________________
२७७
फण्डिका
द्वितीयकाण्डम् । सामवेदोपाकरणे पर्वाणि पर्वणामादीन्प्रब्रूयात् । अथर्वणानां शिष्याणामथर्ववेदीपाकरणे सूक्तानि सूक्तादीन् । 'सर्वे "मह इति' आचार्यसहिताः सर्वे शिष्याः सह नोऽस्त्विति मन्त्रं जपन्ति । मन्त्रार्थः-इदं ब्रह्म सालोऽयं वेदः अध्ययनाथै सहभावं प्राप्तानां समवेतानां नोऽस्माकम् अस्मद्हृदये अस्तु स्थिरं भवतु । ततश्च सह मिलितान्नोऽस्मानवतु पायात् रक्षतु । तथाऽत्र मिलितानां नोऽस्माकम् अनध्यायादाक्ध्ययने शूद्रादिश्रवणादिना उपहतमपि इदं ब्रह्म वीर्यवत् अयातयाममस्तु । इन्द्रः प्रजापतिः तत् यथावत् वेद वेदयतु । येन वेदनेन परस्परं न विद्विषामहे न द्विष्मः । 'त्रिरा "न्तनम् । उपाकर्मोत्तरं त्रिरात्रं नाधीयीरन् सर्वे अध्ययनं न कुर्युः । लोम्नां नखानां च छेदनं त्रिरात्रं न कुर्युः । एके' गात् । एके आचार्याः प्रागुत्सर्गालोमनखानामनिकृन्तनमिच्छन्ति । उत्सर्गवार्धषण्मासानधीत्योत्सृजेयुरिति वक्ष्यते । इति दशमी कण्डिका ॥ ॥* ॥
अथ पदार्थक्रमः । तत्र प्रथमप्रयोगे आचार्येण मातृपूजापूर्वकं नान्दीश्राद्धं कार्यम् । कारिकायाम्-ततो नान्दीमुखं श्राद्धं मातृपूजनपूर्वकम् । गुरोस्तदात्मसंस्कारान शिष्याणां परार्थतः । आचार्यस्यावसथ्याग्नौ कर्म । ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषः । तण्डुलस्थाने अक्षतवानानामासादनम् । प्रोक्षणं च । उपकल्पनीयानि-औदुम्बर्यः समिधः दधि आकर्पफलकं तिलाः भक्ष्याथै धानाः आज्यभागान्ते वेदाहुतीनामनुमत्यन्तानां होमो वेदारम्भवत् । एकदा सर्ववेदोपाकरणं चेत्प्रतिवेदमाहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं पुनः पुनहोंतव्यम् । प्रजापत्याद्या अनुमत्यन्ताः सप्ताहुतयस्तन्त्रेण । ततः सदसस्पतिमित्यनयर्चाऽक्षतधानाहोमः । सदसस्पतिमिति मन्त्रं शिष्या अपि अनु पठेयुः । तत आचार्यः शिष्याश्च सर्वे औदुम्बरीस्तिस्रस्तिस्रः समिध आर्द्राः घृताक्ता आदध्युस्तत्सवितुरित्यनयर्चा | ये तु ब्रह्मचारिणः शिष्यास्तेषामग्निकार्यमन्त्रेणैव समिदाधान भवति । एवं द्विरपरं धानाहोमः समिदाधानं च । तत आचार्यः शिष्याश्च तिस्रस्तिस्रोऽक्षतधाना अनवखण्डयन्तः प्रान्नीयुः शन्नो भवन्त्वित्यनयर्चा | ततः सर्वेषां दधिक्राव्ण इत्यूचा दधिभक्षणम् । आचमनं च । ततो यावन्तं शिष्यगणमिच्छेदाचार्यस्तावतस्तिलानाकर्षफलकेन जुहुयासावित्र्या । इदं सवित्रे० । शुक्रज्योतिरित्यनुवाकेन वा । ततो धानाभिः स्विष्टकृत् । ततो नवाहुतयः । ततः संस्रवप्राशनम् , मार्जनं पवित्रप्रतिपत्तिः, दक्षिणादानं ब्रह्मणे , प्रणीताविमोकः । ततः प्रत्यडूमुखेभ्य उपविष्टेभ्यः शिष्येभ्यः प्राङ्मुख आचार्य ॐकारमुक्त्वा त्रिश्च सावित्रीमुक्त्वा इषे त्वेत्याद्यध्यायादीन्प्रब्रूयात् । बढचादीनां यथोक्तम् । सहनोऽस्त्विति मन्त्रपाठ आचार्यसहितानां शिष्याणाम् । ततस्त्रिरात्रमनध्यायः । लोमनखानामनिकृन्तनं च त्रिरात्रमेव । प्रागुत्सर्गाद्वा लोमनखानामनिकृन्तनम् । ततः परं मन्त्रब्राह्मणयोरध्ययनं प्रागध्यायोत्सर्गात् । इत्युपाकर्मणि पदार्थक्रमः । ततो वैश्वदेवः ॥ ॥ अत्र रक्षाबन्धनमुक्तं हेमाद्रौ-ततोऽपराहसमये रक्षापोटलिकां शुभाम् । कारयेदक्षतैः शस्तैः सिद्धाहेमभूषितैरिति । इदं भद्रायां न कार्यम् । भद्रायां द्वे न कर्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपति हन्ति प्रामं दहति फाल्गुनी इति संग्रहवचनात् । भदासत्वे तु रात्रावपि तदन्ते कुर्यादिति निर्णयामृते । तत्र मन्त्र:-येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन त्वामपि बध्नामि रक्षे मा चल मा चल । ब्राह्मणैः क्षत्रियैवैश्यैः शूदैरन्यैश्च मानवैः । कर्तव्यो रक्षिकाचारो द्विजान्संपूज्य शक्तित इति ॥ ॥*॥
(विश्व०)-'अथातोऽध्यायोपाकर्म । अध्ययनमध्यायः तस्योपाकर्म अङ्गीकरणं वक्ष्यत इति सूत्रशेषः । एतच्च कृतावसथ्यस्याध्यापनप्रवृत्तस्य भवति । अपरे -तु अध्यापनप्रवृत्तस्य निरग्नेरपि लौकिकेऽग्नौ भवतीत्याहुः । कथं स्यादत आह ओष 'मास्यां' कर्तव्यताधारसमयविशेषणमोषधीनां प्रादुर्भावः । पौर्णमास्यां संभाव्यमानत्वावणोक्तिः । इयं च श्रावणी पण्मुहूर्तावच्छिन्नौदायिकी