________________
२७६
पारस्करगृह्यसूत्रम् ।
[ दशमी
वेदविदो विदुरिति गोभिलवचस्तत्सामगविपयम् । तेपामपराहस्योक्तत्वात् । तेन वाजसनेयिभिः पूर्वाह्वव्यापिनी तिथिर्ब्राह्या | दिनद्वये पूर्वाहव्याप्तौ एकदेशस्पर्शे वा तैत्तिरीयव्यतिरिक्तानां पूर्वैवेति हेमाद्रिः । मदनपारिजातेऽपि - पूर्वविद्वायां श्रावण्यां वाजसनेयिनामुपाकर्मेत्युक्तम् । मदनरले तु पर्वण्यौदयिके कुर्युः श्रावणं तैत्तिरीयकाः इति बह्वृचपरिशिष्टे तैत्तिरीयकपदम् अनुवादत्वात्तस्य च प्रात्यधीनत्वात् प्राप्तेश्च यजुर्वेदिमात्रपरत्वात्सर्वयजुर्वेद्युपलक्षणार्थमित्युक्तम् । तथैवानन्तभट्टीयेऽपि । कारिकायां तु पूर्णिमा प्रतिपद्युक्ता तत्रोपाकर्मणः क्रिया । उक्तोऽर्थोऽयं प्रसंगेन भविष्योत्तरसंज्ञ | वस्तुतस्तु हेमाद्रिमतमेव युक्तम् । पराशरमाधवीये - - श्रावणी पौर्णमासी तु संगवात्परतो यदि । तदैवौदयिकी प्राह्मा नान्यदौदयिकी भवेत् । कालादर्शेऽपि श्रावण्यां प्रौष्टपयां वा प्रतिपत्षण्मुहूर्त: । विद्धा स्याच्छन्दसां तत्रोपाकर्मोत्सर्जनं भवेत् । प्रयोगपारिजाते - उपाकर्मोत्सर्जनं च वनस्थानामपीष्यते । धारणाध्ययनाङ्गत्वात् गृहिणां ब्रह्मचारिणाम् । उत्सर्जनं च वेदानामुपाकर्म तथैव च । अकृत्वा वेदजप्येन फलं नाप्नोति मानवः । ' श्रावन वा श्रावणस्य शुकुपञ्चमीं हस्तेन युक्तां प्राप्य वा भवति । तत्रापि प्रायगो हस्त एव भवति । अतः कालद्वयस्योपाकरणकर्मणो विकल्पोऽयम् । भर्तृयज्ञास्तु कालचतुष्टयं वर्णयन्ति । वासुदेवदीक्षिता अपि । 'आज्यय इति च ' आज्यभागानन्तरमाज्याहुतीर्जुहोति ऋग्वेदे अधीयमाने पृथिव्यै स्वाहा अग्नये स्वाहेति द्वे आहुती जुहोति । अन्तरिक्षाय वायवे इति द्वे यजुर्वेदे अधी० । दिवे सूर्यायेति द्वे सामवेदे अधी० | दिग्भ्यचन्द्रमस इति द्वे अथर्ववेदे अधी० । सर्वेषु वेदेष्वधीयमानेपु ब्रह्मणे छन्दोभ्यश्चेति द्वे आहुती सर्वत्र प्रतिवेदमावर्तयेत् । चशब्दात्प्रजापतय इत्यादिकाश्च सप्त सर्वत्र । पृथक् योगकरणं चतुर्णामपि वेदानां तन्त्रेणोपकरणे ब्रह्मणे छन्दोभ्यश्चेत्याहुतिद्वयं प्रतिवेदमावर्तनीयम् । प्रजापतय इत्येवमाद्यास्तन्त्रेणैव योगविभागसामर्थ्यात् । ' एत 'गेंपु ' एतदेव आन्याहुति नवकमेव कर्म व्रतादेशेषु वेदारम्भत्रतेषु विसर्गे समावर्तने च । व्रतादेशनानि च विसर्गश्च व्रतादेशनविसर्गास्तेषु भवति । 'सद् वित्र्या' धानानां च श्रपणानुपदेशात्सिद्धानामेवोपादानम् । अक्षताश्च ता धानाच अक्षतधानास्ताः सदसस्पतिमिति मन्त्रेण आचार्यस्त्रिर्जुहोति । सर्वे शिष्या अनु सहैवानुवर्तमानाः सदसस्पतिमिति मन्त्रं त्रिः पठेयुः । किं कृत्वा हुत्वा हुत्वा एकैकामक्षतधानाहुतिं उदुम्बरवृक्षोन्नवास्तिस्रस्तिस्र आर्द्राः पत्रसहिताः घृतलिप्ताः समिध आचार्यसहिताः शिष्याः सावित्र्या तत्सवितुरिति मन्त्रेणादध्युरग्नौ प्रक्षिपेयुः । न यौगपद्येन । औदुम्बरीस्तिस्र इति पाठ इति हरिहरजयरामौ । औदुम्बर्य इति तु कर्क भर्तृयज्ञा: । तिस्रस्तिस्र इति वीप्सा आधातृपुरुषविषया न समिद्विषयेति हरिहरः । अतश्व प्रत्याहुति एकैकामेवादष्युः । ' ब्रह्म "ल्पेन ' तत्र ये ब्रह्मचारिणः शिष्यास्ते पूर्वकल्पेन प्रागुपदिष्टानिपरिचरणसमिदाधानमन्त्रेणादध्युः । ' शंनो 'श्रीयुः ' शंनो भवन्तु वाजिन इति मन्त्रेण अक्षतधाना यंवानां धाना अनवखण्डयन्तः दन्तैरचर्वयन्तः प्राश्नीयुः सर्वे आचार्य - सहिताः बहुवचनोपदेशात् । ' दधि' 'येयुः ' सर्वे । ' स या "केन वा ' स आचार्यो यावन्तं याव त्संख्याकं शिष्याणां गणं समूहमिच्छेत्तावतस्तावत्संख्याकान् तिलान् आकर्षफलकेन औदुम्बरेण वाहुप्रमाणेन सर्पाकृतिना तत्सवितुरित्यनया जुहुयात् । शुक्रज्योतिरित्यनुवाकेन वा जुहुयात् । ततो धानाभिः स्विष्टकृत् । कृष विलेखने धातुस्तस्यैतद्रूपम् । आ समन्तात्कृष्टं फलं यस्य तत् । अथवा आकर्षयतीत्याकर्षः फलमेव फलकं तेन जुहुयात् तच्च वैकङ्कतमिति कारिकायाम् । 'प्राश' 'णानाम् ' संस्रवभक्षणान्ते स्वयं प्राङ्मुखः प्रत्यङ्मुखोपविष्टेभ्यः शिष्येभ्यो यजुर्वेदोपाकरणे ॐकार - मुक्त्वा उच्चार्य तत्सवितुरिति सावित्रीं त्रिरुक्त्वा मन्त्रत्राह्मणयोरध्यायादीन् प्रब्रूयात् अध्यापयेत् । वहृचानां शिष्याणां ऋग्वेदोपाकरणे ऋपिमुखानि मण्डलादीनि प्रब्रूयात् । छन्दोगानां शिष्याणा
1
1