________________
कण्डिका द्वितीयकाण्डम् ।
२४९ चाभ्यस्य स्लायादिति तृतीयः पक्षः । स्नायादित्युक्तं तत्र कथं स्नायादित्यपेक्षायामाह 'उप''येति' उपसंगृह्य गुरोः पादोपग्रहणं कृत्वा समिधोऽभ्याधायाग्निपरिचरणं कृत्वा । इतश्च पूर्व वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तत्वात् । ननु समिदाधानस्य पश्चाद्वेदाहुतयः कुतो न भवन्ति । क्रमा- . न्तरानभिधानात् । उपसंगृह्य गुरुद-समिधोऽभ्याधायेतिपाठानुग्रहापत्तेश्च । मैवम् । यतो वेदाहुतीनां पश्चादेव समिदाधानम् ततश्च स्नानमिति श्रूयते । स यामुपयन्त्समिधमादधाति सा प्रायणीया याई स्नास्यन्त्सोदयनीयेति । तस्मात्समिदाधानस्नानयोरव्यवहितकालत्वोपपादनाद्वेदाहुतीनां च स्लानाङ्गत्वातिदेशाच समिदाधानात्पूर्व वेदाहुतिहोम इत्युक्तम् । स्नानं चाष्टभिरुदकुम्भैः क्रमेण । परिश्रितस्य वस्त्रादिना वेष्टितसमावर्तनस्थानस्थितस्याग्नेरुत्तरपार्श्वे स्थापितानामष्टानामुदकुम्भानां दक्षिणोत्तरायतानां पुरस्तात्पूर्वस्यां दिशि आस्तीर्णेषु कुशेषु ब्रह्मचारी स्थित्वा अभूिय येऽस्वन्तरग्नय इति मन्त्रेण प्रथमादुदकुम्भादपो गृहीत्वा तेन मामभिपिञ्चामीति मन्त्रेणात्मानमभिषिञ्चति । मन्त्रार्थः । येऽग्नयो गोह्यादयोऽप्सु अन्तर्मध्ये प्रविष्टाः स्थिताः इन्द्रियहान्ता अष्टौतान् अमेध्यत्वादमङ्गल्यत्वादेताभ्योऽन्यः सकाशात् अग्नीन् विजहामि पृथकरोमि । यश्च रोचनोऽग्निमेंध्यत्वान्मइल्यत्वात्प्रीतिकारित्वाच तमिहाप्सु विपये गृह्णामि स्वीकरोमि । यतः अन्योऽग्निरुत्पद्यते संत्रियते आच्छाद्यत इति गोह्यः । उपगोहः अङ्गतापकः । मयूपो जन्तुहिंसकः । मनस उत्साहं हन्तीति मनोहाः । अरखलः प्रध्वंसी अजीर्णकृत् । विविधतया रुजति पीडयतीति विरुजः । तनूं शरीरं दूपयति विकृति नयति इति तनूदूषुः इन्द्रियाणि हन्तीति इन्द्रियहाः । अभिपेकमन्त्रार्थः । तेनोदकेन मां इममात्मानमभिपिचामि । किमर्थ ? श्रियै संपत्यर्थ यशसे कीय ब्रह्मणे ब्रह्मवर्चसाय यागाध्यापनोत्कृष्टतेजसे 'येन' "तरैः । अष्टाभ्य उदकुम्भेभ्योऽपां ग्रहणे एक एव मन्त्रो ये अप्स्वन्तरग्नयः इति । अभिपेचने तु भिद्यते । तद्यथा । येन श्रियमिति द्वितीयम् आपो हिप्ठेति तृतीयं यो वः शिवतम इति चतुर्थ, तस्मा अरङ्गमिति पञ्चमं, ततस्तूष्णीं त्रिमिरितरैरुदकुम्भरभिषेकः । मन्त्रार्थ:-हे अश्विनौ येन जलप्रभावेण भवन्तौ सुराणां श्रियं संपदं शोभा वा अकृणुतां कृतवन्तौ । येन च सुराणाममृतमवमृशतां प्राप्तवन्तौ । अटोऽदर्शनं छान्दसम् । येन वलेनाक्षौ उपमन्योरक्षिणी अभ्यपिञ्चतामभिषिक्तवन्तौ । वां युवयोर्यदेवंभूतं यशस्तदेतज्जलाभिषेकेण ममाप्यस्त्विति शेषः । 'उदु"मयेति । तत उदुत्तममिति मन्त्रेण मेखलां रशनामुन्मुच्य ऊर्ध्वं शिरोमार्गेण निःसार्य तां च भूमौ निक्षिप्य वासोऽन्यत्परिधाय वस्त्रान्तरं परिहितं कृत्वा उद्यन्भ्राजभूष्णुरितिमन्त्रेण सूर्यमुपतिष्ठते । मेखलानिधानोत्तरं दण्डाजिनयोर्निधानम् । तूष्णीमिति जयरामकारिकाकारौ। मन्त्रार्थ:-हे सूर्य यतो भवान् प्रातःसवने यावभिगमनशीलैष्यादिसप्तकगणैः सेवितोऽस्थात् तिप्रति यथेन्द्रो मरुतिरस्थात् तिष्टति तद्वत् । किंभूतः उद्यन् उद्गच्छन् भ्राजभृष्णुः स्वप्रभयाऽन्यतेजउदासकः । आविदन् सर्वं शुभाशुभं जानन् । किंच यथाच त्वं प्रातःसवने दशसनिः दशसंख्यातानां गवादीनां सनिता । पणु दाने । अतो मामपि दशसनिं दशगुणदक्षिणादिदातारं कुरु । मा मां विदन् वेदयन् ज्ञापयन् गमय प्रापय प्रतिष्ठामिति शेपः । एवमुत्तरत्रापि व्याख्येयम् । 'दधि"चेति । ततो दधितिलयोरन्यतरं प्राशयित्वा जटाश्च लोमानि च नखानि च जटालोमनखानि तानि संहृत्यापनीय वापयित्वा । संहृत्येत्यत्र णिचो लोपश्चान्दसः स्वयं संहर्तुमशक्यत्रान् । औदुम्वरेण दन्तान्धावेत औदुम्वरेण काप्टेन दन्तान् शोधयेत् अन्नाधायेति मन्त्रेण । है दन्ताः यूयं अन्नाद्याय अन्नादनाय व्यूहध्वं निर्मला भवत । यतोऽयं राजा सोमश्चन्द्रः काप्टरूपेणागमत् आगतः । अतः स एव सोमो मे मम मुखं प्रमायते शोधयिष्यति । केन यशसा सत्कीर्त्या भगेन भाग्येन च । दन्तधाननस्य नित्यकास्यत्वादुभयफलसंवन्ध इति मुरारिः । 'उत्सा""येति'
३२