________________
पारस्करगृह्यसूत्रम्।
[नवमी इति प्रतिज्ञाय नित्यश्राद्धं कुर्यात् । ततो यथाऽह भिक्षुकादिभ्योऽनं संविभज्य वालज्येष्ठाश्च गृह्या यथायोग्यमश्नीयुः ततो जायापती अश्नीतः पूर्वी वा गृहपतिः पत्नीतः अतिथ्यादीनाशयित्वाऽश्नीयादिति ।।
(गदाधरः)-'अथा""यज्ञाः' व्याख्यास्यन्त इति सूत्रोपः । महायजा इति कर्मनामधेयम् । तत्रैको देवयज्ञो ब्रह्मणे स्वाहेत्येवमादिहोमरूपः । मणिके त्रीनित्येवमादिवलिरूपो भूतयज्ञः । पितृभ्यः स्वधा नम इति वलिदानं पितृयज्ञः । हन्तकारातिथिपूजनादिरूपो मनुष्ययनः । पञ्चग्रहणात्पञ्चमो ब्रह्मयज्ञः । एते पञ्च महायजा अहरहः कर्तव्याः नित्यत्वात् । यत्पुनरेषां फलश्रवणं तदेषां पावनत्वख्यापनार्थ न काम्यत्वप्रतिपादनाय । एपामतुष्टानप्रकारमाह ' वैश्व "यात् । विश्वे सर्वे देवा देवता यस्येति वैश्वदेवमन्नम् । ते च देवपितृमनुष्यादयः । कथमेपां देवतात्वमिति चेत् । येन स्मृतावेषां दानं विहितम् एभ्यो दत्त्वा शेपभुजा गृहपतिना भवितव्यम् । तस्माद्वैश्वदेवमन्नं यदहहः पच्यते शालाग्नौ तत आदायाग्निं पर्युत्य स्वाहाकारैः सह वक्ष्यमाणैर्मन्त्रैर्जुहुयात् । पर्युक्यग्रहणाञ्च कुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैरिति यज्जुहोति तत्स्वाहाकारैः । शेप नमस्काराः । आचरन्ति हि बलिकर्मणि नमस्कारान् । यद्वा स्वाहाकारग्रहणं संस्रवन्युदासार्थम् । 'ब्रह्म"य इति । एतैर्मन्त्रैः पञ्चाहुतीर्जुहोति । 'भूतगृह्येभ्यः भूतानि च गृह्याणि च तेभ्यो बलीन्ददाति । तान्याह 'मणि "थिव्यै । मणिके मणिक्रसमीपे सामीप्ये सप्तमीयम । त्रीन् वलीन् दद्यात् । पर्जन्याय नमः। अद्भ्यो नमः । पृथिव्यै नमः । इति मन्त्रैः। त्रीनितिग्रहणं भूतगृह्येभ्य इति चतुर्थवलिहरणनिवृत्त्यर्थम् । केचित्तु भूतगृह्येभ्य इत्येवं समन्त्रक चतुर्थ वलिहरणमिच्छन्ति । 'धात्रे"द्वा. र्ययोः। द्वार्ययोख्रशाखयोर्मध्ये धात्रे विधात्रे इति द्वौ वली ददाति । 'प्रति''शां च ' दिश दिशं प्रति वायवे नम इत्येकै वलिं दद्यात् । दिशां च यहानं तदपि प्रविदिशं स्वस्वनाममन्त्रैर्ददाति । ततश्च प्राच्य दिशे नम इत्यादि सिद्धयति । ' मध्ये "र्याय' प्रतिदिशं दत्तवलीनां मध्येअन्तराले ब्रह्मणे नम इत्यादिनीन वलीन दद्यात् । 'विश्वे "रतः ' आनन्तर्यात्तेपां त्रयाणां बलीनामुत्तरप्रदेशे विश्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यो नम इति द्वौ वली दद्यात् । विश्वेभ्यश्च भूतेभ्यो भूतानां च पतय इत्युभयत्र चकारः पठनीय इति गर्गः। ' उप"परम् ' परमिति तयोरप्युत्तरतः। उपसे नमः । भूतानां पतये नम इति द्वौ वलीदद्यात् । पितृ"णतः तेषामेव ब्रह्मादिवलीनां त्रयाणां दक्षिणतः दक्षिणप्रदेशे पितृभ्यः स्वधा नम इति मन्त्रेणैकं वलिं दद्यात् । पित्र्यत्वाचात्र दक्षिणामुखः प्राचीनावीती भवति । नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्वत्र चलिहरणेपु प्रत्येतव्यः समाचारादित्युक्तमेतत् । 'पात्र' 'त्त इति । पात्रमुद्धरणपात्रं निर्णिज्य प्रक्षाल्य तदुदकं ब्रह्मादिवलित्रयाणामेवोत्तरापरस्यां वायव्यां दिशि निनयेत् यक्ष्मैतत्त इतिमन्त्रेण । अत्र निर्णेजनमित्यध्याहारः। घलि. हरणे मध्यादिदेशाः शालाया ग्राह्या इति भर्तृयज्ञाः । 'उद्धात इति 'तत एव वैश्वदेवादन्नादुद्धरयानक मन्नं पोडशप्रासपरिमितं ग्रासचतुष्टयपरिमितं वा ब्राह्मणायावनेज्यावनेजनजलं दत्त्वा हन्तत इति म. न्त्रेण दद्यात् । हन्तकाराच पूर्व ब्रह्मयनस्यावसरः । नृयत्रो हि हन्तकारादिरास्त्रापात् । रात्रावपि ह्यतिथिपू. जा स्मथते । अतिथि प्रकृत्य नास्यानग्नन् गृहे वसेदिति । तस्माद्ब्रह्मयज्ञोऽनिर्दिष्टकालोऽपि नृयज्ञात्पूर्व एवेति कर्काचार्याः । अतो नित्यस्नानसूत्रस्यायत्वे मूलं मृग्यम् । प्रातह)मानन्तरं वा तर्पणात्पूर्व वा वैश्वदेवावसाने वा ब्रह्मयज्ञ इति हरिहरः । कात्यायनः-यश्च श्रुतिजपः प्रोक्तो ब्रह्मयन्नस्तु स स्मृतः । स चार्वाक् तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः ।। वैश्वदेवावसाने वा नान्यत्रेति निमित्तकात् (स चैकस्मिन्ननि सकदेव कार्यः । तदाह-न हन्तति न होमं च स्वाध्यायं पितृतर्पणम् । नैकः श्राद्ध द्वयं कुर्यात्समानेऽहनि कुत्रचिदिति ।। 'यथाऽ''रन् । यथाऽहै यो यदन्नमर्हति तदनतिक्रम्य यथाऽहं ततू यथा भवति तथा भिक्षुकान परिबाजकान् ब्रह्मचारिप्रभृतीन । तत्र भिक्षुकान् मधुमांसवर्जितम