________________
२६८ पारस्करगृह्यसूत्रम्।
[ नवमी कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिवन्धवद्धाः । तृप्त्यर्थमन्नं हि मया प्रदत्तं तेपामिदं ते मुदिता भवन्तु ॥ इदं पिपीलिकादिभ्यो नमम । पादौ प्रक्षाल्याचामेत् ॥ ॥ अथ ब्रह्मयज्ञः । तत्रासनोपरि न्यस्तप्रागप्रदर्भेषु प्राड्मुख उपविष्टः पवित्रपाणिरन्यान्दर्भान्पाणिभ्यामादाय प्रणवव्याहृतिपूर्वी गायत्रीमान्नायस्वरेणाधीत्य इषेत्वेत्यादिवेदमारभ्य यथाशक्ति कण्डिकाऽध्यायशो वा संहिता पठित्वा ब्राह्मणं पठेत् । ब्राह्मणं च ब्राह्मणशो का पठेत् ॐ स्वस्तीत्यन्ते वदेत् । एवं संहितां समाप्य ब्राह्मणमादावारभ्य समापयेत् । तच्च समाप्य द्विवेदाध्यायी चेद् द्वितीयवेदम् । एवं क्रमेणादावारभ्य समापयेत् । एवमेव तृतीयवेदं चतुर्थवेदं च । एवमेवेतिहासपुराणादीन्यपि पठित्वा आदावारभ्य क्रमेण समापनीयानि । जपयज्ञप्रसिद्धये प्रत्यहं चाध्यात्मिकी विद्यामुपनिषदमपि क्रमेण ब्रह्मयज्ञान्ते पृथक् पठेत् । एवमेव गीतादिपाठः । जपयज्ञप्रसिद्धयर्थं विद्यां चाध्याल्मिकीं जपेदिति याज्ञवल्क्येन पृथग्विधानात् । अमावास्यादिष्वनध्यायेष्वपि ब्रह्मयज्ञो भवत्येव । अहरहः स्वाध्यायमधीते इति श्रुतेः । कारिकायां विशेष:-बद्धाञ्जलिर्दर्भपाणिः प्राङ्मुखस्तु कुशासनः । वामानिमुत्तमं (१) कृत्वा दक्षिणं तु तथा करम् । दक्षिणे जानुनि करोत्यञ्जलिं तमृर्मतात् । प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तित्र एव तु । गायनी चानुपूर्येण विज्ञेयं ब्रह्मणो मुखम् । ॐ स्वस्ति ब्रह्मयज्ञान्ते प्रोक्त्वा दर्भान् क्षिपेदुदक् । वेदादिकमुपक्रम्य यावद्वेदसमापनम् । आध्यात्मिकाऽथ वा विद्या प्रग्यजुः साम एव चेति ॥ इति ब्रह्मयज्ञः ॥ ॥ ततो वैश्वदेवादन्नादुद्धृत्य पोडशग्रासपरिमितमन्नमुदकपूर्वकं प्रा. ह्मणाय दद्यादिति । मन्त्रः-इमन्नं सनकादिमनुष्येभ्यो हन्तत इति ॥ ॥ अत्र निरग्नेनित्यश्राद्धम् । तदुक्तं-कृतत्वापितृयज्ञस्य साग्नेः श्राद्धं न विद्यते । नित्यं पित्र्येण बलिना निरग्नेस्तत्तु विद्यते ॥ बलेरभावात्पित्र्यस्य शिष्टात्काकबलिः स्मृतः । प्रदीपचण्डिकादौ तु स्मृतिः सम्यगुदाहृता । तथा-नित्यश्राद्धं निरग्नेः स्यात्साग्नेः पित्र्यो बलिः स्मृतः । कात्यायनीयवाक्येन विकल्पः प्रतिभाति हि ॥ श्राद्धं वा पितृयज्ञः स्यात्पित्र्यो बलिरथापि वा । साग्निकः पितृयज्ञान्तं वलिकर्म समाचरेत् । अनग्निर्हतशेषं तु काके दद्यादिति स्मृतिः। तचैवं वहिर्वलेनिवेशनान्ते सोदकमन्नं भूमौ चाण्डालवायसादिभ्यो निक्षिपेत् । मन्त्रास्तु प्रागुंक्ताः । मनुः-शुनां च पतिताना च श्वपचा पापरोगिणाम् । वायसानां कृमीणां च शनकैनिक्षिपेद्भुवि । पितृयज्ञोत्तरं ब्रह्मयज्ञकरणपक्षे तु काकादिवलिदानं ब्रह्मयज्ञोत्तरं द्रष्टव्यम् । अथ नित्यश्राद्धे विशेषः। हेमाद्रौ-एकमप्याशये. द्विप्रं पण्णामप्यन्वहं गृही। अपीत्यनुकल्पः । प्रचेताः-नामन्त्रणं न होमं च नाह्वानं न विसर्जनम् । न पिण्डदानं विकिरं न दद्यादत्र दक्षिणाम् ।। अत्र निर्दिश्य भोजयित्वा किंचिद्दत्त्वा विसर्जयेदिति तेनैवोक्तदक्षिणाविकल्पः । यत्तु काशीखण्डे-नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् । दक्षिणारहितं चैव दातृभोक्तृत्रतोज्झितमिति तद्विप्राभावपरम् । भविष्ये-~-आवाहनं स्वधाकारं पिण्डाग्नीकरणादिकम् । ब्रह्मचर्यादिनियमा विश्वेदेवा न चैव हि ॥ दातृणामथ भोक्तृणां नियमो न च विद्यते । एतद्दिवाऽसंभवे रात्रावपि कार्यम् । तथा बृहन्नारदीये-दिवोदितानि कर्माणि प्रमादादकृतानि चेत् । यामिन्याः प्रहरं यावत्तावत्सर्वाणि कारयेत् । इति नित्यश्राद्धम् ॥ ॥ अथ वैश्वदेवनिर्णयः । अकृते वैश्वदेवे तु भिक्षुके गृहमागते । उद्धृत्य वैश्वदेवार्थ भिक्षुकं तु विसर्जयेत् । वैश्वदेवाकृतेः पापं शक्तो भिक्षुळपोहितम् । साग्नेः सर्वत्र श्राद्धादौ वैश्वदेवः । पक्षान्तं कर्म निर्वय॑ वैश्वदेवं च साग्निकः । पिण्डयज्ञं ततः कुर्यात्ततोऽन्वाहार्यकं वुवः । पित्रथै निर्वपेत्पाकं वैश्वदेवार्थमेव च । वैश्वदेवं न पित्रथै न दार्श वैश्वदेविकमिति लौगाक्षिस्मृतेः । अत्र साग्निक माहिताग्निरिति हेमाद्रिः। कात्यायनानां तु सर्वार्थमेक एव पाको वैश्वदेवादन्नादिति सूत्रणात् । अन्येषां तु पृथकू । श्राद्धात्मागेव कुर्वीत वैश्वदेवं तु साग्निकः । एकादगाहिकं मुक्त्वा तत्र चान्त विधीयत