________________
कण्डिका ] द्वितीयकाण्डम् ।
२७३ उपविष्टेभ्य ॐकारमुक्त्वा त्रिश्च सावित्रीमध्यायादीन् प्रब्रूयात् मन्त्रब्राह्मणयोः । ऋपिमुखानि वहृवानां पर्वाणि छन्दोगानां सूक्तान्यथर्वणानां, प्रत्रूयादित्यनुवर्तते । सवें जपन्ति सहनोऽस्त्वित्यमुं मन्त्रम् । अस्यार्थः-तत्र प्रजापतिर्यजुर्ब्रह्मदैवतं जपे० । इदं ब्रह्म सानोऽयं वेदः अध्ययनार्थ सह सहभावं प्राप्तानां समवेतानां नोऽस्माकमस्मद्वद्धये सुस्थिरं भवतु । ततश्च सह मिलितान्नोऽस्मान् अवतु अपायाद्रक्षतु । तथाऽत्र मिलितानां नोऽस्माकमनव्यायाध्ययनशूद्रादिश्रवणादिना उपहतमपीदं ब्रह्म वीर्यवदस्तु अयातयाममस्तु । किं च इन्द्रः प्रजापतिः अन्तर्यामी तत् यथा यथावत् वेद वेदयतु । येन ब्रह्मवेदनेन वयं न कंचन विद्विपामहे द्विष्मः । अनिकृन्तनमपि त्रिरात्रम् । 'एके उत्सर्गात् । अर्द्धषष्टानियुक्तसर्वोत्सर्गात्माग्लोमनखानामनिकृन्तनमिच्छन्ति ॥ १०॥ ॥*॥
(हरिहरः)-'अथा'कर्म' अथ पञ्चमहायज्ञानन्तरं अध्यायस्य उत्सृष्टस्य उपाकर्म उपाकरणं व्याख्यास्यत इति शेषः । तच्चाग्निमतोऽध्यापनप्रवृत्तस्यैव भवति । छन्दांस्युपाकृत्याधीयीतेतिवचनात् । उपाकरणस्य चावसथ्याग्निसाध्यत्वात् निरग्नेनाधिकारः । तथाच छन्दोगपरिशिष्टे कात्यायनः-न स्वेऽनावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम् । स्वगर्भसंस्कृतार्थश्च यावन्नासौ प्रजायत इति । स्वेन आत्मना आहितः आधानसंस्कृतोऽग्निः स्वः तस्मिन् स्खे अग्नौ अन्यस्य संवन्धी संस्कारको होमः अन्यहोमो न स्यात् न भवेत् । किं पयुर्दस्य एकां समिदाहुतिं समिधामाहुतिः समिदाहुतिः तां मुक्त्वा वर्जयित्वा । सा च समिदाहुति: उपाकर्मणि आचार्यस्याग्नौ शिष्यकर्तृका भवति तेनावसथ्याग्नावुपाकर्म भवतीति गम्यते । अतः अध्यापयतोऽपि निरग्नेः साग्नेरपि अनध्यापयतो नाघिकारः । यत्तु लोके ब्रह्मचारिणं पुरस्कृत्य उपाकर्म प्रवर्तते लौकिकऽग्यग्नौ तस्याचारं विहाय मूलं न दृश्यते । ' ओष "स्याम् । ओषधीनामपामार्गादीनां प्रादुर्भावे उत्पत्तौ सत्यां श्रवणेन युक्तायां श्रावण्यां पौर्णमास्यां श्रावणस्य शुक्लपञ्चदयाम् । अत्र ओपधिप्रादुर्भावः श्रवणश्च पौर्णमास्या एव विशेषणम् । तत्र तयोः प्रायशः संभवात् । एवंच सति पौर्णमास्या एव प्राधान्यम् । तस्माद्विशेपणाभावेऽपि पौर्णमास्यां भवति । ' श्राव'""स्तेन वा । ओपधिप्रादुर्भावस्तु सर्वत्रापेक्षितः श्रावणमासस्य पञ्चमी हस्तेन युक्तां वा प्राग्य भवति तत्रापि प्रायेण हस्तो भवति । अतः श्रावणी पूर्णिमा श्रावणपञ्चमी वा विशिष्टा अविशिष्टा वा उपाकर्मणः कालः । अन्ये तु कालचतुष्टयमाहुः । कथं अवणेन वा श्रावण्यां पौर्णमास्यां वा श्रावणस्य पञ्चमी वा हस्तेन वा भवति । ओपधिप्रादुर्भावस्तु सर्वत्रापेक्षितः । ओषधिप्रादुर्भावे सति श्रवणेन इत्यादि । 'आज्य' 'तय इति च ' आज्यभागाविष्वा आज्यभागहोमानन्तरमाज्याहुतीर्जुहोति । तत्र ऋग्वेदे अधीयमाने पृथिव्यै अग्नय इति द्वे आहुती जुहोति । यजुर्वेदे अधीयमाने अन्तरिक्षाय वायव इति द्वे । सामवेदे अवीयमाने दिवे सूर्यायेति द्वे । अथर्ववेदे अधीयमाने दिग्भ्यश्चन्द्रमस इति द्वे । ब्रह्मर्ण छन्दोभ्यश्चेति द्वे आहुती सर्वत्र प्रतिवेदमावर्तयेत् सर्वेषु वेदेषु अधीयमानेषु एकत्तमे वा, तथा प्रजापतय इत्यादिकाश्च सप्त । चशब्दात्सर्वत्र । एवमेकैकशो वेदाध्ययनोपाकरणपक्षे । यदा पुनश्चतुर्णामपि वेदानां तन्त्रेणोपाकरणफर्म तदा ब्रह्मणे छन्दोभ्यश्चेति प्रतिवेदमाहुतिद्वयमावर्तयेत् । प्रजापतये देवेभ्य इत्याद्यास्तन्त्रेणैव योगविभागसामर्थ्यात् । ' एव "गेंपु । एतत् उपाकर्मणि विहितं पृथिव्या इत्यादि अनुमतय इत्यन्तं होमकर्म, व्रतादेशनं वेदारम्भः विसर्गः समावर्तनम् व्रतादेशनानि च विसर्गश्च व्रतादेशनविसर्गास्तेपु भवति । ' सद"विच्या' सदसस्पतिमित्यनेन मन्त्रेण अक्षताश्च (ताः) धानाश्च अक्षतधानाः ता आचायों जुहोति त्रित्रिवारम् । सर्वे च शिष्या एतं मन्त्रमनु सह पठेयुः । तथा हुवा हुत्वा एकैकामाहुति दत्त्वा औटुम्वरीः उदुम्वरवृक्षोद्भवास्तिस्रस्तित्र आर्द्राः सरसाः सपलाशाः पत्रसहिता धृताक्ता आज्यलिप्ताः समिधः सर्वे आचार्यप्रमुखाः शिष्या आध्युः