________________
कण्डिका] द्वितीयकाण्डम् ।
२६५ पूर्वमाशितेषु सत्सु पश्चाद् गृहपतिः गृहस्वामी पत्नी च तद्भार्या अश्नीयाताम् । ' पूर्वो""पतिः वा अथवा गृहपतिः स्वामी पल्न्याः पूर्वमश्नीयात् । कुतः ? ' तस्मा' "श्रुतेः । तस्मादन्नात् यदिष्टं तदन्नं गृहपतिः पत्न्याः पूर्वः अतिथिभ्यः आशितेभ्यः इति श्रुतेर्वेदवचनात् । ' अह"त्रात् । अहरहः प्रतिदिनं देवेभ्यः अन्नेन स्वाहा कुर्यात् । देवतोद्देशेनान्नं जुहुयात् । अन्नाभावे केनचिद्व्येण काप्टपर्यन्तेनापि पितृभ्यः स्वधा कुर्यादन्नेन तदभावे येन केनचिद्व्येणोदपात्रपर्यन्तेन । एवं मनुष्येभ्यो हन्तकारम् । एवं पञ्चमहायज्ञानामहरहनित्यत्वेन कर्तव्यताऽवगम्यते इति सूत्रार्थः ॥ ९ ॥ ___अथ पद्धतिः । ततः पञ्चमहायज्ञनिमित्तं मातृपूजापूर्वकमाभ्युदायिक श्राद्धं कृत्वा वैश्वदेवार्थ पाकं विधाय समुद्धत्याभिधार्य पश्चादनेः प्राड्मुख उपविश्य दक्षिणं जान्वाच्य मणिकोदकेनाग्निं पर्युक्ष्य हस्तेन द्वादशपर्वपूरकमोदनमादाय ) ब्रह्मणे स्वाहा इदं ब्रह्मणे० प्रजापतये स्वाहा इदं प्रजापतये० गृह्याभ्यः स्वाहा इदं गृह्याभ्यो० कश्यपाय स्वाहा इदं कश्यपाय० अनुमतये स्वाहा इदमनुमतये० इति देवयज्ञः । इति पञ्चाहुतीर्तुत्वा । मणिके त्रीन् । मणिकसमीपे प्राक्संस्थमुदक्संस्थं वा हुतशेषेणान्नेन बलित्रयं दद्यात् । तद्यथा पर्जन्याय नमः इदं पर्जन्याय० अभ्यो नमः इदमद्भयो० पृथिव्यै नमः इदं पृथिव्यै० इति दद्यात् । ततो द्वारशाखयोदक्षिणोत्तरयोर्यथाक्रमं धात्रे नमः इदं धाने० विधात्रे नमः इदं विधात्रे० इति द्वौ वली दत्त्वा प्रतिदिशं वायवे नम इत्यनेनैव चतसृपु दिक्षु चतुरो बलीन् दद्यात् । इदं वायये नमम इति त्यागः । दिशां च । प्राच्य दिशे नमः दक्षिणायै दिशे नमः प्रतीच्यै दिशे नमः उदीच्यै दिशे नमः इति प्रतिदिशं दत्तानां वायुवलीनां पुरस्तादुद्ग्वा वलीन् दद्यात् । इदं प्राच्य दिशे इदं दक्षिणायै इत्यादि दिग्भ्यश्च वलीन् दद्यात् । दत्तानां वायुवलीनामन्तराले ब्रह्मणे नमः इदं ब्रह्मणे० अन्तरिक्षाय नमः इदमन्तरिक्षाय० सूर्याय नमः इदं सूर्यायेति प्राक्संस्थं वलित्रयं दद्यात् । ततो ब्रह्मादीनां वलित्रयाणामुत्तरप्रदेशे विश्वेभ्यो देवेभ्यो नमः इदं विश्वेभ्यो देवेभ्यो विश्वभ्यो भूतेभ्यो नमः इदं विश्वेभ्यो भूतेभ्य इति द्वौ बली दद्यात् । तयोरुत्तरतः उपसे नम इदमुषसे० । भूतानां पतये नम इंदं भूतानां पतये० इति द्वौ वली दद्यात् । इति भूतयज्ञः । ततो ब्रह्मादीनां वलीनां दक्षिणप्रदेशे प्राचीनावीती दक्षिणामुखः पितृभ्य. स्वधा नम इति मन्त्रेणैकं बलिं पात्रावशिष्टान्नेन दद्यात् । इति पितृयज्ञः । तत्पात्रं प्रक्षाल्य निर्णेजनजलं ब्रह्मादिवलीनां वायव्यां दिश्युत्सृजेत् । यक्ष्मैतत्ते निर्णेजनं नमः इदं यक्ष्मणे० । ततः काकादिवलीन्वहिर्दद्यात् । तद्यथा । ऐन्द्रवारुणवायव्याः सौम्या वै नैरतास्तथा । वायसाः प्रतिगृह्णन्तु भूमौ पिण्डं मयाऽर्पितम् । इदं वायसेभ्यः । द्वौ श्वानौ श्यामशवलौ वैवस्वतकुलोद्भवौ । ताभ्यां पिण्डं प्रदास्यामि स्यातामेतावहिंसकौ । इदं श्वभ्याम् ॥ देवा मनुष्याः पशवो वयांसि सिद्धाश्च यक्षोरगदैत्यसंघाः । प्रेताः पिशाचास्तरवः समस्ता ये चान्नमिच्छन्ति मया प्रदत्तम् । इदं देवादिभ्यः । पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिवन्धवद्धाः । तृप्त्यर्थमन्नं हि मया प्रदत्तं तेषामिदं ते मुदिता भवन्तु ॥ इदं पिपीलिकादिभ्यः । पादौ प्रक्षाल्याचम्य अतिथिप्राप्तौ तत्पादप्रक्षालनपूर्वकं गन्धमाल्यादिमिरभ्यर्च्य अन्नं परिवेष्य हन्त तेऽन्नमिदं मनुष्यायेति संकल्प्य तमाशयेत् तदभावे पोडशग्रासपरिमितं चतुर्मासपरिमितं वा अन्नं पाने कृत्वा निवीती भूत्वोदड्मुख उपविष्टो हन्त तेऽन्नमिदं मनुष्यायेति संकल्प्य कस्मैचिद्राह्मणाय दद्यात् मनुष्ययज्ञसिद्धये । ततो नित्यश्राद्धं कुर्यात् तद्यथा स्वागतवचनेन षट् ब्राह्मणान् द्वौ वा एक वाब ऽभ्यर्च्य पादौ प्रक्षाल्य आचम्य गृहं प्रवेश्य कुशान्तर्हितेष्वासने दङ्मुखानुपवेशयेत् । ततः स्वयमाचम्य प्राङ्मुख उपविश्य श्रीवासुदेवं संस्मृत्य सावित्री पठित्वा अद्येहेत्यादिदेशकालौ स्मृत्वा प्राचीनावीती दक्षिणामु वः सव्यं जान्वाच्य अमुकगोत्राणामस्मपितृपितामहप्रपितामहानाममुकामकशर्मणां तथा अमुकगोत्राणाभस्मन्मातामहप्रमातामहवृद्धप्रमातामहानाममुकामुकर्मणां नित्यश्राद्धमहं करिष्ये
se