________________
२६१
कण्डिका ]
द्वितीयकाण्डम् |
3
गृह्य,
कर्णे कुण्डलं कृत्वा तेनैव वामकर्णे परिधाय, वृत्रस्यासि कनीनचक्षुर्दा असि चक्षुमें देहीति मन्त्रेण दक्षिणमक्षि सौवीराञ्जनेनाङ्क्त्वा तेनैव वाममङ्क्ते । रोचिष्णुरसीत्यादर्शे मुखं विलोक्य, वृहस्पतेश्छदिरसि पाप्मनो भामन्तर्द्धेहि तेजसो यशसो माऽन्तर्द्धेहि इत्यनेनान्यस्माच्छत्रं प्रतिप्रतिष्ठेस्थो विश्वतो मापातमित्युपानहौ युगपत्पादयोः प्रतिमुच्य विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते पूर्वदण्डं त्यक्त्वा । अत्र मातृपूजादि ब्रह्मणे दक्षिणादानान्तमाचार्यकृत्यम् | कलशाभिपेकादि दण्डग्रहणान्तं स्नानकर्तुः । वासच्छत्रोपानद्रग्रहणव्यतिरिक्तानि दन्तप्रक्षालनादीनि मन्त्रवन्ति सदा भवन्ति । वासः प्रभृतीनि तु नूतनान्येव । तत आचार्यः स्नातकस्य नियमान् श्रावयेत् त्रिरात्रन्त्रतानि च । स्नातकच तानि यथेोक्तानि कुर्यादिति समावर्तनम् ॥ ॥ ॥ ॥ * ॥
"
(गढ़ाधरः ) – स्नातस्य समावर्तनप्रभृति यावद्गार्हस्थ्यं धर्मानभिवायाधुना तस्यैव समावर्तनदिनमारभ्य त्रिरात्रं व्रतमाह ' तिस्रो 'रेत्' वक्ष्यमाणं व्रतं तिस्रः त्रिसंख्याः रात्रीः अहोरात्राणि चदनुतिष्ठेत् । " अमाक्षं पायी मांसमश्नातीत्येवंशीलो मांसाशी न मांसाशी अमांसाशी मृण्मयेन मृत्पात्रेण पिवतीत्येवंशीलो मृण्मयपायी न मृण्मयपायी असृण्मयपायी स्यादिति शेषः । ' स्त्रीशु "च तैः ' । स्त्री नारी शूद्रोऽन्त्यवर्णः शवः मृतशरीरं कृष्णशकुनिः काकः श्वा कुक्कुर एतेपामदर्शनं भवेत् । एतैः ख्यादिभिः सहासंभाषणं च अवचनव्यवहारः । अत्र यस्य येन यादृक् संभाषणं प्राप्तं तादृङ्निपिव्यते । 'शव' 'द्यात् ' मरणानन्तरं क्रीत्वा लब्ध्वा वा ज्ञातिभिर्यदद्यते नच्छवान्नम् | शूद्रस्य भोज्यान्नस्य नापितादेरन्नं शूद्रान्नम् । प्रसवे सति अर्वाग् दशाहात् यत् ज्ञातीनामन्नं तत्सूतकान्नम् । एतानि नाद्यात् भक्षयेत् । ' मूत्रर्यात् ' मूत्रं च पुरीपं च मूत्रपुरी । ष्ठीवनं थूत्कृत्य मुखाल्लालादित्यजनम् । एतत्रयम् आतपे धर्मे न कुर्यात् नोत्सृजेत् । 'सूर्या बीत' सूर्यादादित्यादात्मानं स्वं छत्रादिना अन्तर्हितं न कुर्यात् । ' तप्तेवींत ' तप्तेन जलेनोदकार्थान् उदकसाध्याः शौचाचमनादिकाः क्रियाः कार्या. । ' अब 'जनम् ' रात्रौ अवज्योत्य दीपोल्काद्यन्यतरेण प्रकाशं कृत्वा भोजनं कुर्यात् । ' सत्य 'वा' अथवा सत्यभापणमेव कुर्यान् नाधस्तननियमान् । ‘दीक्षिश्चेत् ' चेद्यदि दीक्षितः सोमयागार्थं स्त्रीकृतदीक्षः प्रवर्ग्यवान् प्रवर्ग्यः सोमयागाङ्गकर्मविशेषः सोऽस्यास्तीति तथा तदाऽऽतपादीनि मूत्रपुरीषे ष्ठीवनं चातपे न कुर्या - दित्यादीनि करोति ॥
"
॥ ॥
11% 11
॥ * ॥
( विश्व० ) - प्रवर्ग्यकालीननियमानाह ' तिस्रो पायी भवतीति शेषः । ' स्त्रीर्शनं कृष्णशकुनिः काकः । एषां पञ्चानामदर्शनं कार्यम् ।' असं तै' स्त्रीशुद्रादिभिः सह न संभापा असंभापा । दर्शननिषेधे संभाषणनिपेधस्य प्राप्तत्वेऽपि पुनः संभाषणं निपेधयन् दैवादर्शने पुनस्तदुदेशेन वार्तादिकथने दोपाधिक्यप्रदर्शनार्थ संभापण निषेधः । ' शव द्यात् भोज्यान्नस्यापि दासादेरन्नं प्रवर्ग्यकाले प्रतिषिध्यते । 'मूत्रर्यात् ' ष्टीवनं मुखोच्छिष्टं मूत्रादित्रयं धर्मे न कुर्यात् । 'सूर्या... धीत' छत्रादिनेति शेषः ' तप्तेर्वीत् ' उप्णजलेन शौचाचमनं कुर्यात् । ' अत्र 'जनं ' प्रदीपोल्कादिना भोज्यान्नादौ तेजःसंयोगं संपाद्य भुञ्जीतेत्यर्थः ' सत्य 'वा' वाशब्दः पूर्वोक्तनिरासार्थः । सत्यवदनमेव कुर्यात् नाधस्तनान् नियमान् । 'दीक्षिश्चेत् ' एवार्थोऽपिशब्दः । प्रवर्ग्यशून्ये प्रथमयज्ञादावश्रोत्रियस्य प्रसक्ति निराकरोति प्रवर्ग्यवांश्चेदिति । नन्वेवं दीक्षितमात्रकर्तृकत्वे चिरकालं क्रियमाणप्रवर्ग्यादौ रात्रिविशेषणं तिस्रः पदं व्यर्थमसंगतोक्तिश्चेति चेत् उच्यते - तिस्रः पदस्य प्रवर्ग्याधिकरणसकलसमयोपलक्षकत्वात् । ब्रह्मचर्यगार्हस्थ्यादिधर्माक्रान्त नियमोपन्यासप्रसक्त्या दीक्षितनिय
1
"