________________
कण्डिका] द्वितीयकाण्डम् ।
२४३ समिदाधानमेव पश्चाद्भवति । एवं हि श्रूयते । स यामुपयन्त्समिधमादधाति सा प्रायणीया या स्नास्यन्सोदयनीयेति । स्नानं चाष्टभिरुदकुम्भैः समिदाधानसमनन्तरमेव भवति उत्तरत: परिश्रितस्याप्टानामुदकुम्भानां पुरस्तात् स्थित्वा कुशेपु प्रागपु येऽस्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्य इत्यनेन मन्त्रेण एकस्मादुदकुम्भादपो गृहीत्वा तेनाभिपिञ्चते तेन मामभिपिञ्चामि इत्यनेन मन्त्रेण अथ द्वितीयेन येन श्रियमकृणुतामित्यनेन मन्त्रेण । 'आपोहिष्ठेति च प्रत्यूचं । त्रिभिरुदकुम्भैरभिषिञ्चति । तूष्णीमितरैरुदकुम्भैरंभिषेकः । ' उदुः'टत ' उद्यन्भ्राजभृष्टरित्यनेन मन्त्रेण । 'दधिवेत , अन्नाधाय व्यूहध्वमिल्यनेन मन्त्रेण दधितिलयोरन्यतरप्राशनं कृत्वा जटालोमनखानां संहारं च औदुम्बरेण दन्तान्प्रक्षालयेदनाद्याय व्यूहध्वमित्यनेन मन्त्रेण । ' उत्सा'"येति । उत्सादनमकोद्वर्तनं कृत्वा पुनः स्नात्वाऽनुलेपनं नासिकयोमुखस्य चोपगृहीते प्राणापानौ मे तर्पयेत्यनेन मन्त्रेण । ' पित"जपेत् । सुचक्षा अहमक्षीभ्यामिति । ' अहतं. 'यीत ' परिधास्यै० इत्यनेन मन्त्रेण । ' अथोत्तरीयं ' यशसा मा द्यावापृथिवी० इत्यनेन मन्त्रेणाच्छादयीत । ' एक 'यीत ' एक चेद्वासो भवति तस्यैवोत्तरवर्गण प्रच्छादयीत । तत्रापि मन्त्रो भवति । क्रियान्तरत्वात् । सुमहाति' या आहरन्जमदग्नि० इत्यनेन मन्त्रेण । ' अथाववधीते । यद्यशोऽप्सरसामिन्द्र० इत्यनेन मन्त्रेण । ' उष्णी 'यते । युवासुवासा इत्यनेन मन्त्रेण । ' अल"टको ' आवनाति । वृत्रस्येत्यनेन मन्त्रेणाते अक्षिणी । रोचिष्णुग्सीत्यनेन मन्त्रेणात्मानमादर्शे प्रेक्षते । 'छत्रं प्रतिगृह्णाति ' बृहस्पतेश्छदिरसि० इत्यनेन मन्त्रेण । 'प्रति"ञ्चते ' युगपत् शक्यत्वाद् द्विवचनान्तत्वाच मन्त्रस्य । 'विश्वाभ्यो मेति वैणवं दण्डमादत्ते । दन्त 'मपि ' मन्त्रषन्ति भवन्तीति सूत्रशेपः । वास' ''न्मन्त्रः । वासआदिषु नवेष्वेव मन्त्रो भवति ॥ * ॥ ||* ||
(जयरामः ) वेदमधीत्य स्नायादिति ब्रह्मचर्य वेति वर्षे विकल्पः । द्वादशके व्रते एके स्नानमिच्छन्ति । 'गुरुणाऽनुज्ञातः । सर्वत्र स्नायादित्यनुवर्तते । गुर्वनुज्ञा च कर्मा नतु स्नानकालान्तरमेतत् । वेदशब्देन किंतदाह ' विधिविधेयस्तर्कश्च वेदः । इति । विविविधायकं ब्राह्मणं, विधेया मन्त्राः, तय॑ते ह्यनेन संदिग्धोऽर्थ इति तर्कोऽर्थवादः । यथा अक्ताः शर्करा उपदधाति तेजो वै घृतमिति । अञ्जनं च तैलवसादिना च संभवति । तत्र तेजो वै घृतमिति घृतसंस्तवात्तय॑ते घृताक्ता इति तेन विध्यर्थवादमन्त्रा वेद इत्युक्तम् । पडङ्गं शिक्षा कल्पो व्याकरणं निरुक्त छन्दो ज्योतिपमिति । षडिरहैरुपेतं वेदमधीत्य स्नायादित्येके । स्नानं च द्वितीयाश्रमप्रतिपत्तिः । तद्नुष्ठानयोग्यता च पडने वेदेऽधिगते भवति । अत एवोच्यते 'न कल्पमात्रे ' इति नच कल्पमात्रे ग्रन्थमात्रेऽधिगते स्नाना) भवति तस्माद्ग्रन्थतोऽर्थतश्चाधिगम्य स्नायात् । काममिच्छया। यज्ञं वेदेति याज्ञिकस्तस्येच्छया स्नानं भवति । षडङ्गमर्थतोऽनधिगम्यापि । किंकृत्वा । उपसंगृह्य गुरुं ' गुरोः पादोपग्रहणं कृत्वा ' समिधोऽभ्याधाय' अग्निपरिचरणं कृत्वा । इतश्च पूर्व वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तत्वात् । ननु समिदाधानस्य पश्चाद्वेदाहुतयः कुतो न भवन्ति क्रमान्तरानभिधानात् । उपसंगृह्य गुरुः समिधोऽभ्याधायेति पाठानुग्रहापत्तेश्च । मैवम् । यतो वेदाहुतीनां पश्चादेव समिदाधानं ततश्च स्नानमिति, स यामुपयन्समिधमादधाति सा प्रायणीया या स्नास्यन्सोदयनीयेतिश्रुतेः । तस्मात्समिदाधानस्नानयोरव्यवहितकालत्वोपपादनाद्वेदाहुतीनां च स्नानाइत्वातिदेशाच्च समिदाधानात्पूर्व वेदाहुतिहोम इत्युक्तम् । स्नानं चाप्टभिरुदकुम्भैः क्रमेण । परिश्रितस्य वस्त्रादिना परिवेष्टितसमावर्तनस्थानस्थितस्याग्नेरुत्तरपार्श्वे स्थापितानामष्टानामुदकुम्भानामुदकुसंस्थानां पुरस्तात्पूर्वस्यां दिशि आस्तीर्णेषु कुशेपु स्थित्वा प्रथमादुदकमादाय गृहीत्वा आत्मानमभिपिञ्चत इत्यग्रिमेणान्वयः । अष्टाभ्य उदकुम्भेभ्योऽपां ग्रहणे एक एव मन्त्री येऽप्स्वन्त.