागे दीक्षितस्य ऋत्विजां वाऽऽज्यालम्भनं सह तानूनप्त्रं स्पृष्टं येन स सतानूनन्त्री तस्मिन् । तथा समाने ब्रह्मणि यश्चरति स सब्रह्मचारी सहाध्यायी तस्मिंश्च प्रेते त्रिरात्रमुपरमेत् ।