________________
पारस्करगृह्यसूत्रम्
[ नवमी
मोपन्यासस्यापि नासंगतत्वमित्याहुः । अपरे त्वमुमेवास्वरसं हृदि कृत्वा कृतसमावर्तनस्याप्यमी नियमा स्त्रिरात्रं भवन्तीत्याहुः || इत्यष्टमी कण्डिका ॥ ८ ॥
२५२
अथातः पञ्च महायज्ञाः ॥ १ ॥ वैश्वदेवादन्नात्पर्युक्ष्य स्वाहाकारैर्जुहुयाद्ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतय इति ॥ २ ॥ भूतगृह्येभ्यो मणिके त्रीन् पर्जन्यायाद्द्भ्यः पृथिव्यै ॥ ३ ॥ धात्रे विधात्रेच द्वार्ययोः ॥ ४ ॥ प्रतिदिशं वायवे दिशां च ॥ ५ ॥ मध्ये त्रीन्ब्रह्मणेऽन्तरिक्षाय सूर्याय ॥ ६ ॥ विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः ॥ ७ ॥ उषसे भूतानां च पतये परम् ॥ ८ ॥ पितृभ्यः स्वधा नम इति दक्षिणतः ॥ ९ ॥ पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्ष्मैतच इति ॥ १० ॥ उद्धृत्याग्रं ब्राह्मणायावनेज्य दद्याद्धन्तत इति ॥ ११॥ यथाऽर्ह भिक्षुकानतिथींश्च संभजेरन् ॥ १२ ॥ बालज्येष्ठा गृह्या यथार्हमश्रीयुः ॥ १३ ॥ पश्चाद् गृहपतिः पत्नी च ॥१४॥ पूर्वो वा गृहपतिः । तस्मादु स्वा (दि ? हि )ष्टं गृहपतिः पूर्वोऽतिथिभ्योऽश्नीयादिति श्रुतेः ॥ १५ ॥ अहरहः स्वाहा कुर्या - दन्नाभावे केनचिदाकाष्ठाद्देवेभ्यः पितृभ्यो मनुष्येभ्यश्चोदपात्रात् ॥ १६ ॥
,
( कर्कः ) ~~ 'अथातः यज्ञा: ' व्याख्यास्यन्त इति सूत्रशेषः । महायज्ञा इति च कर्मनाम - धेयम् । तत्रैको देवयज्ञो ब्रह्मणे स्वाहेत्येवमादयो होमाः । मणिके श्रीनित्येवमादिर्भूतयज्ञः । पितृभ्यः स्वधानम इति पितृयज्ञः । हन्तकारोऽतिथिपूजा दिर्नृयज्ञः । पश्चग्रहणाच पञ्चमो ब्रह्मयज्ञः ॥ 'वैश्वदे'' "यात् ' विश्वे देवा देवता अस्येति वैश्वदेवमन्नं ते च देवपितृमनुष्यादयः । कथमेषां देवतात्वमिति चेत् । येन स्मृतावेषां दानं विहितम् । एभ्यो दत्त्वा शेषभुजा गृहपतिना भवितव्यम् । तस्माद्वैश्वदेवमन्नं यदहरहः पच्यते तत आदाय पर्युक्ष्य स्वाहाकारैर्जुहुयात् । पर्युक्ष्यग्रहणाच्च कुशकण्डिकोक्तेतिकर्तव्यताव्युदासः । स्वाहाकारैर्जुहुयादिति जुहोति तत्स्वाहाकारैः । शेषे नमस्काराः । आचरन्ति हि बलिकर्मणि नमस्कारान् । यद्वा स्वाहाकारैर्जुहुयादिति संस्रवव्युदासार्थम् ॥ 'ब्रह्म' ' 'तय इति' एते पञ्च होमाः । 'भूतगृह्येभ्य: ' भूतानि च तानि गृह्याणि च भूतगृह्याणि तेभ्यो ददाति । तान्याह 'मणि''पृथिव्यै ' ददातीति शेषः । ' धात्रे "र्ययोः ' द्वाति । ' प्रतियवे ' ददाति । ' दिशां च ' यत्संबन्धि दानं तत्प्रतिदिशं ततश्चैतत्सिद्धं भवति । प्राच्यै दिशे नम इत्येवमादि । 'मध्ये 'र्याय' मध्ये च प्रतिदिशं यद्दत्तं तन्मध्ये । ' विश्वे रतः ' आनन्तर्यात् त्रयाणाम् । ' उष परम् ' पर मिति तयोरप्युत्तरत: । ' पितृणत: ' तेषामेव त्रयाणां पित्र्यत्वाश्चात्र दक्षिणामुखः प्राचीनावीति भवति । नमस्कारश्चात्र प्रदर्शित आचार्येण स सर्वबलिहरणेषु प्रत्येतव्यः समाचारादित्युक्तमेव । ' पात्रं त इति ' अनेन मन्त्रेण निर्णेजनमित्यध्याहारः । उत्तरापरा च दिक् त्रयाणामेव । 'उद्धृत इति ' तत एव वैश्वदेवादन्नादुद्धृत्यान्नं ब्राह्मणायावनेज्य दद्याद्धन्त त इत्यनेन मन्त्रेण । हन्तकाराच पूर्व ब्रह्मयज्ञस्यावसरः । नृयज्ञो हि हन्तकारादिरास्वापात् । रात्रावपि ह्यतिथिपूजा स्मर्यते । अतिथि प्रकृत्य
I
1