________________
२४२
पारस्करगृह्यसूत्रम् ।
[पष्टी मिति ॥ १९ ॥ अहतं वासो धौतं वाऽमौत्रेणाच्छादयीत । परिधास्यै यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरूचीरायस्पोषमभिसंव्ययिष्य इति ॥ २० ॥ अथोचरीयम् ॥ यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती । यशो भगश्च माविन्दद्यशो मा प्रतिपद्यतामिति ॥ २१ ॥ एकञ्चेत्पूर्वस्योत्तरवर्गेण प्रच्छादयीत ॥ २२ ॥ सुमनसः प्रतिगृह्णाति । या आहरज्जमदग्निः श्रद्धायै मेधायै कामायेन्द्रियाय । ता अहं प्रतिगृह्णामि यशसा च भगेन चेति ॥ २३ ॥ अथावबधीते यद्यशोऽप्सरसामिन्द्रश्वकार विपुलं पृथु । तेन सङ्ग्रथिताः सुमनस आबनामि यशोमयीति ॥ २४॥ उष्णीषेण शिरो वेष्टयते युवा सुवासा इति ॥२५॥ अलङ्कारणमसि भूयोऽलङ्करणं भूयादिति कर्णवेष्टको ॥ २६ ॥.वृत्रस्येत्यङ्क्ते ऽक्षिणी ॥ २७ ॥ रोचिष्णुरसीत्यात्मानमादर्श प्रेक्षते ॥ २८ ॥ छत्रं प्रतिगृह्णाति । बृहस्पतेश्छदिरसि पाप्मनो मा मन्तर्धेहि तेजसो यशसो माऽन्तर्धेहीति ॥ २९ ॥ प्रतिष्ठेरथो विश्वतो मा पातमित्युपानही प्रतिमुञ्चते ॥३०॥विश्वाभ्यो मा नाष्ट्राभ्यस्परिपाहि सर्वत इति वैणवं दण्डमादत्ते॥३१॥ दन्तप्रक्षालनादीनि नित्यमपि वासश्छत्रोपानहश्वापूर्वाणि चन्मन्त्रः ॥३२॥
(कर्क:)-'वेदठ 'यात्' एवं हि श्रूयते वेदमधीत्य नायादिति । ब्रह्मचर्य वेति वर्षे विकल्पः । 'द्वादशकेऽप्येके स्नानमिच्छन्ति । गुरुणाऽनुज्ञातः मायादित्यनुवर्तते । गुर्वनुज्ञा च काडतया, न मानस्य कालान्तरमेतत् । वेदशब्देन किमभिधीयत इत्यत आह ' विधि वेदः । विधिविधा. यकं ब्राह्मणं, विधेया मन्त्राः, तर्कशब्देनार्थवादोऽभिधीयते । तय॑ते ह्यनेन संदिग्धोऽर्थः । यथा अक्ताः शर्करा उपदधाति तेजो वै घृतमिति । अञ्जनं च तैलवसादिनाऽपि संभवति । तत्र तेजो वै घृतमिति घृतसंस्तवात् तय॑ते घृताक्ता इति । तेन विव्यर्थवादमन्त्रा वेदशब्देनाभिधीयन्त इत्युक्तम् । 'षडङ्गमेके ' शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिपमिति षड्भिर.रुपेतमेक आचार्या वेदमिच्छन्ति । एतस्मिन्हि अधिगते स्नाना) भवति । नानशब्देन द्वितीयाश्रमप्रतिपत्तिरुच्यते । तदनुष्ठानयोग्यता च पडड्डेऽप्यधिगते वेदे भवति । अत एवोक्तम् 'न कल्पमात्रे कल्पशब्देन च ग्रन्थमात्रमभिधीयते । न ग्रन्थमानेऽधिगते स्नायीत । न ह्येतावता तदनुष्टानयोग्यता भवति तस्मादर्थतो ग्रन्थतश्चाधिगम्य स्नानमिति । 'काम'""कस्य । वनं वेदेति यानिकः तस्य कामं स्नानं भवति । पडङ्गमर्थतोऽनधिगम्यापि । ' उपसंगृह्य गुरुठ समिधोऽभ्याधाय ' इत्यत आरभ्य ' यद्वा तश्विनाया' इत्येवमन्तं सूत्रम् । उपसंगृह्य गुरुमिति गुरोः पादोपसङ्घहणं कृत्वा समिघोऽभ्याधायेति अग्निपरिचरणं कृत्वेत्यर्थः । अतश्च पूर्व वेदाहुतिहोमः । एतदेव व्रतादेशनविसर्गेष्वित्युक्तम् । ननु च समिदाधानस्य पश्चात्तस्माद्वेदाहुतयो न भवन्ति । एवं च सूत्रानन्तर्यमनुगृहीतं भवति । नचेह वेदाहुतीनां कमान्तरविधानमस्ति । उपसंगृह्य गुरुहः समिधोऽभ्याधायेति च पाठानुग्रहः । नैतदेवम् । वेदाहुतीना