________________
[ नवमी
२६४
पारस्करगृह्यसूत्रम् । तस्माद्यदन्नम् अहरहः शालाग्नौ लौकिकेऽग्नौ वा यथाधिकारं पच्यते तद्वैश्वदेवमन्नम् । तस्मादुद्धत्य पात्रान्तरे कृत्वा पर्युक्ष्य आवसथ्यस्य पर्युक्षणं कृत्वा स्वाहाकारैः सह वक्ष्यमाणैर्मन्वैर्जुहुयात् । अत्र पर्युक्षणोपदेशः कुशकण्डिकेतिकर्तव्यतानिरासार्थः । जुहोतिपु स्वाहाकागेपदेशश्च बल्यादिभ्यो निवृत्त्यर्थः संस्रवव्युदासार्थो वा । बलिदानं तु नमस्कारेणैव कुर्यात् । पितृभ्यः स्वधा नम इत्यत्राचार्येण वलिदाने नमस्कारस्य दर्शितत्वात् । 'ब्रह्म""तय इति' एते पञ्च होमाः । 'भूतगृह्येभ्यः। भूतानि च तानि गृह्याणि च भूतंगृह्याणि तेभ्यो भूतगृह्येभ्यः होमानन्तरं दद्यादिति शेषः । कथम् 'मणि' "थिव्यै' मणिकसमीपे सामीप्यसप्तमीयम् । त्रीन् वलीन् दद्यादिति शेषः । कथं पर्जन्याय नमः अद्भ्यो नमः पृथिव्यै नम इति । 'धात्रे"र्ययोः' द्वारशाखयोर्दक्षिणोत्तरयोर्यथाक्रम धाने नमो विधाने नम इति द्वौ वली दद्यात् । 'प्रति"शां च ' प्रतिदिशं दिशं दिशं प्रति वायवे नम इति एकैकं वलिं दद्यात् । दिशां च दिग्भ्यश्च प्रतिदिशं प्राच्य दिशे नम इत्येवमादितत्तल्लि. बोल्लेखेनैकैकं वलिं दद्यात् ।" मध्ये 'र्याय ' मध्ये प्रतिदिशं दत्तानां वलीनामन्तराले त्रीन् बलीन् दद्यात् । कथं ब्रह्मणे नमः अन्तरिक्षाय नमः सूर्याय नम इति । 'विश्वे "रतः । तेषां ब्रह्मादीना त्रयाणां वलीनामुत्तरतः उत्तरप्रदेशे विश्वेभ्यो देवेभ्यो नमः विश्वेभ्यो भूतेभ्यो नम इति द्वौ वली दद्यात् । 'उप''परम्' परं तयोरुत्तरत उपसे नमः भूतानां पतये नम इति बलिद्वयं दद्यात् । केचित्तु विश्वेभ्यश्च भूतेभ्यः भूतानां च पतये इत्यत्र चकारं मन्त्रान्तर्गतमाहुः । 'पितृ""णतः । एषामेव ब्रह्मादिवलीनां दक्षिणतः दक्षिणप्रदेशे पितृकर्मत्वात्प्राचीनावीती दक्षिणामुखः पितृभ्यः स्वधा नम इति मन्त्रेणैकं वलि पात्रावशिष्टेनान्नेन दद्यात् । ' पात्रं "त्त इति ' उद्धरणपात्रं निर्णिज्य प्रक्षाल्य निर्णेजनजलं तेपामेव ब्रह्मादिवलीनामुत्तरापरस्यां वायव्यां दिशि निनयेत् उत्सृजेत् । कथं यक्ष्मैतत्ते निर्णेजनं नम इति मन्त्रेण । 'उद्ध' 'तत इति । वैश्वदेवादन्नादुद्धत्य अवदाय अग्रं षोडशमासपरिमितं ग्रासचतुष्टयपर्याप्तं वा अन्नं ब्राह्मणाय विप्राय न क्षत्रियवैश्याभ्यां अवनेज्य अवनेजनं दत्त्वा हन्तत इत्यनेन मन्त्रेण दद्यात् । अत्र पञ्चमहायज्ञा इत्युपक्रम्य चतुर्णा क्रमेणानुष्ठानमुक्तम् । पञ्चमस्य ब्रह्मयज्ञस्य पञ्च महायज्ञा इत्यनेनानुष्ठानस्य वक्तुमुपक्रान्तत्वात् तद्नुष्ठानं सावसर वक्तव्यं तच नोक्तम् । अतो विचार्यते ब्रह्मयज्ञस्य स्मृत्यन्तरे त्रयः काला उक्ताः । यथाह कात्यायन:यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्तु स स्मृतः । स चार्वाक तर्पणात्कार्यः पश्चाद्वा प्रातराहुतेः । वैश्वदेवावसाने वा नान्यनेत्यनिमित्तकात् इति । स्नानविधावपि-उपविशेदभेपु दर्भपाणिः स्वाध्यायं च यथाशत्तयादावारभ्य वेदमिति, तेनोपक्रान्तस्यापि ब्रह्मयज्ञविधेः तर्पणात्यागुक्तत्वात् अत्र तस्याकथनमदोपः । सः अत्र यदि क्रियते तदा तेनैव विधिना कर्तव्यः । तत्र चेत्कृतस्तदाऽत्र न कर्तव्यः । विकल्पेन हि कालाः स्मर्यन्ते न समुच्चयः । किंचन हन्ततिं न होम च स्वाध्यायं पितृतर्पणम् । नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित् । इत्यनेनात्रापि समुच्चयनिषेधात् । तस्मात्यातहोंमानन्तरं वा तर्पणात्पूर्व वा वैश्वदेवान्ते वा सकृद् ब्रह्मयनं कुर्यादिति सिद्धम् । एताववशिष्यते । यदा वैश्वदेवावसाने क्रियते तदा कोऽवसरः । चतुर्णामन्त इति चेत् न हन्तकारादेयज्ञस्य रात्रावपि स्मरणात् । नास्यानन्नन् गृहे वसेत् इत्यादिना । तस्मादनिर्दिष्टकालोऽपि ब्रह्मयज्ञो मनुष्ययज्ञात्पूर्व कर्तव्यः । यथा "रन् । यथाई यो यथार्हति तदनतिक्रम्य तथाहै तद्यथा भवति तथा भिक्षुकान् परिव्राजकब्रह्मचारिप्रभृतीन् । तत्र उपकुर्वाणकब्रह्मचारिणामक्षारालवणम् । इतरेषां च यथोचितम् । अतिथींश्च अध्वनीनान् श्रोत्रियादीन् संभजेरन मिक्षाभोजनादिदानेन तोपयेरन् गृहमेधिनः । 'वाल''श्रीयु:' वालो ज्येष्टः प्रथमो येषां गृह्याणां ते वालज्येष्ठा गृह्या गृहे भवाः पुत्रादयः ते यथाई यथायोग्यमश्नीयुः मुखीरन् । 'पश्वा "ली च ' पश्चाद् गृहेषु