________________
कण्डिका] द्वितीयकाण्डम् ।
२४५ सदशमनुपहतं वा । तत्रापि अमौत्रेण मौत्रो रजकस्तद्वयतिरिक्तेन धौतं वा आच्छादयीत परिदधीत परिधास्या इति मन्त्रेण । अस्यार्थः तदादिद्वयोराथर्वणो यजुलियोक्ता वासःपरिधाने० । हे वासोदेवते परिधास्यै अनेकशुभवस्त्रपरिधानाय तथा यशोधायै कीाधानाय तथा दीर्घायुत्वाय निर्दुष्टजीवनाय च इदं वासः संव्ययिष्ये परिधास्ये । किभूतः वासोदेवतानुग्रहेण जरदष्टिः आयुःपरिपाकवान् । पुरूचीः पुरुभिर्बहुभिः पुत्रधनादिभिरुचः संयोगोऽस्ति यस्य सः । उच समवाये । किंभूतं वासः रायस्पोपं रायो धनादिसमृद्धेः पोपं पोषणं पुष्टिकरमित्यर्थः । किंचैतत्संवन्धेनाहं शतं शरदो वर्षाणि जीवामि । अथोत्तरीयं वास आच्छादयतीत्यनुषड्नः । यशसामेति मन्त्रेण । अस्यार्थः। हे वासोदेवते द्यावापृथिवी द्यावाभूमी यशसा युक्तौ मा मामविन्दन् विन्दतां प्राप्नुतामिति यावत् विदल लामे धातुः । विभक्तिवचनव्यत्ययेनान्वयः । तथा इन्द्रावृहस्पती अपि यशसा युक्तौ । मामविन्दत् । तथा भगः सूर्योऽपि यशसा युक्तो मामविन्दत् । तबैतैः संपादितं यशो मा मां प्रतिपद्यताम् मयि सर्वदा तिष्ठत्वित्यर्थः । यद्वा तद्यशो माप्रतिपद्यताम् । प्रतिरत्रापार्थः मत्तो माऽपयात्वित्यर्थः । एक चेत् तत्रापि परिधानमन्त्रं पठित्वा वस्त्रार्दू परिधाय द्विराचम्य उत्तरार्द्धं गृहीत्वा उत्तरीयमन्त्रं पठित्वोत्तरीयं कृत्वा पुनर्द्विराचामेदित्यर्थः । एतन्मन्त्रद्वयं स्वकर्तृकपरिधाने बोद्धव्यम् । परकर्तृके तु परिधापने येनेन्द्रायेति मन्त्रान्तरमित्यविरोधः । सुमनसः पुष्पाणि या आहरदिति मन्त्रण । अस्यार्थः । तत्र द्वयोर्भरद्वाजोऽनुष्टुप् सुमनसो देवता क्रमेण पुष्पादानबन्धनयोर्वि० । याः सुमनसः पुष्पाणि जमदग्निः प्रजापतिः अद्धाद्यर्थमाहरत आददे । ताः सुमनसो यशसा कीर्त्या भगेनैश्वर्येण च सहाहं प्रतिगृह्णामि श्रद्धाद्यर्थम् । तत्र श्रद्धा धर्मादरः । मेधा धारणाशक्तिः । कामोऽमिलापपूर्तिः । इन्द्रियं तत्पाटवम् । अथेति सुमनसां ग्रहणानन्तरम् तानि स्वगिरस्यववध्नाति । यद्यशोऽप्सरसामिति मन्त्रेण । अस्यार्थः । हे सुमनसः इन्द्रो देवः अप्सरसामुर्वश्यादीनां कुसुमावबन्धनेन यद्यशः सर्वजनप्रियत्वं चकार कृतवान् । तेन यशसा संग्रथिताः युष्मानाबध्नामि चूडायाम् । किंभूतं यशः । विपुलं विशालं पृथु संततं दीर्घ तद्यशो मयि विषये तिष्ठविति शेषः । उष्णीपण शिरोवेष्टनवस्त्रेण शिरो वेष्टयते युवासुवासा ति मन्त्रेण । व्याख्यातश्चायं मेखलावन्धनप्रसङ्के । कर्णवेष्टको कुण्डले कर्णयोरामुञ्चति अलंकरणमसीति मन्त्रेण । अस्यायः । तत्र प्रजापतिर्युजरग्निः कर्णालंकरणे० । हे कुण्डलदेवते त्वम् अलंकरणम् अलंकारशोभाऽसि । अतस्त्वयाऽलंकृतस्य मम भूयो वह वारं वारं वा अलंकरणं भूयादस्तु । वृत्रस्यासि कनीनक इत्यादि चक्षुमें देहीत्यन्तेन मन्त्रेणाङ्केऽक्षिणी। तत्र प्रजापतिर्गायत्री अञ्जनं तत्करणे० । रोचिष्णुरसीत्येतावता मन्त्रेणादर्श दर्पणे मुखं प्रेक्षते । तत्र सूर्यो यजुरादों मुखनिरीक्षणे० । छत्रं प्रतिगृह्णाति । वृहस्पतेरिति मन्त्रेण । अस्यार्थः । तत्र गौतमो गायत्री छत्रं तद्ग्रहणे० । हे छत्र वं बृहस्पतेः पितामहस्य छदिः धर्मादिनिवर्तकोऽसि प्रथमम् । अतः पाप्मनो निषिद्धाचरणान्मामन्तद्धेहि व्यवहितं कुरु तेजसः प्रतापात् यशसञ्च सकाशान्माऽन्तद्धेहि मा व्यवहितं कुरु तद्युक्तं कुर्वित्यर्थः । प्रतिष्टेस्थ इति मन्त्रेणोपानही पादयोः प्रतिमुञ्चते परिधत्ते युगपत् शक्यत्वाद्विवचनान्तत्वाञ्च मन्त्रस्य । अस्यार्थः । तत्र प्रजापतिर्यजुर्द्धर्म उपानन्ग्रहणे० । हे उपानही तद्देवते युवा प्रतिष्ठे स्थितिहेतू स्थः भवथः । अतो विश्वतः सर्वस्मात्परिभवान्मा मां पातं रक्षतम् । विश्वाभ्य इति मन्त्रेण वैणवं दण्डमादत्ते । अस्यार्थः । तत्र याज्ञवल्क्यो यजुर्दण्डस्तद्हणे। हे दण्ड विश्वाभ्यः सर्वाभ्यः नाष्ट्राभ्यो राक्षसादिभ्यः सर्वतः सर्वावस्थासु मा मां परिसाहि सर्वभावेन रक्ष । दन्तप्रक्षालनादीनि तत्साधनानि प्राप्य नित्यमपि नित्यमेव मन्त्रो भवति । अपि एवायें। वासःप्रभृतिष्वपूर्वेष्वेव मन्त्रः ।। ६ ।।
(हरिहरः)-'वेदर्छ' 'शकम् । वेदं मन्त्रब्राह्मणात्मकं समाप्य सम्यक् पाठतोऽर्थतश्च अन्तं