________________
२५०
पारस्करगृह्यसूत्रम् ।
[पष्ठी 'उत्साद्य अडोद्वर्तनेन मलमपसार्य पुनः स्नात्वा मलापकर्षणस्तानोत्तरं पुनः स्नानं कृत्वाऽनुलेपन चन्दनादि नासिकयोर्मुखस्य चोपगृहीते आदत्ते प्राणापानौ मे इति मन्त्रेण । मुखनासिके चानुलिस्पतीति हरिहरः । पाण्योरवनेजनं निषिच्येति वक्ष्यमाणत्वादन्न पाणिभ्यामनुलेपनग्रहणम् । मन्त्रार्थः। हे उपलेपनाधिदेवते मे मम प्राणापानौ वायू तर्पय प्रीणय । तथा मे चक्षुरिन्द्रियम् । तथा मे श्रोत्रं अवणेन्द्रियं च तर्पय ।। 'पित "यासमिति प्राचीनावीती दक्षिणाभिमुखो भूत्वा पितरः शुन्धध्वमित्येतावता मन्त्रेण पाण्योरवनेजनं हस्तयोः प्रक्षालनोदकं दक्षिणानिपिच्य दक्षिणस्यां दिशि निषिच्य प्रक्षिप्य यज्ञोपवीती भूत्वा पितृकर्मत्वादुदकं स्पृष्ट्वा चन्दनेनात्मानमनुलिप्य सुचक्षा अहमिति मन्त्रं जपेत् । अत्र दक्षिणापदं लुप्तसप्तम्यन्तम् । मन्त्रार्थ:-हे सवितः अहमक्षीभ्यां नेत्राभ्यां कृत्वा सुचक्षाः सुदर्शनो भूयासं भवेयं तथा मुखेन सुवर्चाः सुतेजाः भूयासमिति पूर्वत्र संवन्धः। तथा कर्णाभ्यां सुश्रुत सुश्रवणो भूयासम् । ' अह"यिष्य इति । अहतं नवीनं सदशं वासः वसनम् अथवाऽमौत्रेण अरजकेन धौतं वास आच्छादयीत परिधास्या इति मन्त्रेण । मन्त्रार्थः-हे वासोदेवते परिधास्यै अनेकशुभवत्रपरिधानाय तथा यशोधास्यै स्तुत्यै दीर्घायुत्वाय दीर्घजीवनाय च इदं वासः संन्ययिष्ये परिधास्ये । किम्भूतः । वासोदेवतानुग्रहेण जरदुष्टिरस्मि । वृद्धत्वव्याप्यायुभवामि । पुरूचीः पुम्भिर्बहुभिः पुनधनादिभिश्व संयोगोऽस्ति यस्य सः । उच समवाये । किम्भूतं वासः रायस्पोषम् धनादिपोषणं पुष्टिकरम् । किंच एतत्संबन्धेनाहं शतं शरदो वर्षाणि जीवामि । 'अथो "तामिति । अथ परिधानानन्तरमाचम्य यशसामेति मन्त्रेण अहतमेव वास उत्तरीयमाच्छादयीतेति संबन्धः । मन्त्रार्थः हे वासोदेवते द्यावापृथिवी द्यावाभूमी यशसा युक्तौ मा मां अविन्दुत् विन्दतां प्राप्नुतामिति यावत् । विद्लू लाभे धातुः । विभक्तिवचनव्यत्ययेनान्वयः । तथा इन्द्राबृहस्पती अपि यशसा युक्तौ मा अविन्दुत् तथा भगः सूर्योऽपि यशसा अविन्दत् । तञ्चैतैः संपादितं यशो मा मां प्रतिपद्यतां मयि सर्वदा तिष्ठत्वित्यर्थः । एक यीत ' चेद्यदि एकं वासो भवति द्वितीयं न भवति तदा पूर्वस्य परिधानीयस्यैव वासस उत्तरवर्गेण उत्तरभागेन प्रच्छादयीत उत्तरीयं कुर्यात् । तत्रापि यशसामेति मन्त्रो भवति क्रियान्तरत्वात् । अत्रैवम् । पूर्व वस्त्रार्द्ध समन्त्रकं परिघाय द्विराचम्य उत्तरार्द्ध गृहीत्वा उत्तरीय मन्त्रं पठित्वोत्तरीयं कृत्वा पुनर्द्विराचामेत् । 'सुम 'चेति । सुमनसः पुष्पाणि प्रतीत्युपसर्गसामर्थ्यात् गुरुणा समर्पिताः सुमनसः प्रतिगृह्णाति या आहरदिति मन्त्रेण । याः सुमनसः पुष्पाणि जमदग्निः प्रजापतिः श्रद्धाद्यर्थमाहरत् आददौ । ताः सुमनसो यशसा की| भगेनैश्वर्येण च सहाहं प्रतिगृह्णामि श्रद्धाद्यर्थम् । तत्र श्रद्धा धर्मादरः । मेधा धारणाशक्तिः । कामोऽभिलाषपूर्तिः । इन्द्रियं तत्पाटवम् । 'अथा "मयीवि : ताः प्रतिगृह्य स्वशिरसि वनाति यद्यशोऽप्सरसामिति मन्त्रेण । मन्त्रार्थः-हे सुमनसः इन्द्रो देवः अप्सरसामुर्वश्यादीनां कुसुमावबन्धेन यद्यशः सर्वजनप्रियत्वं चकार कृतवान् तेन यशसा संग्रथिताः युष्मान् आवध्नामि चूडायाम् । किंभूतं यशः विपुलं विशालम्। एषु संततं दीर्घ तद्यशो मयि विपये तिष्टवित्यर्थः । ' उष्णी."सा इति । उष्णीषेण शिरोवेष्टनवस्त्रेण शिरो वेष्टयते । युवा सुवासा इति मन्त्रेण । व्याख्यातश्चायमुपनयने । ' अलं."टको ' कर्णवेष्टको कुण्डले दक्षिणसव्यकर्णयोरामुञ्चति । अलंकरणमसीति मन्त्रावृत्त्या । मन्त्रार्थः हे कुण्डलदेवते त्वमलकरणमलं. कारशोभाऽसि । अतस्त्वयाऽलंकृतस्य मम भूयो बहुवारमलंकरणं भूयात् अस्तु । ' वृत्र "क्षिणी' वृत्रस्येत्यादिचक्षुमेंदेहीत्यन्तेन मन्त्रेण कमलेन अक्षिणी अङ्क संस्करोति । सौवीराजनेनेति हरिहरः। अत्र च सव्यं नेत्रमङ्क्त्वा ततो दक्षिणाञ्जनं मन्त्रावृत्त्या । तथाच दीक्षाप्रकरणे लिङ्गम् । सव्यं वा अग्रे मानुप इति । कारिकायाम्-वृत्रस्येत्यक्षिणी अङ्केभ्यजनेनाभिनासिकम् । सव्यं प्रथम