________________
कण्डिका] द्वितीयकाण्डम् ।
२७९ चरुवद्धानानां भक्षणोपघातादाज्येन स्विष्टकृत् । प्राशनं मार्जनं पवित्रप्रतिपत्तिः ब्रह्मणे पूर्णपात्रदानं सर्वप्रायश्चित्तहोमः एतावत्प्राशनान्तं तस्मिन् । 'प्रत्य""यात् । शिष्येभ्यः प्रत्यङ्मुखेभ्यः प्राङ्मुख आचार्यः प्रणवपूर्विकां सावित्री त्रिवारमुक्त्वा मन्त्रब्राह्मणयोरध्यायादीन्प्रयादित्यर्थः । ऋपि'र्वणानां प्रब्रूयात् । ऋषिमुखानि वढचानां पर्वाणि छन्दोगाना ५सूक्तान्यथर्वणानां प्रब्रूयादित्यनुवृत्तिः । 'सर्वे"मह इति' सर्वे आचार्य शिष्याः । जपानन्तरं वर्हिोमः प्रणीताविमोकः कर्मापवर्गाः समिधः , उत्सर्जनं ब्रह्मणः, उपयमनकुशानामग्नौ प्रक्षेपः, ब्राह्मणभोजनसंकल्पः, आवसध्यस्य गृहं प्रत्याहरणं, वैश्वदेवः । त्रिरागात् । अनिकृन्तनमपि त्रिरात्रम्। एके आचार्याः पौषस्य रोहिण्यामित्यादिवक्ष्यमाणोत्सर्गात् उपाकर्मणश्च प्राक् पूर्व त्रिरात्रमनिकृन्तनानध्ययने । अपरे तु उत्सर्गादिति ल्यब्लोपे पञ्चमी । ततश्चोत्सर्गाहमारभ्य प्रागुत्तरं च त्रिरात्रमनिकृन्तनानध्ययने भवत इत्याहुः । दशमी कण्डिका ।। १०॥ ॥ * ॥ ॥ * ॥
वातेऽमावास्यायाळं सर्वानध्यायः ॥ १ ॥ श्राद्धाशने चोल्कावस्फूर्जभूमिचलनान्युत्पातेष्वृतुसन्धिषु चाकालम् ॥ २ ॥ उत्सृष्टेष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्ध्यं वा ॥३॥ भुक्त्वाऽऽर्द्रपाणिरुदके निशाया संधिवेलयोरन्तःशवे ग्रामेऽन्तर्दिवाकीत्र्ये ॥ ४ ॥ धावतोऽभिशस्तपतितदर्शनाश्चर्याभ्युदयेषु च तत्कालम् ॥ ५ ॥ नीहारे वादिवशब्द आस्विने ग्रामान्ते श्मशाने श्वगर्दभोलूकशृगालसामशब्देषु शिष्टाचरिते च तत्कालम् ॥ ६ ॥ गुरौ प्रेतेऽपोभ्यवेयाद्दशरात्रं चोपरमेत् ॥ ७ ॥ सतानूनत्रिणि सब्रह्मचारिणि च त्रिरात्रम् ॥ ८॥ एकरात्रमसब्रह्मचारिणि ॥९॥ अर्धष्ठान्मासानधीत्योत्सृजेयुः ॥ १० ॥ अर्धसप्तमान्वा ॥ ११ ॥ अथेमामृचं जपन्ति उभा कवी युवा यो नो धर्मः परापतत् । परिसख्यस्य धर्मिणो विसख्यानि विसृजामह इति ॥ १२ ॥ त्रिरार्छ सहोष्य विप्रतिष्ठेरन् ॥ १३ ॥ ११॥ ७॥ ॥॥ ॥ॐ॥
(कर्कः)-वाते. 'ध्यायः वातस्य सर्वदा विद्यमानत्वात् अतिशयितो गृह्यते । सर्व शब्दाचाङ्गानामपि न छन्दसामेव । अपरे तु वर्णयन्ति यद्यदुपाध्यायसकाशाद् गृह्यते शिक्ष्यते लिप्याद्यपि तत्सर्वग्रहणेन गृह्यते । शिल्पिनामपि ह्यनध्यायप्रसिद्धिरस्ति । अनध्यायश्च प्रकृतत्वाद् गुरुमुखाद्यच्छिक्ष्यते तत्रैव भवति न गुणनेऽपीति । अपरे तु सर्वविषयतामिच्छन्ति । श्राद्धा' 'कालम् ' आकालिका एते अनध्यायाः । यस्मिन्काले ये आपतिताः द्वितीयेऽहनि तावन्तं कालं यावत् । अपरे श्राद्धाशने वर्णयन्ति यावत् श्राद्धाशनं न जीर्यते तावदिति।ऋतुसंवन्धिरण्याकालोऽनध्यायः । संधिश्वोच्यते एकस्य त्रस्तोरन्तरपरश्च यावन्न प्रवर्तेत तत्राकालिकताऽनुपपत्तिः तस्मात्पूर्वस्य ऋतोयोऽन्त्या रात्रिरपरस्य यदाद्यमहः स संधिरित्युच्यते तत्र नाधीयीत । 'उत्सृष्टेषु ' छन्दःसु । उत्सर्ग१ दिवाकीर्तिरिति कर्कसंमतः पाठः ।