________________
कण्डिका] द्वितीयकाण्डम् ।
२५३ सहकृतविध्यर्थस्य विधेयत्वमित्यर्थः । यथा समित्समिध्यमानवह्निप्रैपे शब्दार्थाध्याहारसंदेहे वरणप्रागभावावच्छिन्नसमये यदि पदार्थगोचरपदसंकेत: स्यात्तदा पदाध्याहारः स्यात्स च नास्तीत्यतो न पदाध्याहार इति तर्कस्याहार्यादांध्याहार इत्यर्थः । नन्वेवं वार्हस्पत्यसूत्रे क्षणभलाद्यर्थसमर्पकतत्साहाय्यादप्यर्थनिर्णयः स्यादत आह वेद इति। वेदपदसमभिन्याहाराद्वेदसंवन्धी तों लभ्यते तथा च विध्यर्थविरोधे वैदिकतर्कसहकृतवेदादर्थनिर्णय इत्यर्थः । मन्त्रब्राह्मणात्मकं वेदं पाठतोऽर्थतश्च समाप्य नायादित्युक्तम् । इदानी शिक्षादिपडङ्गोपेतं वेदमधीत्य वेदाथै च ज्ञात्वा स्नायादिति मतमुपन्यस्यति 'षडङ्गमेके । ननु श्रुतिस्मृत्यर्थानुष्ठानकामिकायै स्नानं कल्पसूत्राध्ययनासिध्यतीति ऋत्वनुष्ठानकामी कल्पमात्रमधीत्य स्नास्यती त्याशङ्कय निषेधति 'न कल्पमात्रे' 'कामं .."कस्य' तु पुनः याज्ञिकस्य कामं तदापि कल्पमात्रे अधीते न स्नानाधिकार इत्यर्थः । कथं स्नायादित्यत आह - उप"गुरु' । वैश्वदेवपूर्वमाभ्युदयिकं श्राद्धं समायाऽमिलपितं वरं गुरवे दत्त्वोपसंगृद्य उपसंग्रहणं तु दक्षिणोत्तरकराभ्यां गुरोर्दक्षिणोत्तरौ चरणौ स्पृष्ट्वा शिरसा चरणयोः स्पर्शनं, कर्माकाड्डायामुक्तं गुरुमिति । तत: स्नास्यामीति गुरोरनुजाप्रार्थनम् गुरुणाऽनुज्ञात इत्युक्तेः नाहीति गुरोरनुज्ञादानम् 'समि"धाय' ततः पाणिनाग्निं परिसमूहतीत्यारभ्य मेघामश्विनौ देवावाधत्तां पुष्करखजावित्यन्तं समप्रकण्डिकोक्तम् अग्निपरिचरणम् । एतच्च समावर्तनमुपक्रम्य विधीयमानत्वात्समावर्तनाङ्गं तेन ब्रह्मचर्यकालीनाग्निपरिचर्यातः पृथक् समिधामाधानस्य प्राधान्य द्योतयितुं समिधोऽभ्याधायेत्युक्तम् । अनेन च वेदाध्ययनव्रतानुष्टानोपेता ब्रह्मचर्यपरिसमाप्तिः । यास्नास्यन्त्सोदयनीयेति श्रुतेः 'परि 'सायेति । अग्नेः कटवस्त्रादिना वेष्टनेनाऽप्सु दीक्षावत्परिश्रितकरणम् । तस्योत्तरतः प्रागास्तृतेपु कुशेषु स्थित्वा धात्वर्थस्य गतिनिवृत्त्यर्थस्य गतिनिवृत्त्यर्थतया तिष्ठतः स्थितिलभ्यते । ऐन्द्याग्नेय्यादिषु ईशानीपर्यन्तं प्रादक्षिण्येन स्थापितानामष्टानामुदकुम्भानां मध्ये स्वापेक्षया पुरस्तात्माच्यां वर्तमानादेकस्मादुदकुम्भायेप्स्वतरमयः प्रविष्टेत्यारभ्य यो रोचनस्तमिह गृहामीत्यन्तेन मन्त्रेण । प्राक्पदशक्यस्य स संबन्धिकतया दिगन्तरस्थपदार्थनिरूप्यतया प्रागादीशानान्तासु दिक्षु प्रादक्षिण्येन कलशस्थापनं लभ्यते । नचैवं सत्येकपदव्येति व्यर्थतेति वाच्यं तस्य स्वरूपोपस्थापनतात्पर्यकत्वात् । अन्यथैकनिरूप्यानामनेकेषां प्रागादिव्यवहारानापादकतापत्तेरिति प्रतीमः। 'येन'यशइति' पुनर्येऽस्वन्तरग्न इत्याग्नेय्यां स्थिताद् द्वितीयादुदकुम्भादुदकं गृहीत्वा येन श्रियमकृणुतां यश इत्यन्तेन मन्त्रेण पूर्ववदात्मानं वटुरभिपिञ्चते । 'आपोहिष्ठेतिप्रत्यूचं त्रिभिः । ततः याम्यनेप्रत्यवारुणीदिवस्थैत्रिभिः कलशैः कलशस्थजलैः आपोहिष्टा योवस्तस्माअरङ्गमिति त्रिभित्रभियेऽप्स्वन्तरप्रय इति जलमादायात्मानमभिषिञ्चते 'तूष्णीमितरैः । इतरैर्वायच्यां कौवेर्यामीशान्यां च स्थितैस्तत्रस्थजलैस्तूष्णीमभिपेकः । जलादानमभिषेकश्च तूष्णीमितरकलशस्थजलाद्भवतीत्यर्थः । 'उदु"प्ठते । उन्मुच्य ऊर्ध्व कण्ठदेशमानीय शिरोमार्गेण उदुत्तममिति मन्त्रेण मेखलां निःसार्य निधाय भूमौ स्थापयित्वा । अस्मिन्नवसरे दण्डाजिनयोर्निधानं तूष्णीम् । ततः आदित्यमुपतिष्ठते । अन्यवाससा कटिं संवेष्ट्य । उपस्थानमन्त्रानाह ! ' उद्य"मयेति । ' दधिः 'वेत' ततः सूर्योपस्थानानन्तरं दधितिलयोरेकं प्राश्याचम्य । जटालोमनखानि च वापयित्वा स्मृतिशुद्धो भूत्वाऽऽचम्य । आयुर्वलं यशो वर्चः प्रजा पशुवसूनि च । ब्रह्म प्रज्ञा च मेधां च त्वं नो धेहि वनस्पते । इति औदुम्बरं दन्तधावनमादाय अन्नाद्यायेति मन्त्रेण दन्तान् शोधयेत् । दन्तधावनमन्त्रमाह 'अन्ना""चेति' पुनराचम्य 'उत्सा""येति' उत्साद्य घृतोपरक्तसुगन्धिना द्रव्येण शरीरमुद्वर्त्य पुनः भूयः स्नात्वा वारद्वयमाचम्य चन्दनादि पाषाणघृष्टमनुलेपनं नासिकयोर्मुखस्य च समीपे उपग्रहणं प्राणापानौ मे तर्पय श्रोत्रं मे तर्पयेत्यन्तेन । कचित्तु उपग्रहणं लेपनमाहुः । 'पित "समिति,