________________
कण्डिका]
द्वितीयकाण्डम् ।
२५७ परेषां च मित्रमित्र सखेव सुहृदिव हितकारी स्यादित्यर्थः । मैत्री ब्राह्मण उच्यते इति स्मरणात् । अत्र यो दृष्टार्थविषयः प्रतिपेधः तत्र दृष्टार्थादेव निवृत्तिप्राप्तौ प्रतिपेधसामर्थ्यादृष्टमप्यनुमीयते । अत एव प्रायश्चित्तस्मरणम् । स्नातकव्रतलोपे तु एकरात्रमभोजनमिति स्मरणात् ॥ * ॥
गदाधरः-स्नात "क्ष्यामः । स्नातस्य ब्रह्मचर्यात्समावृत्तस्य त्रैवर्णिकस्य यमान् नियमान वक्ष्यामः । अधिकारसूत्रमेतत् । तेपु स्नातकोऽधिक्रियते । 'कामादितर: कामादिच्छातः इतरः स्नानसंवन्धशून्यः शूद्रोऽभिधीयते । स हि स्नातको न भवति । एवं सतीच्छया शूद्रस्यापि यमेष्वधिकारो भवति । तानाह । ' नृत्य "च्छेत् । नृत्यं च गीतं च वादिनं च नृत्यगीतवादित्राणि तानि स्वयं न कुर्यात् नच गच्छेत् नृत्यादीनि अन्यैः क्रियमाणानि द्रष्टुं श्रोतुं वा न व्रजेत् । 'कामं तु गीतम्र तु पुनः काममिच्छया गीतं गानं स्वयं कुर्यात् । अन्यैः क्रियमाणं श्रोतुं गच्छेच । कर्मण्योपयिकत्वाद्गीतस्य । दृश्यते हि अश्वमेधे गानम् । ब्राह्मणोऽन्यो गायति राजन्योऽन्य इति । न चाक्रियमाणं शक्यते गातुमिति । 'गाय "रम् ' अपरम् उपासंभरणकाण्डे वचनमस्ति-तस्मादूहैतद्यः सर्वः कृत्लो मन्यते गायति वैव गीते वा रमत इति । अपरग्रहणाच पूर्व न्यायप्राप्तमभिहितम् । एवंच यत्रापि पुनर्वचनेन देवताग्रे नृत्यगीतादिकं विहितं तत्रापि ब्राह्मणादिभिः कार्यमेव । विहिते निपेधाप्रवृत्तेः । क्षेमे "च्छेत् । क्षेमे आपदभावे सति नक्तं रात्रौ प्रामान्तरमन्यग्रामं न गच्छेत् । अक्षेमे तु नक्तमपि गच्छेत् । नच धावेत् । क्षेम इत्यनुवर्तते । क्षेमे सति नच धावेत् शीघ्रं न गच्छेत् । 'उद""यात् । उदपानस्य कूपस्यावेक्षणमुपरिस्थित्वा अधोमुखीभूयावलोकनम् । आम्रादिवृक्षस्यारोहणमुपरि गमनम् । फलानामाम्रादीनां प्रपतनं नोटनम् । संधौ संध्यासमये सर्पणमध्वगमनम् । संधिः कुद्वारं सर्पगर्तादिलक्षणं वा तत्र सर्पणम् । विवृतेन नग्नेन स्नानम् । विपमस्य पर्वतगर्तादेर्लङ्घनमतिक्रमणम् । शुक्तवदनमश्लीलभापणम् । संध्यादित्यप्रेक्षणं संध्यासु सूर्यावेक्षणम् । नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नमसो गतमिति स्मृतेः। भिक्षणं सिद्धान्नस्यैव । उदपानावेक्षणादीनि वर्जयेत् । तत्र भैक्षणप्रतिषेधे प्रत्यक्षमेव वचनमस्तीत्याह न ह"श्रुतेः स्नात्वा समावर्त्य न भिक्षेत । यतः स्नात्वा भिक्षामपजयति अपाकरोति । हवै इति निपातसमुदायो निश्चयार्थः । अत्र यो दृष्टार्थविपयः प्रतिपेवस्तत्र दृष्टार्थत्वादेवाकरणे प्राप्त प्रतिषेधविधानसामर्थ्याददृष्टार्थताऽप्यनुमीयते । 'वर्ष "दिति ' पर्जन्ये वर्पति अप्रावृत अ. नाच्छादित एव व्रजेत् गच्छेत् अयं मे वन इति मन्त्रेण । मन्त्रार्थः-जलकणरूपो वज्रो मम पाप्मानमपहनत् अपहन्तु । ' अप्वाक्षेत ' अप्सु जले आत्मानं स्वशरीरं न पश्येत् । । अजात'""सेत् । समयेऽयनुत्पन्नलोम्नी अजातानि लोमानि यस्याः सेयमजातलोनी ताम् । विपुंसी कूर्चादिना पुरुपाकृतिं स्त्रियम् । पण्डः प्रसिद्ध एव । एतानि नोपहसेत् नाभिगच्छेत् उपहासशब्देनाभिगमनमुच्यते । 'गर्मि "क्षीत ' गर्भिणी विजन्येति ब्रूयात् । गर्भिणी गुर्वी विजन्येति पर्यायशब्देन वदेत् न गर्भिणीमिति । उत्तरत्राप्येवमेव योज्यम् । सकुलमिति नकुलम् । सकुलमिति नकुलं
यात् । भगालमिति कपालम् । भगालमिति कपालं कपरं ब्रूयात् । मणिबनुरितीन्द्रधनुः । मणिधनुरिति इन्द्रधनुर्च्यात् । गां धयन्ती परस्मै नाचक्षीत । परस्य गां सुरभि धयन्तीं वत्सं पाययन्ती अन्यस्मै परस्मै स्वामिने का नाचक्षीत न कथयेत् ।' उर्व "यात् । उर्वरायां सस्यवत्यां भूमौ तृणैरनन्तहितायां केवलायां च मूत्रस्य पुरीपस्य वा उत्सर्ग न कुर्यात् । किच । तिष्ठन् अर्थाः सन् न' कुर्यात् । तथोत्सर्पन उत्प्लवमानस्सन्न कुर्यात् । स्वयं "जीत । आत्मनः प्रयत्नमन्तरेण स्वयमेव प्रशीर्णेन छिन्नेन दारुशकलेन गुदं प्रमृजीत प्रोन्छेत् परिमार्जयेत् । ततः शौचं कुर्यात् । 'विकृ' 'यीत' विकृतं नील्यादिना विकारमापादितं वस्त्रं न परिदधीत । अन्न न कषायप्रतिषेधः । कषायरक्तं तु प्रश