________________
कण्डिका] द्वितीयकाण्डम् ।
२६३ नास्थानश्नन् गृहे वसेदिति । तस्माद् ब्रह्मयज्ञोऽनिर्दिष्टकालोऽपि नृयज्ञात्पूर्व एव । 'यथा 'रन् । यथाहमिति उपकुर्वाणकब्रह्मचारिणोऽक्षारालवणं च। इतरेषां भिक्षुकाणां यद्यस्योचितमिति । 'वाल''म श्नीयुः । यद्यस्याईमिति 'पश्चा' 'पत्नी च ' अश्नीतः । ' पूर्वो' पतिः । पल्या अश्नाति । एवं हि श्रूयते-'तम्मा "दिति । तस्मात्स्वाद्वन्नाद्यदिष्टतमं तद् गृहपतिरश्नाति । अतिथिभ्योऽशितेभ्यः पूर्व पल्या इति । अह"वेभ्यः' देवयज्ञोऽयमाकाष्ठादप्यहरहः कार्यः । 'पितृ""त्रात् । पितृयज्ञो मनुप्ययज्ञश्च उदपात्रादप्यहरहः कर्तव्यः । एवं पञ्चमहायज्ञक्रिया अहरहरेवेति गम्यते ॥ इति नवमी कण्डिका ॥ ९॥
(जयरामः)- अथा."यज्ञाः' व्याख्यास्यन्त इति सूत्रशेपः । महायज्ञा इति कर्मणो नामधेयम् । तत्रैको देवयज्ञो ब्रह्मणे स्वाहेत्येवमादिहोमरूपः । मणिके त्रीनित्येवमादिवलिरूपो भूतयज्ञः पितृभ्यः स्वधा नम इति पितृयज्ञः हन्तकारातिथिपूजादिरूपो नृयज्ञः । पञ्चग्रहणात् पञ्चमो ब्रह्मयज्ञः । वैश्वदेवं विश्वे सर्वे देवमनुष्यादयो देवा देवता अस्येति ततोऽन्नात् । एपां देवतात्वं श्रूयते देवादिभ्यो दत्वा शेपभुजा गृहपतिना भाव्यमिति । तस्माद्वैश्वदेवमन्नं यदहरहः पच्यते तत आदाय पर्युक्ष्य स्वाहाकारैजुहुयात् । पर्युक्षणग्रहणसामर्थ्याकुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैरिति यज्जुहोति तत्स्वाहाकारैरेव । शेपे नमस्काराः। यद्वा स्वाहाकारैर्जुहुयादिति संस्रवव्युदासार्थम् । ब्रह्मणे स्वाहेत्येवं पञ्चहोमाः । भूतगृह्येभ्यः भूतानि च तानि गृह्याणि च तेभ्यो ददातीति शेषः सर्वत्र पूरणीयः। तानि च स्थानविभागेनाह-मणिके त्रीनित्यादि । धात्रे विधाने चेति द्वायें द्वारशाखे दक्षिणोत्तरे तयोः। वायवे प्रतिदिशं ददाति । दिशां च यद्दानं तदपि प्रतिदिशमेवेति दिशां नाममन्त्रैः । ततश्च प्राच्यै दिशे नम इत्यादि सिद्ध्यति । मध्ये दिग्वलिचतुष्टयस्यैव आनन्तर्यात् । विश्वेभ्य इति, तेपां मध्यवलीनामानन्तर्याद्वहुत्वोपदेशाच । उपस इति, परं तयोरप्युत्तरतः आनन्तर्यात् । पितृभ्यइति ब्रह्मादिवलित्रयस्य दक्षिणतः पिन्यत्वाचान दक्षिणामुखः प्राचीनावीती च भवेत् । नमस्कारश्वात्र यः प्रदर्शितः स सर्ववलिपु प्रत्येतव्यः । तत्पात्रं निर्णिज्य प्रक्षाल्य दिग्वलीनामुत्तरापरस्यां वायव्यां दिशि यक्ष्मैतत्त इति मन्त्रेण निर्णेजनमित्यध्याहृत्य निनयेत् । उद्धृत्याग्रं पोडशमासमात्रं चतुर्मासमात्रं वाऽनं वैश्वदेवादन्नादुद्धत्यावनेजनजलं दत्त्वा ब्राह्मणायैव दद्याद्धन्त त इति मन्त्रेण । हन्तकाराच्च पूर्व ब्रह्मयज्ञावसरः । नृयज्ञो हि हन्तकारादिरास्वापात् रात्रावपि ह्यतिथिपूजा । अतिथिं प्रकृत्य स्मयते । नास्यानभर गृहे वसेदिति । तस्मादनिर्दिष्टकालोऽपि ब्रह्मयज्ञो नृयज्ञात्पूर्वमेव । यथाहमित्युपकुर्वाणस्य ब्रह्मचारिणोऽक्षारालवणम् । इतरेषां भिक्षुकाणां यद्यस्योचितमिति । वालज्येष्टा वालपूर्वा यथाहै यद्यस्याहमेवमनीयुः । ततो जायापती अनीतः । पूर्वो वा पल्या गृहपतिरश्नाति । श्रूयते च तस्मादिति । अस्यार्थः-तस्मास्वाद्वन्नाद्यद्यदिष्टमिष्टतमं तत्तगृहपतिरश्नाति । कदा अतिथिभ्योऽशितेभ्योऽनन्तरम् । पूर्वं च पल्याः। उ एवार्थे । अहरहः प्रतिदिनं देवयज्ञ आकाष्ठादप्यहरहः कार्यः । पितृयज्ञो मनुष्ययज्ञश्च आउदपात्रादुदकेनाप्यहरहः कार्यः । एवं पञ्चमहायज्ञक्रिया अहरहरेवेति गम्यते ॥ ९॥ ॥ * ॥
(हरिहरः)- अथा' 'यज्ञा: । अथ समावर्तनानन्तरं कृतविवाहस्य पञ्चमहायज्ञेष्वधिकारः । अतो हेतोः पञ्चसंख्याकाः महायज्ञा महायज्ञशब्दवाच्याः कर्मविशेषाः पञ्चमहायज्ञा व्याख्यास्यन्ते । तत्र पञ्चसु ब्रह्मणे स्वाहेत्येवमादिहोमात्मकः पूर्वी देवयज्ञः । ततो मणिके त्रीनित्येवमादिचलिरूपो भूतयज्ञः । ततः पितृभ्यः स्वधा नम इति वलिदानं पितृयज्ञः । हन्तकारातिथिपूनादिको मनुष्ययज्ञः । पञ्चमो ब्रह्मयज्ञः । एते पञ्चमहायज्ञा अहरहः कर्तव्याः स्नातकेन । कथमित्यपेक्षायामाह 'वैश्व ""यात् । विश्वे सर्वे देवा देवता अस्येति वैश्वदेवमन्नं तस्मात् । के ते देवभूतपितृमनुध्यादयः । स्मृतिपु तेभ्यः अदत्त्वा भोजननिषेधात् । तेभ्यो दत्त्वा गृहपतेः शेपभुजित्नविधानात् ।