________________
२७८
पारस्करगृह्यसूत्रम् ।
[ एकादशी
I
1
ग्राह्या औदयिकीचेद्धीना स्यात् तदा चतुर्दशीमिश्रिता ग्राह्या । पक्षान्तरमाह 'श्रावस्तेन वा ' अत्रापि हस्तनक्षत्रं संभाव्यते । अतश्च द्वेधा विकल्पः । केचित्तु पौर्णमासीपञ्चमीश्रवणहस्तान्यादाय चतुर्धाविकल्पमाहुः । कर्तव्यतामाह ' आज्य इति च ' तत्र प्रथमप्रयोगे मातृपूजाभ्युदयिके विधायो सृगोंपाकर्मणोः सामानाधिकरण्यस्य न्याय्यत्वादावसथ्यमादाय शिष्यैः परिवृत उत्सर्गस्थानमुदकान्तं गत्वा जपान्ते पञ्चभूसंस्कारपूर्वकमग्निं स्थापयित्वा ब्रह्मासनास्तरणादिपरिभाषानिर्वर्त्य - ज्यभागाविष्ट्वा पृथिव्या अग्नय इत्याद्याहुतीर्जुहोतीत्यन्वयः । ब्रह्मणे स्वाहा छन्दोभ्यः स्वाहेत्येतदाहुतिद्वयं प्रतिवेदोद्देश्यकाहुतिद्वयहोमानन्तरं सर्वत्र वेदाहुतिष्वावर्तते । अनुमतये चेत्यत्र चकारात् आज्यभागाविष्ट्वाऽनुमतिपर्यन्तं पृथिव्यादिसकलदेवतोदेश्यकाज्याहुतीर्जुहोतीत्यन्वयः । आसादने ग्राम्यसिद्धा अक्षतधानाः । प्रतिशिष्यमौदुम्बर्यस्तिस्रस्तिस्रः समिधः सपलाशाः दूधि तिला. । आज्यभागानन्तरं पृथिव्यै स्वाहा इदं पृथिव्यै । अग्नये स्वाहा इदमग्नये । ब्रह्मणे स्वाहा इदं ब्रह्मणे । छन्दोभ्यः स्वाहा इदं छन्दोभ्यः । अन्तरिक्षाय स्वाहा इदमन्तरिक्षाय । वायवे स्वाहा इदं वायवे । ब्रह्मणे स्वाहा इदं ब्रह्मणे । छन्दोभ्यः स्वाहा इदं छन्दोभ्यः । दिवे स्वाहा इदं दिवे । सूर्याय स्वाहा इदं सूर्याय | ब्रह्मणे ० इदं ब्रह्मणे । छन्दोभ्यः स्वा० इदं छन्दोभ्यः । दिग्भ्यः स्वा० इदं दिग्भ्यः । चन्द्रमसे स्वाहा इदं चन्द्रमसे । ब्रह्मणे० इदं प्र० । छन्दोभ्यः स्वाहा इदं छन्दोभ्यः । प्रजापतये ० इदं प्रजापतये ० | देवेभ्यः स्वा० इदं देवेभ्यः ऋषिभ्यः स्वाहा इदमृषिभ्यः । श्रद्धायै स्वाहा इदं श्रद्धायै । मेवायै स्वाहा इदं मेघायै । सदसस्पतये ० . इदं स० । अनुमतये ० इदम० । 'एतर्गेपु' एतदेव आज्यभागाद्यनुमतये स्वाहेत्यन्तं कर्म, प्रतादेशाः सा - वित्रायशुक्रियादयः विसर्गाश्च तेषामेव तेषु भवतीत्यन्वयः । अन्यदपि नित्यं महाव्याहृत्यादिविष्टकृदन्तमाहुतिदशकम् । एवं सर्वत्र व्रतादेशविसर्गादौ सप्तत्रिंशदाहुतयो भवन्ति । 'सद 'कल्पेन' सदसस्पतिमिति । अक्षतधानाः लौकिकाभिभ्रष्टा यवा वारत्रयमाचार्यो जुहोति आचार्येण मन्त्र मा सर्वे शिष्याः सदसस्पतिमिति मन्त्रमनुपठेयुः । यथा आचार्यो धानाः जुहोति तथा शिष्यास्तिस्रस्तिस्रः समिध आदध्युः किं कृत्वा हुत्वा हुत्वा किंभूताः आर्द्राः । पुनः कीदृगाः सपलाशा पलाशानि पत्राणि तैः सहिताः । पुनः घृताक्ताः । पुनः कीदृशा: औदुम्बर्यः उदुम्बरवृक्षोद्भवाः । केन मन्त्रेण समिधामा - धानमत उक्तं सावित्र्या तत्सवितुरित्यादिकया । ब्रह्मचारिणां विशेषमाह पूर्वकल्पेनेति । पूर्वोक्त: कल्प: पक्ष: अग्नयेसमिधमाहार्षमित्यादिप्रत्यहीयमन्त्रेणेत्यर्थः । तथा च पूर्वमाचार्यस्य धानाहोमः । शिष्याणां धानाहोममन्त्रपाठानन्तरं समन्त्रकः समिद्धोमः एवं द्विरपरम् आचार्यस्य शिष्याणां च व्यत्यासेन । एवमेकैकस्य शिष्यस्य प्रतिवारं तिसृभिः समिद्भिर्नव समिधः संपद्यन्ते । केचित्तु एकस्यां क्रियायामेकः एकां समिधं प्रक्षिपेत् । तेनैकैकस्य तिस्रः समिधो भवन्तीत्याहु: । 'शन्नो श्रीः 'शन्नो भवत्वितिमन्त्रेण अक्षतानां यवानां धाना भर्जितकणान् दन्तैरनवखण्डयन्तः अचयन्तः प्राश्नीयुः सर्वे । 'दधि' 'येयुः सर्वे । आचमनद्वयम् ।' स या यात् स आचार्यो यावन्तं शिष्यगणमिच्छेत् तावतस्तिलान् आकर्ष फलकेन औदुम्बरेण सर्पाकृतिना बाहुमात्रेण जुहुयात् । ' साविन वा सावित्र्या होमपक्षे इदं सवित्र इति त्यागः । अनुवाकेन होमपक्षे सप्तचऽनुवाकः । त्यागस्तु इदं शुक्रज्योतिषे चित्रज्योतिषे सत्यज्योतिषे ज्योतिष्मते शुक्राय ऋतपायात्यहाय १ । ईदृशेऽअन्यादृशे सदृशे प्रतिसदृशे मिताय संमिताय सभर से २ । ऋताय सत्याय ध्रुवाय धरुणाय धत्रे विधत्रे विधारयाय ३ । ऋतजिते सत्यजिते सेनजिते सुषेणाय अन्तिमित्राय दूरेअमित्राय (गणाय) ४ | ईदृक्षसे एतादृक्षसे सदृक्ष से प्रतिसदृक्ष से मितेभ्यः संमितेभ्यः सभर से मरु
५॥ स्वतवसे प्रघासिने सान्तपनाय गृहमेधिने क्रीडिने शाकिने उज्जेषिणे ६ । इदमिन्द्राय दैवीभ्यो विद्भ्यो मरुयो ( मानुषीभ्यः ) ७ । प्राशनान्ते ततो महाव्याहृत्यादिप्राजापत्यन्तं चतुर्थी कर्म