________________
कण्डिका] द्वितीयकाण्डम्।
२६७ एवमितरेषां यथोचितम् अतिथींश्च अध्वनीनान् श्रोत्रियादीन् संभजेरन् मिक्षाभोजनादिदानेन तोपयेरन् गृहमेधिनः । 'वाल'"श्नीयुः' बालो ज्येष्ठः प्रथमो येषां ते वालज्येष्ठाः ते च ते गृह्या गृहे भवाः पुत्रपौत्रादयः यथायोग्यमश्नीयुर्भुजीरन् । 'पश्चा"ली च' गृह्याणामशनोद्ध गृहपतिर्गृहस्वामी पत्नी तत्स्त्री अश्नीतः ।' पूर्वो"श्रुतेः । गृहपतिर्वा पल्याः पूर्व अश्नीयात् । न युगपत् । कुतः तस्मादुस्वादिष्टमितिश्रुतेः । अस्यार्थः-तस्मात् स्वात् अन्नात् यदिष्टं तद् गृहपतिरश्नाति अतिथिभ्योऽशितेभ्यः पूर्व पत्न्या इति । 'अहवेभ्यः' देवयज्ञोऽयमहरहः कार्यः स्वाहा कुर्याद्देवेभ्योऽन्नेन जुहुयात् । अन्नाभावे केनचिद्रव्येण काप्टपर्यन्तेनापि कार्यः । ' पितृ"त्रात् । पितृयज्ञो मनुष्ययज्ञश्च आ उदपात्रादप्यहरहः कार्यः । एवं पञ्चमहायज्ञक्रिया अहरहरेवेति गम्यते ॥ इति नवमी कण्डिका ॥९॥
अथ पदार्थक्रमः । तत्र प्रथमप्रयोगे वैश्वदेवं विनैव मातृपूजापूर्वकं सदैवमाभ्युदयिक श्राद्धम् । कारिकायाम्-अह्रोऽष्टधा विभक्तस्य चतुर्थे स्नानमाचरेत् । पञ्चमे पञ्चयज्ञाः स्युर्भोजनं च तदुत्तरम् । अहोऽष्टधा विभक्तस्य विभाग पञ्चमे स्मृतः । कुतश्चित्कारणान्मुख्यकालाभावात्तदन्यथेति । तत्रावसथ्योल्मुकं महानसे कृत्वा तत्र वैश्वदेवार्थ पाकं विधाय महानसादडारानाहृत्यावसथ्ये निधाय ततः पाकादनमुद्धृत्याभिधायें अग्नेरुत्तरतः प्राङ्मुख उपविश्य मणिकोदकेनाग्निं पर्युक्ष्य दक्षिणं जान्वाच्य हस्तेन द्वादशपर्वपूरकमोदनमादाय जुहुयात् । ॐ व्रह्मणे स्वाहा इदं ब्रह्मणे नमम । ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम । ॐ गृह्याभ्यः स्वाहा इदं गृह्याभ्यो न मम । ॐ कश्यपाय स्वाहा इदं कश्यपाय नमम । ॐ अनुमतये स्वाहा इदमनुमतये । इति देवयज्ञः । ततो मणिकसमीपे हुतशेषेणान्नेन वलित्रयमुदसंस्थं दद्यात् । पर्जन्याय नमः इदं पर्जन्याय न० । अद्भो नमः इदमद्भ्यो न० । पृथिव्यै नमः इदं पृथिव्यै नमम । ततो द्वार्ययोः शाखयोर्मध्ये प्राक्संस्थं बलिद्वयं दद्यात् । धात्रे नमः इदं धात्रे नमम । विधाने नमः इदं विधाने न० । ततो वायवे नम इत्यनेनैव मन्त्रेण पुरस्तादारभ्य प्रतिदिशं प्रदक्षिणं वलिचतुष्टयं दद्यात् । इदं वायवे नममेति सर्वत्र । ततः प्रागादिचतसृषु दिक्षु दत्तानां वायुबलीनां पुरस्तादुद्ग्वा चतुरो बलीन् दद्यात् । प्राच्य दिशे नमः इदं प्राच्य दिशे नमम । दक्षिणायै दिशे नमः इदं दक्षिणायै दिशे न० । प्रतीच्यै दिशे नमः इदं प्रतीच्य दिशे न० । उदीच्यै दिशे नमः इदमुदीच्यै दिशे न मम । ततो वायुवलीनामन्तराले प्रासंस्थं बलित्रयं दद्यात् । ब्रह्मणे नमः इदं ब्रह्मणे० । अन्तरिक्षाय नमः इदमन्तरिक्षाय न० । सूर्याय नमः इदं सूर्याय न मम । तत एतेषामुत्तरतो वलिद्धयं दद्यात् । विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो । विश्वेभ्यो भूतेभ्यो नमः इदं विश्वेभ्यो भूतेभ्यो न० । तयोश्चोत्तरतो वलिद्वयं दद्यात् । उपसे नमः इदमुषसे नमम । भूतानां पतये नमः इदं भूतानां पतये । इति भूतयज्ञः । अथ पितृयज्ञः । तत्र प्राचीनावीती भूत्वा दक्षिणामुखः सव्यं जान्वाच्य ब्रह्मादिवलित्रयस्य दक्षिणप्रदेशे पितृतीर्थेन पितृभ्यः स्वधा नम इति वलिं दद्यात् । इति पितृयज्ञः । ततस्तत्पात्रं प्रक्षाल्य निणेजनजलं सव्येनैव ब्रह्मादिवलितो वायव्यां दिशि यक्ष्मैतत्ते निणेजनमिति निनयेत् इदं यक्ष्मणे नमम । ततः काकादिवलीन् बहिर्दद्यात् तद्यथा-सुरभिवैष्णवी माता नित्यं विष्णुपदे स्थिता । गोग्रासस्तु मया दत्तः सुरभे प्रतिगृह्यताम् । इदं सुरभ्यै नमम । ऐन्द्रवारुणवायव्याः सौम्या वै निर्जतास्तथा । वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयाऽर्पितम् । इई वायसेभ्यो नमम । द्वौ श्वानौ श्यामशवलौ वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ ।। इदं श्वभ्यां नमम । देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदैत्यसंघाः। प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् ।। इदं देवादिभ्यो नमम । पिपीलिकाः