________________
कण्डिका ] द्वितीयकाण्डम्।
२५९ शेषः । स्न्यादीनां पञ्चानामदर्शनं कार्यम् । कृष्णशकुनिः काकः । तैस्च्यादिभिर्यस्य येन यादृक् संभाषणं प्राप्तं तादृङ्किषिध्यते । शवादीनामन्नं च नाद्यात् । तत्र शवान्नं क्रीत्वा लब्ध्वा वा यदद्यते तत्प्रतिषेधः । शूद्रान्नं भोज्यान्नस्यापि शूद्रस्य नापितादेरन्नम् । सूतकान्नं दशाहादाक् प्रसवे सति । आतपे मूत्रादित्रयं न कुर्यात् । अन्तर्धानं च छत्रादिना । तप्तेनोदकेन । अवज्योत्य दीपोल्काद्यन्यतरेण | सत्यवदनमेव वा कुर्यान्नाधस्तनान्नियमान् । दीक्षितः सोमाथै स्वीकृतदीक्षः । स यदि प्रवर्दीवान् प्रवर्यो महावीरस्तद्वान् । तर्हि आतपादीनि आतपाधिकरणकानि मूत्राद्यवज्योत्यभोजनान्तानि व्रतानि कुर्यात् । सत्यवदनमेव वा कुर्यात् ॥ ८॥
(हरिहरः)-'तिस्रो रेत् ' एवं स्नातकस्य समावर्तनप्रभृति यावद्गार्हस्थ्यं कर्तव्यत्वेन वर्जयनीयत्वेन च नृत्यगीतादीन्यभिधाय अधुना तस्यैव समावर्तनदिनमारभ्य त्रिरात्रजचर्यामाह । तिस्रः त्रिसंख्या रात्रीः अहोरात्राणि व्रतं वक्ष्यमाणं चरेत् अनुतिष्ठेत् । ' अमा; 'पायी' मांसमश्नातीत्येवंशीलो मांसाशी तद्विपरीतः अमांसाशी मृण्मयेन मृदादिनिर्मितेन पात्रेण पिवतीति मृण्मयपायी तद्विपरीतः अमृण्मयपायी स्यादिति शेषः । स्त्रीशू'च तैः । स्त्री नारी शूद्रश्चतुर्थों वर्णः शवो मृतशरीरं कृष्णशकुनिः काकः श्वाः कुक्कुरः । एतेपामदर्शनमवलोकनाभावः । तैः स्त्रीशूद्रा. दिभिश्च सह असंभाषा न संभाषा असंभाषा अवचनव्यवहारः। ' शव'द्यात् ' नाद्यात् न भक्षयेत् कानि शवो मृतकः तस्मिन् जाते सति क्रीवा लब्ध्वा वा यत् ज्ञातिभिरद्यते । शुद्रस्य अवरवर्णस्य नापितादेभॊज्यान्नस्यापि यदन्नं तच्छूद्रान्नं, सूतके प्रसवाशौचे सति यत् ज्ञातीनामन्नं तत्सूतकान्नं तानि शवशूद्रसूतकान्नानि चकारः स्त्रियाद्यदर्शनादिसमुच्चयार्थः । 'मूत्र''र्यात् । मूत्रं च पुरीषं च मूत्रपुरीषे आतपे धर्मे न कुर्यात् नोत्सृजेत् तथा ष्ठीवनं च थूत्कृत्य मुखाल्लालादिनिस्रावं न कुर्यादातपे ।' सूर्याधीत ' सूर्यादादित्यादात्मानं खं छत्रादिना अन्तर्हितं न कुर्यात् । 'तप्तवीत' तप्तेन जलेन उदकार्थान् उदकसाध्याः शौचाचमनादिकाः क्रियाः कुर्वीत विद्ध्यात् । । अव"नम् , रात्रौ निशि अवज्योत्य दीप प्रज्वाल्य भोजनमशनं कुर्वीत । 'सत्य' 'व वा' वा यद्वा सत्यवदनमेव सत्यवाक्योच्चारणमेव कुर्यात् न अधस्तनानि अमांसाशनादीनि । दीक्षि' 'श्चेत् । चेद्यदि दीक्षितः सोमयागाथै स्वीकृतदीक्षः प्रवर्यवान् प्रवग्र्यो महावीरः अस्यास्तीति प्रवर्ग्यवान् । तदा आतपादीनि आतपे मूत्रपुरीपोत्सर्गप्टीवनादीनि अवज्योत्य रात्रिभोजनान्तानि कुर्यात् वा सत्यवदनमेव । अत्र सूत्रकारेण यावन्ति स्नातकव्रतान्युक्तानि न तावन्त्येवानुतिष्ठेत् अपितु मन्वादिस्मृतिप्रणीतान्यपि इति सूत्रार्थः ॥ ॥ अथ प्रयोगः-वेदमुक्तलक्षणं व्रतं वा उभयं वा समाप्य गुर्वनुज्ञातो ब्रह्मचारी स्मायात् । तत्र आचार्यों मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा ब्रह्मचारिणा भो आचार्य अहं स्नास्ये इत्यनुज्ञादानं प्रार्थितः नाहीत्यनुज्ञां दत्त्वा ब्रह्मचारिणे परिश्रित्य पञ्च भूसंस्कारान् कृत्वा लौकिकाग्निं विधाय ब्रह्मोपवेशनाद्याज्यभागान्तं कर्म निवर्त्य वेदारम्भवत् वेदाहुतिहोमं विधाय महाच्याहृत्यादि स्विष्टकृदन्तं च कृत्वा संस्रवं प्राश्य पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दक्षिणां दद्यात् । तद्यथा तत्राज्यभागान्तं कृत्वा यदि ऋग्वेदमधीत्य स्नानं करोति तदा पृथिव्यै स्वाहा अग्नये स्वाहेति द्वे आज्याहुती हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या नवाज्याहुतीर्तुत्वा; यदि यजुर्वेदं तदाऽऽज्यभागानन्तरमन्तरिक्षाय स्वाहा वायवे स्वाहेति द्वे आज्याहुती हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या नवाहुतीर्तुत्वा; यदि सामवेदं तदाऽऽज्यभागान्ते दिवे स्वाहा सूर्याय स्वाहेति हुत्वा ब्रह्मणे छन्दोभ्य इत्यारभ्यानुमत्यन्ता नवाहुतीर्जुहोति; यदाऽथर्ववेदं तदाऽऽज्यभागान्ते दिग्भ्यः स्वाहा चन्द्रमसे स्वाहेति आहुतिद्वयं हुत्वा ब्रह्मण इत्याद्या जुहोति । यद्येकदा वेदचतुष्टयमधीत्य स्नानं करोति तदाऽऽज्यभागानन्तरं प्रतिवेदं वेदाहुतिद्वयं