________________
कण्डिका द्वितीयकाण्डम् ।
२६९ इति हेमाद्रावुक्तेः । तत्रैव परिशिष्टे-संप्राप्ते पार्वणश्राद्धे एकोहिष्टे तथैव च । अग्रतो वैश्वदेवः स्यात्पश्चादेकादशेऽहनि । स्मार्त्ताग्निमतां तद्रहितानां वाऽग्नौकरणोत्तरं विकिरोत्तरं वा होममात्रं पृथक्पाकेन । भूतयज्ञादि तु श्राद्धान्त एव । अत्र मूलं हेमाद्रिचन्द्रिकादौ स्पष्टम् । सर्वेषां श्राद्धान्ते वा तत्साकेन वैश्वदेवनित्यश्राद्धादीनीति तृतीयः ॥ श्राद्धं निवर्त्य विधिवद्वैश्वदेवादिकं ततः । कुर्याद्भिक्षां ततो दद्याद्धन्तकारादिकं तथेति पैठीनसिस्मृतेः। ततः श्राद्धशेपात् । श्राद्धाह्रि श्राद्धशेपेण वैश्वदेवं समाचरेदिति चतुर्विंशतिमताञ्च । एवं वैश्वदेवस्य कालत्रयस्य आशाऽ शावायनेन परिशिष्टमुदाहृत्यैव व्यवस्थोक्ता । आदौ वृद्धौ क्षये चान्ते दर्श मध्ये महालये । एकोद्दिष्टे निवृत्ते तु वैश्वदेवो विधीयत इति वहुस्मृत्युक्तत्वात्सर्वेषां श्राद्धान्त एवेति मेवातिथिस्मृतिरत्नावल्यादयो बहवः । वढचां श्राद्धान्त एवेति बोपदेवः । मध्यपझस्त्वन्यशाखापर इति स एवाह । हेमाद्रिस्तु वृद्धावप्यन्त एव वैश्वदेवमाह । कातीयानां तु स्मार्तश्रौताग्निमतामादावेव । अन्येषामन्ते । तैत्तिरीयाणां तु साग्नीनां सर्वत्रादौ । पञ्चयज्ञॉश्च अन्ते चेति सुदर्शनभाष्ये । मार्कण्डेयः--ततो नित्यक्रियां कुर्याद्रोजयेच्च ततोऽतिथीन् । ततस्तदन्नं भुजीत सह भृत्यादिभिर्नरः ॥ ततः श्राद्धशेषात् नित्यक्रियां नित्यश्राद्धम् । तत्र पृथक्पाकेन नैत्यकमिति तेनैवोक्तेः पाकैक्ये विकल्प. । अथ पक्काभावे स्मृत्यर्थसारे विशेपः-पक्काभावे प्रवासे वा तन्दुलानौपधीस्तु वा । पयो दवि घृतं वाऽपि कन्दमूलफलादि वा ॥ योजयेद्देवयज्ञादौ जलं वाऽप्सु जलं पतेन् । इदं सुवेण होतव्यं पाणिना कठिनं हविरिति ॥ स्नातको ब्राह्मचारी वा पृथक्पाकेन वैश्वदेवं कुर्यात् । स्त्री वालश्च कारयेदिति स्मृत्यर्थसारे । तत्रैव । होमाग्रदानरहितं भोक्तव्यं न कथंचन । अविभक्तेपु संसृष्टेष्वेकेनापि कृतं तु यत् ॥ देवयज्ञादि सर्वार्थ लौकिकाग्नौ कृतं यदि । इक्षुनपः फलं मूलं ताम्बूलं पय औषधम् ।। भक्षयित्वाऽपि कर्तव्याः स्नानदानादिकाः क्रिया इति ॥ ॥ अथ निरग्निकस्य विशेषः । तत्र याज्ञिकाः पठन्ति– अथातो धर्मजिज्ञासा केशान्तादूर्ध्वमपत्रीक उत्सन्नाग्निरनग्निको वा प्रवासी वा ब्रह्मचारी वाऽन्वग्निरिति प्रामादग्निमाहृत्य पृष्ठोदिवील्यधिष्ठाप्य त्रिभिश्च सावित्रैः प्रज्वाल्य ताउंसवितुस्तत्सवितुर्विश्वानिदेवसवितरिति पूर्ववदक्षतेर्तुत्वा पाकं पचेत् । तत्र वैश्वदेवो ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतये विश्वेभ्यो देवेभ्योऽग्नये स्विष्टकृत इत्युपस्पृश्य पूर्ववद्वलिकर्मणैवंकृते न वृथा पाको भवति न वृथा पाकं पचेन्न वृथा पाकमश्नीयादत्र पिण्डपितृयज्ञः पक्षाद्याग्रयणानि कुर्यादिति । गर्ग मते वैश्वदेवे विशेषः । पञ्चाहुतीनामुत्तरं विष्टकृद्धोमः । भूतयजे पूर्व भूतगृह्येभ्यो नम इति वलिं दत्त्वा पर्जन्यादिभ्यो दानम् । विश्वेभ्यश्च भूतेभ्यो भूतानां च पतय इति मन्त्रद्वये चकारपाठः ।। इति पञ्चमहायज्ञपदार्थक्रमः ।।
(विश्व०) प्रसक्तानुप्रसक्त्या गर्भाधानादीन् विवाहाधिकारसंपादकान् समावर्तनान्तान्संस्कारान्सूत्रयित्वेदानी कृतावसध्यस्य प्रत्यहमभ्यस्यमानान्पञ्चसंख्याकान्महायज्ञान्वक्तुमुपक्रमते 'अथा'"यज्ञाः ' वक्ष्यन्त इति सूत्रशेपः । तत्रादौ देवयज्ञं सूत्रयति · वैश्व''यात्' तत्र विश्वेदेवा देवता अस्येति वैश्वदेवं तस्मात् तस्यैकदेशात् कृतावसथ्यः आवसथ्यदिने एव मणिकावधानानन्तरं मातृपूजाभ्युदयिके प्रथमवैश्वदेवारम्भे कृत्वा वैश्वदेवार्थ पाकं कृत्वा तदेकदेशमादाय घृतेनाभिधार्य प्राड्मुख उपविश्य दक्षिणं जान्वाच्य पर्युक्ष्य हस्तेन जुहुयात् । पर्युश्येत्यनेनेतरपरिभापितशास्त्रार्थनिरासः । जुहुयादित्यनेनैव स्वाहाकारप्राप्तौ पुनस्तदुल्लेख: संसवन्युदासार्थः । 'ब्रह्म "य इति । स्विष्टकृद्धोमार्थमितिशब्दोपादानम् ब्रह्मणे स्वाहा इदं ब्रह्मणे एवमुत्तराहुतिपु । अग्नये स्विष्टकृत इतिस्विष्टकद्धोमानन्तरमुदकस्पर्शः । भूतयज्ञमाह 'भूत' 'थिव्यै' दद्यादिति शेषः । पर्जन्यादीनां मणिकोपलक्षितभूप्रदेशाधारतोक्तेरने च प्रागादौ वलिदानस्य वक्ष्यमाणत्वात्तनिरूपणायावध्यपेक्षायां