________________
anusar ]
द्वितीयकाण्डम् |
२७५
गानां पर्वादीन् अथर्वणानां सूक्तादीन् प्रब्रूयात् । ततः सर्वे आचार्याः शिष्याश्च जपन्ति सह नोऽस्तु सहनोऽवतु सह न इदं वीर्यवदस्तु ब्रह्म । इन्द्रस्तद्वेद येन यथा न विद्विपामह इति अमुं मन्त्रम् । तदनन्तरं त्रिरात्रमनध्यायं कुर्युः । यतः " अनध्यायेष्वध्ययने प्रज्ञामायुः प्रजां श्रियम् । ब्रह्मवीर्यं बलं तेजो निकृन्तति यमः स्वयम् । मन्त्रवीर्यक्षयभयादिन्द्रो वज्रेण हन्ति च । ब्रह्मराक्ष - सतां चैति नरकच भवेद्ध्रुवम् " | लोमनखानां निकृन्तनं न कारयेयुः त्रिरात्रमेव । प्रागुत्सर्गाद्वा लोमनख निकृन्तनं वर्जयेयुः । अतो मन्त्रत्राह्मणयोः शुकुकृष्णपक्षे उत्सर्जनं यावत् निरन्तरं मन्त्रं ब्राह्मणं व अधीरन्नाचार्येण अध्याप्यमानाः शिष्याः । इत्युपाकर्म ॥ ॥
1
( गदाधरः ) - अथा कर्म ' व्याख्यास्यत इति सूत्रशेपः । अधीयत इत्यभ्यायो वेदः तस्योपाकर्म उपाकरणमुपक्रमः । एवं हि मन्त्रादयः स्मरन्ति - श्रावण्यां प्रौष्ठपद्यां वाऽयुपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमानिति । अर्धेन सह पञ्चमान् । एवं सत्यध्ययनप्रवृत्तस्यैतद्भवति । अतएवाभिमतोऽध्यापनं भवति । न हानग्निमान् शक्नोत्यग्निसाध्यं कर्म कर्तुमिति । निरग्नेरप्येतदुपाकर्म लौकिकानौ भवतीति गर्गः । नचैतत्कर्कादिसंमतम् । अध्यायोपाकर्मेति वक्ष्यमाणस्य विधिपूर्वकस्य स्वाध्यायप्रारम्भकर्मणो नामधेयम् । पौपस्य रोहिण्यां मध्यमाष्टकायां वा पाक्षिकोत्सृष्टस्यार्धपष्ठानर्थसप्तमान्वा मासान् शुक्लपक्षे वेदाः कृष्णपक्षेऽङ्गानि इत्येवमधीत्य ततः सर्वथोत्सृष्टस्य पुनरुपाकरणं स्त्रीकरणमिति जयरामो हरिहर । अपरे तु श्रवण्यां पौर्णमास्यामुपाकृत्यार्धषण्मासानधीत्योत्सर्गे वदन्ति । ततश्च तेषां मते उपाकृतानां वेदानामुत्सर्गः । मिताक्षरादिधर्मशास्त्रनिवन्धेष्वप्येवम् । हरिहरजयरामभाष्ययोरुत्सृष्टस्योपाकरणम् । 'ओपस्याम् ' एतदुपाकर्म अपामार्गाद्यौषधीनां प्रादुर्भावे उत्पत्तौ सति श्रवणेन युक्तायां पौर्णमास्यां श्रावण शुकपञ्चदश्यां कुर्यात् । श्रवण्यां हि पौर्णमास्यां श्रवण एव प्रायशो भवति ओषधिप्रादुर्भावश्च । तदेतदुभयं तस्या एव विशेषणम् । अत्र पौर्णमास्या एव प्राधान्यात् विशेषणाभावेऽपि तत्पौर्णमास्यां भवति इति हरिहररेणुकौ । अपरे तु श्रवणयुक्तपौर्णमास्यभावे हस्तयुक्त पञ्चम्यां कार्यमित्याहुः । यदि ग्रहणं संक्रान्ति पर्वणि भवति तदा पञ्चम्यामुपाकरणम् । तदुक्तं स्मृतिमहार्णवे - संक्रान्तिर्य - हणं वाऽपि यदि पर्वणि जायते । तन्मासे हस्तयुक्तायां पञ्चम्यां वा तदिष्यते । तथाच - संत्रा - न्तिर्ग्रहणं वाऽपि पौर्णमास्यां यदा भवेत् । उपाकृतिस्तु पञ्चम्यां कार्या वाजसनेयिभिः । मदनरत्नेऽपि यदि स्याच्छ्रावणं पर्व ग्रहसंक्रान्तिदूषितम् । स्यादुपाकरणं शुक्लपञ्चम्यां श्रावणस्य तु । तत्रापि प्रयोगपरिजाते वृद्धमनुकात्यायनौ -- अर्धरात्रादधस्ताच्चेत्संक्रान्तिर्ग्रहणं तदा । उपाकर्म न कुर्वीत परतश्चेन्न दोषदिति । अत्र प्रयोगपारिजाते - वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ । उपाकर्म न कर्तव्यं सिंहयुक्ते तदिष्यते । इति वचनं देशान्तरविषयम् । नर्मदोत्तरभागे तु कर्तव्यं सिंहयुक्त । कर्कटे संस्थिते भानावुपाकुर्यात्तु दक्षिणे इति वृहस्पत्तिवचनात् । पराशर माधवीयेऽप्येवम् । सामगानां सिंहस्थे रवावुक्तेस्तद्विषय इदं पुरोडाश्चतुर्धा करणवदुपसंहियत इति त्वन्ये । एतच्च शुक्रास्तादावपि कार्यम् । उपाकर्मोंत्सर्जनं च पवित्रदमनार्पणमित्युक्तेः । पर्वणि ग्रहणे सति पूर्वं त्रिरात्रादिवेधाभाव उक्तः प्रयोगपारिजाते --- नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेधो न विद्यत इति । प्रथमारम्भस्तु न भवति । तत्रैव कश्यपः -- गुरुभार्गवयोमढ्ये वाल्ये वा वार्धकेऽपि वा । तथाऽधिमाससंक्रान्तौ मलमासादिषु द्विजः । प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृदिति । एतच्च पूर्वाह्ने कार्यम् । तथाच प्रचेतोवचः --- भवेदुपाकृतिः पौर्णमास्यां पूर्वाह्न एव त्विति । दीपिकाऽपि अस्य तु विधेः पूर्वाह्न - कालः स्मृत इति । यत्तु अध्यायानामुपाकर्म कुर्यात्कालेऽपराहके । पूर्वाहे तु विसर्गः स्यादिति