________________
फण्डिका] द्वितीयकाण्डम्।
२५१ मित्येव श्रूयते वहृचश्रुतौ । हरिहरेण दक्षिणानं पूर्वमुक्तं तदाशयं न विद्मः। रोचि "क्षते । आत्मानं सर्वं देहमादर्श दर्पणे प्रेक्षते पश्यति रोचिष्णुरसीत्येतावता मन्त्रेण । मन्त्रार्थः । रोचिष्णुः प्रकाशकः । 'छत्रं हीति' उपसर्गसामर्थ्याद्गुरुणा दत्तं छत्रमातपत्रं बृहस्पतेश्छदिरसीति मन्त्रेण प्रतिगृह्णाति । मन्त्रार्थः । हे छत्र त्वं वृहस्पतेः पितामहस्य छदिर्घर्मादिनिवर्तकोऽसि .प्रथमम् अतः पाप्मनो निषिद्धाचरणान्माम् अन्तर्बेहि अन्तर्हितं कुरु । तेजसश्च सकाशान्माऽन्तद्धेहि मा व्यवहितं कुरु तयुक्तं कुर्वित्यर्थः । 'प्रति""श्चते ' प्रतिष्ठे स्थ इति मन्त्रेण उपानही पादत्राणे पादयोः प्रतिमुञ्चते परिधत्ते युगपत् शक्यत्वात् द्विवचनान्तत्वाच्च । मन्त्रार्थ:-हे उपानहीं देवते युवां प्रतिष्ठे स्थितिहेतू स्थः भवथः । अतो विश्वतः सर्वस्मात्परिभवात् मा मां पातं रक्षतम् । ' "विश्वा' 'दत्ते' विश्वाभ्य इति मन्त्रेण वैणवं वंशमयं दण्डं यष्टिमादत्ते । अत्राभिषेकादिदण्डधारणान्तं कर्म स्नानकर्तुर्ने त्वाचार्यस्य । मन्त्रार्थ:-हे दण्ड विश्वाभ्यः सर्वाभ्यः नाष्ट्राभ्यो राक्षसादिभ्यः सर्वावस्थासु मा मां परिपाहि सर्वभावेन रक्ष ।' दन्त' 'न्मन्त्रः । दन्तप्रक्षालनमादौ येषां पुष्पादीनां तानि दन्तप्रक्षालनादीनि तत्साधनानि प्राप्य नित्यमपि नित्यमेव मन्त्रो भवति । अपि एवार्थे । वाससी च छत्रं च उपानही च वासश्छनोपानहः चकाराद्दण्डोऽपि । एतानि वाससादीनि चेद्यदि नवीनानि ध्रियन्ते तदैव मन्त्रो भवति न सर्वदा ॥ * ॥ इति षष्टी कण्डिका ||*॥ ॥*॥
अथ पदार्थक्रमः । सुरेश्वरः-भौमभानुजयोवार नक्षत्रे च व्रतोदिते । ताराचन्द्रविशुद्धौ च स्यात्समावर्तनक्रियेति । एतच्च ब्रह्मचारिव्रतलोपे प्रायश्चित्तं कृत्वा कार्यम् । तदाह वौधायन:-शौचसन्ध्यादर्भभिक्षाऽग्निकार्यराहित्यकौपीनोपवीतमेखलादण्डाजिनाधारणदिवास्वापच्छत्रपादुकास्रग्विधारणोद्वर्तनानुलेपनाञ्जनातनृत्यगीतवाद्याधभिरतो ब्रह्मचारी कृच्छ्रत्रयं चरेदिति । ब्रह्मचारी गुरुमर्थदानेन संपूज्य तेनानुज्ञातो ज्योतिशास्त्रोक्ते शुभे काले आचार्यगृहे समावर्तनं माम कर्म कुर्यात् । ब्रह्मचारी कृतनित्यक्रियः कृतप्रातरग्निकार्यश्च । तत आचार्यः प्राणानायम्य देशकालौ स्मृत्वा अस्य ब्रह्मचारिणो गृहस्थाद्याश्रमान्तरप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ समावर्तनाख्यं काहं करिष्ये इति संकल्प्य तदङ्गभूतं निर्विनाथ गणपतिपूजनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चाहं करिष्ये । श्राद्धादि समाप्य । तत आचार्यम् अहं स्नास्ये इत्युक्ते नाहीति प्रत्यनुज्ञा गुरोः । ततः पादोपसंग्रहणं गुरोः । ततः परिश्रिते पञ्च भूसंस्कारान्कृत्वा लौकिकाग्नेः स्थापनम् । वैकल्पिकावधारणे विशेषः । दधिप्राशनममौत्रधौतवस्त्रम् । ततो ब्रह्मवरणाद्याज्यभागान्ते विशेष:उपकल्पनीयेषु समिन्धनकाष्ठानि, समिधः, पर्युक्षणार्थमुदकं, हरितकुशाः, अष्टावुदकुम्भाः, औदुम्बरं द्वादशाङ्गुलं दन्तकाष्ठं ब्राह्मणस्य, दशाङ्गुलं राजन्यस्य, अष्टाङ्गुलं वैश्यस्य, दधि, नापितः, स्नानार्थमुदकमुद्वर्तनद्रव्यं चन्दनमहते वाससी । प्रयोगरत्नमते-यज्ञोपवीते , पुष्पाणि, उष्णीष, कर्णालंकारी, अञ्जनम् , आदर्शः, नूतनं छत्रम, उपानहौ, वैणवो दण्डः । ततः पवित्रकरणाद्याज्यभागान्तं कुर्यात् ।१ अन्तरिक्षाय स्वाहा । २ वायवे स्वाहा । ३ ब्रह्मणे स्वाहा । ४ छन्दोभ्यः स्वाहा ।५ प्रजापतये स्वाहा । ६ देवेभ्यः स्वाहाः । ७ ऋषिभ्यः स्वाहा । ८ श्रद्धायै स्वाहा । ९ मेधायै स्वाहा । १० सदसस्पतये स्वाहा ।११ अनुमतये स्वाहा ।लिङ्गोक्तास्त्यागाः । यदि ऋग्वेदमधीत्य नाति तदा १ पृथिव्यै स्वाहा २ अग्नये स्वाहेत्याहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्यारभ्यानुमत्यन्ता नवाहुतीर्जुहोति । एवं सामवेदे दिवे सूर्यायेत्याहुतिद्वयं हुत्वा ब्रह्मणे इत्याद्या नवाहुतीर्जुहोति । एवमथर्ववेदेऽपि दिग्भ्यश्चन्द्रमस इत्याहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या जुहोति । यदि वेदचतुष्टयमधीत्य स्नानं करोति तदा आज्यभागानन्तरं प्रतिवेदं वेदाहुतिद्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याज्याहुतीः पुनः पुनर्जुहोति । ततः प्रजापतय इत्यारभ्यानुमत्यन्ताः सप्ताहुतीस्तन्त्रेण जुहोति । एवं वेदद्वयत्रयाध्ययनेऽपि