________________
२७४ पारस्करगृह्यसूत्रम् ।
[दशमी अमौ साविच्या प्रसिद्धया प्रक्षिपेयुः भेदेन नतु युगपत् । 'ब्रम"ल्पन। तत्र ये ब्रह्मचारिणः शिष्यास्ते पूर्वकल्पेन समिदाधानोक्तमन्त्रेण आदध्युः । अत्र तिस्रस्तिस्र इति वीप्सा न समिद्विपया किंतु आघातृपुरुपचिपया तेन प्रत्याहुतिमेकैकामादध्युः । शन्नो' 'श्रीयुः। शन्नोभवन्तु वाजिन इत्यनयर्चा अक्षतधाना अखादन्तः दन्तैरनवखण्डयन्तः प्राश्नीयु: भक्षयेयुः । 'दधि ''येयुः। दधिक्राव्णो अकारिपमित्यूचा दधि भक्षयेयुः । स या केन वा ' स आचार्यों यावन्तं यावत्सङ्ख्याक 'शिष्याणां गणं समूहमिच्छेत् तावत्संख्याकान् तिलान् आकर्पफलकेन औदुम्बर्येण वाहुमात्रेण 'साकृतिना सावित्र्या सवितृदेवतया गायत्रिछन्दस्कया प्रसिद्धया जुहुयात् यद्वा शुक्रज्योतिरित्यनुवाकेन जुहुयात् । गुणफलमेतत् । अतो धानाभ्यः स्विष्टकते हुत्वा महाव्याहृत्यादिनवाहुती त्या । 'प्राश'''नाम् । संस्रवप्राशनानन्तरं प्रत्यङ्मुखेभ्य आसीनेभ्यः शिष्येभ्यः सामर्थ्यात् स्वयं प्राङ्मुख उपविष्ट ॐकारं प्रणवमुक्त्वा उच्चार्य तत्सवितुरित्यादिकां च सावित्री त्रिरुक्त्वा मन्त्रब्राह्मणयोः अध्यायानामादीन प्रब्रूयात् अध्यापयेत् इति यजुर्वेदोपाकरणे । ऋग्वेदोपाकरणे तु ऋापिमुखानि मण्डलादीन् प्रघूयात् वहचानां शिष्याणाम् । छन्दोगानां सामगानां शिष्याणां सामवेदोपाकरणे पर्वाणि पर्वणामादीन् प्रब्रूयात् । अथर्वणानां शिष्याणामथर्ववेदोपाकरणे सूक्तानि सूक्तादीन प्रयात्। । सर्वे 'मह इति । सर्वे आचार्यशिल्याश्च सहनोऽस्त्वित्यमुं मन्नं जपन्ति । 'बिरार्गात् । उपाकर्मानन्तरं त्रिरात्रं नाधीयीरन् अध्ययनं न कुर्युः । त्रिरात्रमेव लोग्ना नखानां च अनिकृन्तनमच्छेदनम् । एके आचार्याः लोमनखानामनिकृन्तनं प्रागुत्सर्गात् उत्सर्गकर्मतः, अवाक् इच्छन्ति । उत्सर्गश्च अर्धपष्ठान्मासानधीत्योत्सृजेयुरित्येवं वक्ष्यमाण इति सूत्रार्थः ।
अथ पद्धतिः । श्रावण्यां पौर्णमास्यां श्रवणयुक्तायामयुक्तायां वा श्रवणस्य शुक्लपञ्चम्या हस्तयुक्तायामयुक्तायां वा उपाकर्म अध्यायोपाकर्म भवति । तच्च अध्यापनं कुर्वतः औपासनिकस्य नत्वन्यस्य । तत्र प्रथमप्रयोगविहितमातृपूजापूर्वक श्राद्धम् आचार्य आवसथ्याग्नौ ब्रह्मोपवेशनाद्याज्यभागान्ते विशेषमनुतिष्ठेत् । तण्डुलस्थाने अक्षतधाना आसादयेत् प्रोक्षणकाले प्रोक्षेञ्च । तथोपकल्पयति । औदुम्बरीः समिधः दधि आकर्षफलक तिलान् भक्षार्थ धानाः । तत आज्यभागान्ते वेदाहुत्यादीनामनुमत्यन्तानां वेदारम्भवद्धोमं विदध्यात् । एकदा सर्ववेदोपाकरणे प्रतिवेदं स्वस्खाहुतिद्वयं हुत्वा हुत्ला ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं पुनः पुनर्जुहुयात् । प्राजापत्याद्या अनुमत्यन्ताः सप्ताहुतीस्तन्त्रेण । अथ सदसस्पतिमित्यनयर्चा तत आसादिताभिरक्षतधानाभिः सुवेणैकामाहुतिमाचार्यों जुहोति इदं सदसस्पतये० । शिष्या अपि मन्त्रमनु पठन्ति । तत आचार्यः शिष्याश्च सर्वे औदुम्बरीमार्दा सपलाशां घृताक्तां एकैकां समिधं तत्सवितुरित्यादिकया सावित्र्या अग्नावादध्युः ब्रह्मचारिणश्च शिष्या अग्निकार्यमन्त्रेण तथैव समिधमादध्युः । एवं द्विरपरं धानाहोमं विधाय एकां समिधमादध्युः । तत आचार्यः शिष्याश्च उपकल्पितधानाभ्यस्तित्रस्तिस्रोऽक्षतधाना दन्तैरनवखण्डयन्तो भक्षयेयुः शन्नो भवन्तु वाजिन इत्यनयर्चा । तत आचम्य ततो दधिक्राव्णो अकारिषमित्यनयर्चा दधि भक्षयेयुः । तत आचमनानन्तरमाचार्यों यावन्तं शिष्यगणं कामयेत तावतस्तिलानाकर्षफलकेनादाय सावित्र्या जुहुयात् । इदं सवित्रे० । शुक्रज्योतिरित्यनेनानुवाकेन वा तिलान् जुहुयात् । तत्रेदं मरुन्य इति त्यागः । ततो हुतशेषधानाभ्यः स्विष्टकृते हुत्वा महाव्याहृत्यादिप्राजापत्यान्ता नवाहुतीर्तुत्वा संस्रवप्राशनं ब्रह्मणे दक्षिणादानं यथोक्तं कुर्यात् । ततः प्रत्यड्मुखोपविष्टेभ्यः शिष्येभ्यः प्राङ्मुख आचार्य उपविष्ट ॐकारमुक्त्वा त्रिवारं च सावित्रीमुक्त्वा इषे त्वा कृष्णोऽसीत्येवं मन्त्रस्य अध्यायानामादीन्प्रतीकान्यात् । तथाच व्रतमुपैष्यन् स वै कपालान्येवान्यतर उपधातीत्येवं च श्राह्मणस्य । ऋग्वेदानां मण्डलादीन छन्दो