________________
पारस्करगृह्यसूत्रम्
[दशमी प्रागादिनिरूपकावधित्वेन मध्ये भूतगृह्येभ्यो वलिदानमित्यवसीयते । नच पर्जन्यादीनामेव भूतगृह्यतेति वाच्यम् । पर्जन्यपदार्थान्तर्गतततत्तद्दिगवस्थितवाय्वादीनां च पृथग्देवतात्वानापत्तेः । तथा च यथाधिकरणभेदादेवत्वं भिद्यते तथा नामभेदादपि देवस्त्रभेदः । नच पर्जन्यायुद्देश्यकद्रव्यत्यागे. नैव भूतगृह्योद्देश्यकद्रव्यत्यागस्य जातत्वाकिमर्थ पृथक् तहानमिति वाच्यम् । भवन्मते पर्जन्यादर्भूतगृह्यपदवाच्यतया भूतगृह्योद्देश्यकदानस्यैव पर्जन्योद्देश्यकदानतया किमथै पर्जन्यायुदेशकानेकवलिदानं गौरवात् । ब्रह्मादीनां भूतगृह्यतायां नियामकाभावाचेति न किंचिदेतत् । मणिक इति सामीप्यसप्तमी मणिकसमीपे प्राक्संस्थं चलित्रयं दद्यात् वलिदानं चान्ने उदकमासिच्य सोदकमर्धाहुतिप्रमाणम् । तद्यथा । गृहमध्ये भूतगृह्येभ्यो नमः इदं भूतगृह्येभ्यः । मणिकसमीपे पर्जन्याय नमः इदं पर्जन्याय । अद्भ्यो नमः इदमयः । पृथिव्यै नमः इदं पृथिव्यै । एतद्वलित्रयं प्राक्संस्थम् । धाने 'ययो. 'द्वायें द्वारशाखे दक्षिणोत्तरे यदि प्रारद्वारं दक्षिणद्वारं चेत्प्रत्यक्पूर्व तयोः। तद्यथा । धात्रे नमः इदं धात्रे विधात्रे नमः इदं विधाने । 'प्रति'''शां च ' मध्ये दत्तातगृह्यवलेः, दिशदिशं प्रति इति प्रतिदिशं वायवे दिशां च । चकारः प्रतिदिशमित्यस्यानुकर्पणार्थः तथा च यस्यां वायवे दत्तं तस्यै दिशे दत्त्वा दिगन्तरे वायवे दिशे च दद्यादित्यर्थः । तद्यथा वायवे नमः प्राच्य दिने नमः । मध्यवले. प्राच्यामिदं वायवे इई प्राच्यै । एवं सर्वत्र । मध्यवलेदक्षिणस्यां गत्वा । वायवेनमः दक्षिणादियो नमः । एवं प्रतीच्या वायवे नमः प्रतीच्य दिशे नमः । तत उदीच्या वायवे नमः उदीच्यै दिशे नमः । ततो मध्यवले. प्राच्या वायवे दत्तादुत्तरतः पुनर्वायवे नम इति वलिं दत्त्वा त्यागं विधायो निरीक्षन्नू/यै दिशे नम इति तिष्ठन्वलिद्वयं दद्यात् । तत उपविश्याधस्ताद्विलोकयन्वायवे नमः अवाच्यै दिशे नम इति वलिद्वयं दद्यात् । ' मध्ये "र्याय' मध्यवलेरुत्तरतः प्राक्संस्थं ब्रह्मणे नमः अन्तरिक्षाय नमः सूर्याय नम इति बलित्रयं दद्यात् । 'विश्वे""तरः। तेषां ब्रह्मादिवलीनामुत्तरस्यां विश्वेभ्योदेवेभ्यो नमः विश्वेभ्यो भूतेभ्यो नमः इति बली दद्यात् ।'उप'"'परं' चकारात्तयोरुत्तरे उपसे नमः भूतानां पतये नमः । पितृ'''णतः ब्रह्मादिवलित्रयस्य दक्षिणतः अपसव्यं कृत्वा सव्यं जान्वाच्य पितृतीर्थेन पितृभ्यः स्वधा नम इति वलिं दद्यात् । उदकस्पर्शः । अयं चैकवलिदानात्मा पितृयज्ञः पारस्करमते । अन्ये तु पदैवतं नित्यश्राद्धं पितृयज्ञमाहुः । 'पा'तत इति' वायव्यकोणे । अध्वर्युपक्षे यजमानस्य पितृभ्य इति कीर्तनम् । प्राच्यादिनिरूपकता चोग्नरित्याहुः । उद्धृत इति । अयं षोडशनासमितं चतुर्मासं वा अशक्तौ शक्तौ तु तृप्तिपर्याप्तं वैश्वदेवादन्नादुद्धत्योपवीतं कण्ठे कृत्वा मनुष्यतीर्थेन तदन्नमुदकपूर्व ब्राह्मणहस्ते दद्यात् हन्त त इति । अयं नृयज्ञः । पितृयज्ञस्य श्राद्धरूपत्वे पितृमातामहादिपटकोद्देशेन चन्दनाधर्चितमुद्ड्मुखोपविष्टं भोजयेत् केचितु पञ्चमहायजसांगतार्थ ब्राह्मणं भोजयेदित्याहुः । ततः काकादिवलिः । तद्यथा । ऐन्द्रवारुणवायच्या याम्या वै नैर्ऋतास्तथा । वायसाः प्रतिगृह्णन्तु भूम्यां पिण्डं मयाऽर्पितम् । इदं वायसेभ्यः । श्वानों द्वौ श्यामशवलौ वैवस्वतकुलोद्भवौ । ताभ्या पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ । इदं श्वभ्यः । देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरवः समस्ता । ये चान्नमिच्छन्ति मया प्रदत्तम् । इदं देवादिभ्यः । पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिवन्धवद्धाः । तृप्त्यर्थमन्नं हि मया प्रदत्तं तेषामिदं ते मुदिता भवन्तु ॥ इदं पिपीलिकादिभ्यः । इति वहिर्बलिदानम् । तर्पणात्माकू ब्रह्मयज्ञश्चेन्न कृतः तदानीं कर्तव्यः । केचित्तु पितृनृयज्ञात्पूर्व ब्रह्मयज्ञ इत्याहुः । तथा च श्रुतिः यज्ञश्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स च स्मृतः । स चार्वाक् तर्पणाकार्य: पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यत्रेत्यनिमित्तक इति । 'यथा' 'रन् । ब्रह्मचारिसंन्यासिप्रभृतीनां शास्त्रनिपिद्धं मध्वादि तदन्यद्यस्य यद्विहितं तत्तस्याहम् । अर्हमुचितमनतिक्रम्येति