________________
कण्डिका ]
द्वितीयकाण्डम् |
२५५
( कर्क: ) - 'स्नातक्ष्यामः ' प्रतिज्ञासूत्रम् । 'कामादितर: ' इतरः शूद्रोऽभिधीयते स हि स्नातको न भवति । एवं च सति इच्छया शूद्रस्यापि यमेपु अधिकारो भवति । 'नृत्य गच्छेत् ' नृत्यादीनि क्रियमाणानि प्रति ।' कामं तु गीतं कुर्यात् गच्छेच । कर्मण्यौपयिकत्वाद्गीतस्य । श्यते हि कचित्कर्मविशेषे गानम् । ब्राह्मणोऽन्यो गायति । राजन्योऽन्य इति न चाक्रियमाणं शक्यते गातुमिति । 'गाय परं ' वचनमस्ति । अपरग्रहणाच्च पूर्व न्यायप्राप्तमभिहितम् | 'क्षेमे "च्छेत्' अक्षेमे तु नक्तमपि गच्छेत् । 'नच धावेत ' क्षेम एवेति वर्तते । ' उद्र्यात् ' उदपानशब्देन कूपोऽभिधीयते । संधिशब्देन कुद्वारम् । विवृतस्नानशब्देन नग्नस्नानमुच्यते । विषमलङ्घनं प्रसिद्धमेव । शुक्तवदनमश्लीलवदनम् । सन्ध्यादित्यप्रेक्षणं प्रसिद्धमेव । एतानि न कुर्यात् । भैक्षणप्रतिषेधस्य वाक्यमुदाह्रियते । 'न ह "श्रुतेः ' अत्र यो दृष्टार्थविषयः प्रतिपेधस्तत्र दृष्टार्थत्वादेवाक - रणे प्राप्ते प्रतिषेधविधानसामर्थ्याददृष्टार्थत्वमनुमीयते । ' वर्ष हसेत् ' । अजातानि लोमानि यस्याः सेयमजातलोम्नी तां विपुंसी या पुमांसं विकरोति कूर्चादिना । पण्डः प्रसिद्ध एव । एतानि नोपहसेत् । उपहासशब्देनाभिगम उच्यते । न गच्छेदेतानि प्रति । 'गर्भियात् ' न गर्भिणीमिति । 'सकुक्षीत' धयन्तीमित्युक्ते धीयमानां नाचक्षीत । तस्या हि प्रतिषेधः स्मृत्यन्तरेऽपि । ' उर्व' ' 'र्यात् ' उर्वरा सस्यवती भूमिः तस्यां मूत्रपुरीषे न कुर्यात् अनन्तर्हितायां च तृणादिना मूत्रपुरीषे न कुर्यात् । उत्सर्पस्तिष्ठश्च न कुर्यादिति वर्तते । ' स्वयं यीत ' विकृतं नील्यादिना न कपायप्रतिषेधः । कषायरक्तं तु प्रशस्यत एवेति । 'दृढ' स्यात् ' यद्व्रतमङ्गीकृतं मयैतत्कर्तव्यमिति तत्र दृढव्रतः स्यान्न चञ्चलः 'सर्वेषां मित्रमिव ' संव्यवहरेत् । मैत्रो हि ब्राह्मण उच्यते ॥ * ॥
( जयरामः ) – ' स्नातक्ष्याम ' इत्यधिकारसूत्रम् । तेषु स्नातकोऽधिक्रियते । कामादिच्छातः । इतरः स्नानसंबन्धशून्यः शूद्रोऽपि । तानाह ' नृत्येति' काममिच्छया ब्राह्मणो गीतं कुर्याद् गच्छेच्च कर्मण्युपयोगाद्गीतस्य । तद्यथा । ब्राह्मणोऽन्यो गायति राजन्योऽन्य इति । गायति वैव गीते वा रमत इति ह्यपरं वचनमस्ति । अपरग्रहणात्पूर्वे न्यायप्राप्तमिति गम्यते । क्षेमे सति नक्तं रात्रौ । अक्षेमे पुनर्नक्तमपि गच्छेत् । नच धावेत् । क्षेम इति वर्तते । अक्षेमे तु धावेदपि । उदपानशब्देन कूपोऽभिधीयते । वृक्षारोहणं प्रसिद्धम् । फलानां प्रपतनं त्रोटनम् । संधिः कुद्वारं तत्र सर्पणं गमनम् । विवृतस्नानं नग्नस्नानम् । विपमलङ्घनम् प्रसिद्धमेव शुक्तवदनमश्लीलभापणम् । संध्यादित्यप्रेक्षणं प्रसिद्धमेत्र । भिक्षणं सिद्धान्नस्यैव । तस्य च विप्रत्वेनावश्यकत्वात् । तत्प्रतिषेधे श्रुतिमाह । न ह वै खावेति यतः स्नात्वा भिक्षाञ्जयति अपाकरोति । अप ह वैइति निपातसमुदायो निश्चयार्थः । अत्र यो दृष्टार्थविपयः प्रतिपेधस्तस्य दृष्टार्थत्वादेवाकरणे प्राप्ते प्रतिषेधसामर्थ्यादृष्टार्थताऽप्यनुमीयते । अप्रावृतश्छत्रादिना वर्पति ब्रजेदयंमेव इति मन्त्रं जपेत् । अस्यार्थः तत्र प्रजापति - जगती वज्रो वृष्टिजपे० । अयं रविरश्मिसंस्कृतो जलकणरूपो वज्रो मे मम पाप्मानम् अपनत् अपहन्तु। अयं चातपवृष्टिविषय इत्येके । आत्मानं स्वम् । अजातलोम्नीं समयेऽप्यनुत्पन्नलोम्नीम् । विपुंसीं कूर्चादिना पुरुषाकृतिं स्त्रियम् । षण्डं च प्रसिद्धमेव । एतानि नोपहसेन्नाभिगच्छेत् । उपहासशब्देनाभिगमनमुच्यते । गर्भिणी गुर्वी विजन्येति ब्रूयान्न गर्भिणीमिति । एवमुत्तरत्रापि । गां धयन्ती स्वयमेव वत्सेन वा धीयमानाम्। जलादि पिवन्ती वा । उर्वरा सस्यवती भूमिस्तस्यां तथाऽनन्तरितायां तृणादिना । तथोत्सर्पन् तिष्ठश्च मूत्रपुरीपे न कुर्यादिति सर्वत्र संबध्यते । मूत्रपुरीषसंनिधानाद्भुदस्यैव मार्जनम् । विकृतं च नील्यादिना । न तु कषायादिना । तत्तु प्रशस्यते । दृढं व्रतं संकल्पो यस्य स दृढव्रतः । तथा वधात् घातादात्मानं परं वा त्रायते स वधत्रः स्यात् । तथा सर्वेषां मित्रमिव विश्वासास्पदं च स्यात् । मैत्रो हि ब्राह्मण उच्यते। एते च निषेधा विवाहावधिकाः । अन्येषां पृथग्वक्ष्यमाणत्वात् ॥ ७ ॥