________________
२६० पारस्करगृह्यसूत्रम्।
[अष्टमी द्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं च हुत्वा प्रजापतय इत्याद्याः प्रजापतये देवेभ्यः ऋपिभ्यः श्रद्धायै मेधायै सदसस्पतये अनुमतय इति सप्त मन्त्रेण जुहुयात् । एवं वेदद्वयत्रयाध्ययनेऽपि योज्यम् । अनन्तरं महाव्याहृत्यादिस्विष्टकृदन्ता दयाहुतीर्तुत्वा प्राशनं विधाय दक्षिणादानान्तं कुर्यात् । अथ ब्रह्मचारी उपसंग्रहणपूर्वकं गुरुं नमस्कृत्य परिसमूहनादि व्यायुपकरणान्तं तस्मिनग्नौ समिदाधानं कुर्यात् । तत आचार्य पुरुपैः परिश्रितस्योत्तरभागे स्थापितानां दक्षिणोत्तरायतानामष्टानां जलपूर्णकलशानां पूर्वभागे आस्तृतेपु प्रागपु कुशेपु उद्ङ्मुखः स्थित्वा येऽस्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूपो मनोहास्खलो विरुजस्तनृदूपिरिन्द्रियहाऽतितान्सृजामि यो रोचनस्तमिह गृहामीति मन्त्रेण प्रथमकलगाइक्षिणचुलुकेन उदकमादाय तेन मामभिपिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति मन्त्रेणात्मानमभिपिञ्चते । एवमेव द्वितीयादिभ्यः सप्तश्य उदकुम्मेभ्यः येऽस्वन्तरमय इत्यनेनैव मन्त्रेण एकैकस्माजलमादाय येन श्रियमकृणुतां येनावमृगताधंसुरां येनाक्षायभ्यपिञ्चतां यद्वा तदश्विना या इति । आपो हिष्टा भयो भुवः । यो वः शिवतमो रसः । तम्माअग्डमामव इत्येतैश्चतुभिर्मन्त्रैः प्रतिमन्त्रमात्मानमभिपिच्य विस्तूष्णीमभिपिञ्चते । तत उद्धत्तममिति मन्त्रेण मेखलां शिरोमागेण निःसार्य तां मेखला भूमौ निधाय अन्यद्वासः परिधायाचम्य आदित्यमुपतिष्ठते । उग्रन्ध्राजभृष्णुरिन्द्रोमरुद्भिरस्थात्प्रातर्यावभिरस्थाद्दशसनिरसि दशसनि मा कुर्वाविदन्मागमयोद्यभ्राजभृणुरिन्द्रो मरुद्भिरस्थाहिवायावभिरस्थाच्छतसनिरसि शतसनि मा कुर्वाविदन्मागमयोधन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसि सहस्रसनि मा कुर्वाविदन्मागमयेत्यादित्योपस्थानमन्त्रः । ततो दधि वा तिलान्वा दक्षिणहस्तमध्यगतेन सोमतीर्थेन प्राग्य जटालोमनखानि वापयित्वा लात्वाऽऽचम्योक्तलक्षणेनौदुम्बरकाप्टेन-अन्नाद्याय व्यूहध्वः सोमो राजाऽयमागमत् । स मे मुखं प्रमाक्ष्यते यशसा च भगेन चेत्यनेन मन्त्रेण दन्तान् क्षालयित्वाऽऽचम्य सुगन्धिद्रव्यमिश्रितेन यवादिचूर्णेन तैलसन्नीतेन शरीरमुद्वर्त्य पुनः सशिरस्क स्नात्वाऽऽचम्य चन्दनाद्यनुलेपनं पाणिभ्यां गृहीत्वा मुखं नासिकां च प्राणापानौ मे तर्पय चक्षुमें तर्पय श्रोत्रं मे तर्पयेत्यनेन मन्त्रेणानुलिम्पेत् । ततः पाणी प्रक्षाल्य तदुदकमञ्जलिनाऽऽदायापसव्यं कृत्वा दक्षिणामुखो भूत्वा दक्षिणस्यां दिशि पितरः शुन्धध्वमित्यनेन मन्त्रेण भूमौ निषिञ्चेपितृतीथेन । अथ यज्ञोपवीती भूत्वोदकमुपस्पृश्य चन्दनादिना सुचक्षा अहमक्षीभ्यां भूयासह सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासमिति मन्त्रेण आत्मानमनुलिप्य परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरूचीरायस्पोपमसिसंव्ययिष्य इति मन्त्रेण अहतं धौत वा यथालाभं वासः परिधाय 'धारयेद्वैणवी यष्टि सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुम रौक्मे च कुण्डले' इति मनुना ब्रह्मचर्ये प्राप्तस्य यज्ञोपवीतधारणस्य स्नातकस्य पुनर्विधानात् द्वितीययज्ञोपवीतधारणं प्राप्तं तच्च पूर्वे धृते सति न संभवति अतस्तदुत्तार्य जले प्रक्षिप्यापरं नवम् उक्तलक्षणमुपवीतद्वयं यज्ञोपवीतमित्यादिना मन्त्रेण परिधाय । यज्ञोपवीतस्यैकदेशविनाशे यातयामत्वम् अतो न तस्य नवेन संयोगः । यज्ञोपवीतस्यैकदेशविनाशेऽपि मन्त्रादिकसंस्कारस्य विनष्टत्वात् । ततो यशसा मा द्यावापृथिवी यशसेन्द्रावृहस्पती । यशो भगश्च माऽविन्दद्यशो मा प्रतिपद्यतामिति मन्त्रेण उत्तरीयं वास आच्छाद्य द्वितीयवस्त्रालाभे पूर्वस्यैवोत्तरवर्गेण अनेनैवोत्तरीयमन्त्रेणोत्तरीयं वासः परिधत्ते । या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेति मन्त्रेण पुष्पाणि अन्यतः प्रतिगृह्य, यद्यशोप्सरसामिन्द्रश्वकार विपुलं पृथु । तेन संग्रथिताः सुमनस आवध्नामि यशो मयीति मन्त्रेण शिरसि बद्धा, युवा सुवासा इत्यनयर्चा उष्णीपेण शिरो वेष्टयित्वा, अलंकरणमसि भूयोऽलंकरणं भूयादिति मन्त्रेण दक्षिणे