________________
२५२
पारस्करगृह्यसूत्रम् ।
[ पष्ठी
योज्यम् । ततो भूराद्या नवाहुतयः । ततः स्त्रिष्टकृद्धोमः । ततः प्राशनादिप्रणीताविमोकान्तम् । ततो ब्रह्मचारी उपसंग्रहणपूर्वकं गुरुं नमस्कृत्य परिसमूहनादि त्र्यायुपकरणान्तं समिदाधानं तस्मिन्नेवानौ कुर्यात् । तत आचार्यपुरुषैः परिचितस्योत्तरभागे स्थापितानां दक्षिणोत्तरायतानामष्टानाममलजलपूर्णा - नामुदकुम्भानां पूर्वभागे आस्तृतेषु प्रागग्रेषु कुशेषु उदङ्मुखः स्थित्वा येऽप्स्वन्तरिति मन्त्रेण प्रथमकलशादुदकं गृहीत्वा तेनोदकेन स्वकीयशिरसोऽभिपेकस्तेन मामिति मन्त्रेण । एवमेव द्वितीयादिभ्य उदकुम्भेभ्यो येऽस्वन्तरित्यनेनैवैकैकस्माज्जलमादाय वक्ष्यमाणैर्मन्त्रैरभिपेकः । येन श्रियमिति द्वितीयः । आपोहिष्ठेति तृतीयः । यो व इति चतुर्थः । तस्मा इति पञ्चमः । ततस्तूष्णीं त्रिवारमभिपेक: । तत उदुत्तममिति मेखलां शिरोमार्गेण निस्सार्य भूमौ प्रक्षेपः । ततः कृष्णाजिनदण्डयोस्त्यागः । वासोऽन्यत्परिधायादित्योपस्थानमुद्यन् भ्राजभृष्णुरिति । ततो दधिप्राशनं तिलानां वा । जटालोमनखानां निकृन्तनं स्नानमौदुम्बरकाष्ठेन दन्तधावनमन्नाद्यायेति । ततः सुगन्धिद्रव्येणोद्वर्तनम् । स्नानम् । चन्दनाद्यनुलेपनं गृहीत्वा मुखनासिकयोरुपग्रहणं प्राणापानाविति । ततोऽपसव्येन दक्षिणामुखेन पाण्योरवनेजन जलस्य दक्षिणस्यां दिशि निपेकः पितरः शुन्धध्वमिति । ततः सव्येनोदकालम्भः । ततश्चन्दनेनात्मानमनुलिप्य सुचक्षा अहमिति जपः । महतवाससः परिधानं परिधास्या इति । अजकrतस्य वा । द्विराचमनम् । धारयेद्वैणवी यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले । इति मनूक्तत्वादनोपवीतद्वयधारणमिति हरिहरः प्रयोगरत्नकारश्च । उत्तरीयवाससो धारणं यशसामेति । एकं चेत्पूर्वस्यैवोत्तरभागेनोत्तरीयधारणम् । या आहरज्जमद'भिरिति सुमनसः प्रतिग्रहः । ततः शिरसि पुष्पवन्धनं यद्यशोऽप्सरसेति । उष्णीषेण शिरोवेष्टनं युवा सुवासा इति । अलंकरणमसीति कुण्डलधारणम् । मन्त्रावृत्त्या दक्षिणकर्णे वामकर्णे च । वृत्रस्ये त्यक्षिणी अते । प्रथमं वामं ततो दक्षिणमनेनैव मन्त्रेण । रोचिष्णुरसीत्यनेनात्मन आदर्श प्रेक्षणम् । बृहस्पतेरिति छत्रप्रतिग्रहणम् । प्रतिष्ठे स्थ इत्युपानहौ प्रतिमुञ्चते पादयोर्युगपत् । ततो विश्वाभ्य इति दण्डादानम् । अभिषेकादि दण्डादानान्तं स्नानकर्ता करोति नाचार्यः । समावर्तनोत्तरं पूर्वमृतानां त्रिरात्रमाशौचं कार्यम् । आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तूदकं दत्वा त्रिश्रमशुचिर्भवेदित्युक्तेः । आदिष्टी ब्रह्मचारीति विज्ञानेश्वरः । ब्रह्मचर्ये यदि कश्चिन्न मृतस्तदा त्रिरात्रमध्ये विवाह: कार्योऽन्यथा नेति सिध्यति । जनने तु सत्यपि न त्रिरात्रम् । तत्रातिक्रान्ताशौचाभावात् । उदकं दत्त्वेति वचनाचेति दिक् । ततो मधुपर्कः । इति समावर्तने पदार्थक्रमः ॥ अत्र गर्गमते होमो नास्ति अन्यत्तुल्यम् ॥ * ॥ ६ ॥
1
.
( विश्व० ) - इदानीं क्रमप्राप्तं समावर्तनमाह 'वेद' यात्' । पक्षान्तरमाह 'ब्रह्म'शकं ' ब्रह्मचर्यपदाग्नेयादिव्रतपरं वेदं व्रतानि वेत्युक्तः । कीदृशं तदत आह ' आष्टाचत्वारि शकमिति ' अष्टाचत्वारिशद्वर्पावच्छिन्नमित्यर्थः । अत्रापि स्नायादित्यनुषङ्गः । वेदव्रतयोः संकुचिताध्ययना - चरणपक्षमतमाह ' द्वा’''के' द्वादशवर्षावच्छिन्नं वेदाध्ययनं व्रतानुष्ठानं चेत्यर्थः । एतन्मते एकमेव वेदमधीत्य स्नायादित्यवधेयम् । कथं स्नायादत आह 'गुरुणानुज्ञातः ' आज्ञाप्रार्थनं च गुरवे चरा - नानन्तरं वरं दत्त्वा स्नायीतेत्युक्तेः । एतच स्नानाधिकारिविशेषणं सति गुरौ । वेदं समाप्येति प्रागुक्तं स च वेदपदवाच्यः क इत्यत आह 'विधि' 'वेदः ' यजेतेत्यादिविधायको विधिः, विधेयाः विधि'विनियोज्याः मन्त्राः, तों न्यायमीमांसे, अर्थवाद इतिकेचित् चकारान्नामधेयांशसंग्रहः । लक्ष्यमाहवेद इति । यद्वा गुर्वनुज्ञाकारमाह विधिर्विधेयस्तर्कश्च वेद इति । विधीयत इति विधिर्यागेन यजेते - त्यादिविधायकवाक्यार्थ इति यावत्स विधेयः कृतिसाध्यक्रियाविषयत्वं लंभनीय इत्यर्थः । तर्क - त्यत्र विधेय इत्यर्थानुकर्षणार्थश्वकारः । तर्कस्य च प्रमाणसाचिन्येनैव विधायकत्वाद्विध्यर्थविरोघे तर्क