________________
२५६
[ सप्तमी
पारस्करगृह्यसूत्रम् । (हरिहरः) स्नातक्ष्यामः । स्नातस्य ब्रह्मचर्यात्समावृत्तस्य द्विजातेः यमान् व्रतानि वक्ष्यामः कथयिष्यामहे । ' कामादितरः ' कामात् इच्छया इतरः द्विजातेरन्यः शूद्र इति यावत् • यमेपु अस्नातकोऽपि अधिक्रियते । ' नृत्य"च्छेत् । नृत्यं लास्यादिभेदभिन्नं गीतं षड्जादिस्खरै
ध्रुवादिरूपकविशेपैर्निवद्धम् । वादित्रं तन्व्यादिभेदेन चतुर्विधम् । नृत्यं च गीतं च वादित्रं च नृत्यगीतवादिनाणि तानि स्वयं न कुर्यान्न च गच्छेत् । नृत्यादीनि अन्यैरपि क्रियमाणानि न गच्छेत् द्रष्टुं श्रोतुम् । चकारः करोतेर्गच्छतिक्रियासमुच्चयार्थः । 'काम' 'तेहि । अत्र गीते प्रतिप्रसवमाह । तु पुनः काममिच्छया गीतं गानं स्वयं कुर्यात् परैः क्रियमाणं च गच्छेच्छ्रोतुम् । कुतः हि यस्मात् गायति स्वयं गानं करोति गीते वा अन्यैः क्रियमाणे गाने वा रमते रतिं प्राप्नोति इति श्रुतिवेदवचनम् । कः यः सर्वः कृत्स्नो मन्यते आत्मानं सुखिनं संपूर्ण मन्यते स स्वयं गायति गीतं च शृणोति । ' अपरम् । अपरमपि गायेत गीतं च शृणुयादित्येतदर्थज्ञापकं वेदे लिङ्गमस्ति । यथाऽश्वमेधे श्रूयते दिवा ब्राह्मणो गायति नक्त राजन्य इति । अनेन ब्राह्मणराजन्ययोः स्वयं गानेऽधिकारोऽस्तीति ज्ञायते । तथा तौ च अश्वमेधयाजिनं यजमानं राजन्यं श्रावयितुं गायतः तेन श्रवणेऽप्यधिकारो गम्यते । क्षेमे 'च्छेत् 'क्षेमे सति आपदभावे सति नक्तं रात्रौ प्रामान्तरं अन्यदामं न गच्छेत् अक्षेमे तु गच्छेत् । 'न च धावेत् । क्षेमे सतीत्यनुषज्यते नच धावेत् शीघ्रं न गच्छेत् । ' उद्' र्यात् । उदपानस्य कूपस्यावेक्षणमुपरि स्थित्वा अधोमुखीभूयावलोकन वृक्षस्य आरोहणमुपरिगमनं, फलानामाम्रादीनां प्रपतनं त्रोटनं, संधौ संध्यासमये सर्पणमध्वगमनं, संधिना अपमार्गेण वा सर्पणम् , विवृतेन नग्नेन स्नानं, विषमस्य पर्वतगर्तादेर्लङ्घनमतिक्रमणं, शुक्तस्य अश्लीलस्य वदनं भाषणम् , अश्लीलं तु त्रिविध लज्जाकरं दुःखकरममङ्गलसूचकं च । संध्यासु आदित्यस्य सूर्यमण्डलस्य रागतः प्रेक्षणं दर्शनमुपरक्तस्य वारिप्रतिविम्वितस्य च । नोपरक्तं न वारिस्थमिति मनुस्मृतेः। नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतमिति स्मृतेः । भिक्षणं भिक्षाचर्या । एतानि उदपानावेक्षणादीनि भिक्षणान्तानि वर्जयेत् । 'न ह"श्रुतेः भिक्षणप्रतिषेधे श्रुतिं प्रमाणत्वेनावतारयति स्नात्वा समावर्त्य न भिक्षेत यतः स्नात्वा भिक्षामपजयति अपाकरोति । हवै इति निपातसमुदायो निश्चयार्थ इति वेदवचनात् । 'वर्ष "दिति देवे वर्षति अप्रावृतः अनाच्छादितो व्रजेत् गच्छेत् अयं मे वज्र इत्यनेन मन्त्रेण । ' अ. प्स्वा ""क्षेत ' अप्सु जले आत्मानं स्वमुखं नावेक्षेत न पश्येत् । 'अजा'""सेत' समयेऽपि न जातानि लोमानि यस्याः सा अजातलोम्नी ताम् अजातलोम्नी नोपहसेत् नच गच्छेत् । विपुंसी च पुरुषाकारां स्त्रियं कूर्चादिविकारेण नोपहसेदित्यनुवर्तते । पण्डं नपुंसकं नोपहसेदित्यनुवर्तते । 'गर्भि"यात् । गर्भिणी अन्तर्वत्नी विजन्या इति नाम ब्रूयात् वदेत् । ' सकु क्षीत र सकुलमिति नकुलं ब्रूयात् । कपालं कपरं भगालमिति ब्रूयात् । इन्द्रधनुः मणिधनुरिति ब्रूयात् । परस्य गां सुरभि धयन्ती वत्सं पाययन्ती परस्मै अन्यस्मै स्वामिने नाचक्षीत न कथयेत् ।' उर्वयात् ' उर्वरायां सस्यवत्या भूमौ पृथिव्यां केवलायां तृणैरनन्तर्हितायां मूत्रपुरीषे मूत्रस्य पुरीपस्य वा उत्सर्ग न कुर्यात् । किंच तिष्ठन् ऊर्ध्वः न कुर्यात् । तथा उत्सर्पन उत्प्लवमानः सन् न कुर्यात् । स्वयं "जीत ' स्वयमास्मनः प्रयत्नं विना प्रशीर्णेन स्वयं छिन्नेन पतितेन काप्ठेन दारुशकलेन अयज्ञीयेन प्रमृजीत प्रोञ्छेत् । पुरीपोत्सर्गसंनिधानात् गुदमित्यध्याहारः । 'विकृ' 'यीत' विकृतं मञ्जिष्ठादिरागेण विकारमापादितं वासो वस्त्रं न परिदधीत । नील्यादिना रक्तं विकृतं निपिध्यते कपायरक्तं तु न निषिध्यते किंतु प्रशस्यत इति भाष्यकारः । 'दृढ "मिव ' दृढं स्थिरं व्रतं प्रारब्धं कर्म यस्य स दृढव्रतः स्यात् भवेत् । किंच वधात् घातात् त्रायते रक्षतीति वधनः स्यात् । किंच सर्वेषां स्वेपां