________________
२७२ पारस्करगृह्यसूत्रम् ।
[दशमी हि स्मरन्ति । छन्दांस्युपाकृत्याऽधीयीत । एवं सति अध्ययनप्रवृत्तस्यैतद्भवति अत एवाग्निमतोऽध्यापन भवति । नानग्निमान् शक्तोत्यग्निसाध्यं कर्म कर्तुमिति । ' ओप"स्याम् । श्रावण्यां हि पौर्णमास्यां श्रवण एव प्रायशो भवति ओपधीनां प्रादुर्भावश्च । तदेतदुभयं तस्या एवं विशेषणम् । 'श्राव' ''न वा' तत्रापि प्रायशो हस्त एव भवति । अतः कालद्वयस्योपाकरणकर्मणो विकल्पोऽयम् । अपरे तु कालचतुष्टयं वर्णयन्ति । 'आज्य"होति' 'पृथि "ग्वेदे' अधीयमाने जुहोति । 'अन्त''तये च ' चशब्दादेतदपि सर्वत्र । पृथग्योगकरणं किमर्थम् । चतुर्णामपि वेदानां तन्त्रे. णोपाकरणकर्मणि ब्रह्मणे छन्दोभ्यश्चेति प्रतिवेदमावर्तते । प्रजापतये देवेभ्य इत्येवमादि तन्त्रेण यथा स्यादिति पृथग्योगकरणम् । एत.."गैपु' एतदेव व्रतादेशे विसर्गे चायाहुतिकर्म भवति । 'सद"विन्या ' सदसस्पतिमित्यनेन मन्त्रेण आचार्योऽशतधाना जुहोति । सर्वे च सह पठन्ति मन्त्रम् । हुत्वा हुत्वौदुम्बर्यस्तिस्रः समिध आदध्युः सावित्र्या । समिदाधानं च भेदेन न यौगपयेन । 'ब्रह्म 'ल्पेन ' इति दृष्टत्वात् । तत्र हि समिदाधानं प्रकृत्योक्तम्-एवं द्वितीयां तथा तृतीयामिति । शन्नो श्रीयु: ' शन्नो भवन्वित्यनेन मन्त्रेण अक्षतवाना यवानां धाना अनवखण्डयन्तः प्राश्रीयु: ।। 'दधि 'येयुः। सर्वे इति वहुवचनोपदेशात् । 'स या "वित्र्या' स इत्याचार्योऽभिधीयते । यावन्तं शिष्यगणमिच्छेत्तावतस्तिलानाकर्पफलकेन जुहुयात्सावित्र्या । 'शुक्र 'वा' वाशब्दो विकल्पार्थः । अतो धानाभिः स्विष्टकृत् । तासां च अपणानुपदेशाद्भूतानामेवोपादानम् । 'प्राश''यात् ' मन्त्रब्राह्मणयोः । ऋपिणानां प्रत्यादित्यनुवर्तते । सर्वे "नोस्त्विति । अमुं मन्त्रम् । 'बिरा''नम्। त्रिरात्रमेव । 'एके "र्गात् । लोमनखानामनिकन्तनमिच्छन्ति । उत्सर्गश्चार्द्धपष्टान् मासानधीत्योत्सृजेयुरित्येवम् ॥ ॥ॐ॥
(जयरामः )-'अथा कर्म ' व्याख्यास्यत इति सूत्रशेषः । अध्यायोऽध्ययनम् । तस्योपाकर्म पौपस्य रोहिण्यां मध्यमाष्टकायां वा एकपक्षिकोत्सृष्टस्यार्द्धपष्ठानर्द्धसप्तमात्वा मासान् शुक्लपक्षे वेदान् कृष्णपक्षेऽङ्गानीत्येवमधीत्य ततः सर्वथोत्सृष्टस्य पुनरुपाकरणं स्वीकरणमिति यावत् । एवं च सत्यध्यापनप्रवृत्तस्यैव तद्भवति । अत एवाग्निमतोऽध्यापनं भवति । न ह्यनग्निमाञ्छनोत्यग्निसाध्यं कर्म कतुमिति । ओपिधीनामिति । श्रावण्यां पौर्णमास्यां श्रवण एवं प्रायः ओषधीप्रादुर्भावश्च । तदेतदुभयं तस्या एव विशेपणम् । एवं पञ्चम्यामपि । तत्रापि प्रायशो हस्त एव भवति । अत उपाकर्मकालद्वयस्यायं विकल्पः । अपरे तु कालचतुष्टयमाहुः । आज्यभागादीनि अधीयान एव जुहोति । ऋग्वेदे अधीयमाने । एवमग्रेऽपि व्याख्येयम् । प्रजापतय इत्यादि चशब्दात्सर्वत्र । तस्य तु पृथग्योगकरणं चतुर्णामपि वेदानां तन्त्रेणोपाकरणे ब्रह्मणे छन्दोभ्यश्चेत्याहुतिद्वयं प्रतिवेदमावतते । प्रजापतये देवेभ्य इत्येवमादि तन्त्रेण यथा स्यादिति । एतदेव आज्याहुतिकमेव कर्म व्रतविसर्गे प्रतादेशे चापि भवति । सदसस्पतिमिति मन्त्रेणाचार्योऽक्षतधानास्त्रिर्जुहोति । सर्वे शिष्या अनु सहैवानुवर्तमाना उपांशु मन्त्रं त्रिः पठेयुः । किं कृत्वा हुत्वा हुनौदुम्वरीस्तिस्रस्तिस्रः समिध आदव्युः साविच्या एकैकामक्षतधानाहुतिम् । समिदाधानं च भेदेन नतु योगपद्येन । ब्रह्मचारिणश्च शिष्यस्य पूर्वकल्पेन प्रागुपदिष्टविधानेन समिदाधानमन्त्रेणेत्यर्थः । तत्रैव हि प्रकृत्योक्तम् । एवं द्वितीयां तथा तृतीयामिति | शंनो भवन्त्विति मन्त्रेणाक्षतधाना अक्षतानां यवानां धानाः भर्जितकणान् दन्तैरनवखण्डयन्तः अचर्वयन्तः प्राश्नीयुः सर्वे । दधिक्राव्ण इति दधि भक्षयेयुः सर्वे बहुत्वोपदेशात् । स आचार्यों यावन्तं शिष्याणां गणमिच्छेत्तावतस्तिलान् आकर्षफलकेनौदुम्वरेण चाहुमात्रेण सर्पाकृतिना जुहुयात् सावित्र्या शुक्रज्योतिरित्यनुवाकेन वा । वाशब्दो विकल्पार्थः । ततो धानाभ्यः स्विष्टकृत् । तासां च अपणानुपदेशात् श्रितानामेनोपादानम् । प्राशनान्ते प्रत्यङ्मुखेभ्यः