________________
२४१
ण्डिका]
द्वितीयकाण्डम्। त्रात्यस्तोमेन यज्ञनेष्वा ब्रात्यस्तोमं कृत्वा तत्पुत्रपौत्रादयः कामं यथेष्टमधीयोरन् अध्ययनं कुर्युः कुतः 'व्यव' 'नात् । श्रोतवचनादित्यर्थः । यद्वा काममिच्छयाऽध्ययनस्य व्रात्यस्तोमेनेष्वा ब्रात्यस्तोमानुटानं च सावित्रीपाताहितां ब्रात्यतामपनेतुम् । पञ्चमी कण्डिका ॥ ५ ॥
वेद समाप्य स्नायात् ॥ १ ॥ ब्रह्मचर्य वाऽष्टाचत्वारिठशकम्॥२॥ द्वादशकेऽप्येके ॥ ३ ॥ गुरुणाऽनुज्ञातः॥ ४ ॥ विधिविधेयस्तर्कश्च वेदः ॥ ५ ॥ षडङ्गमेके ॥ ६ ॥ न कल्पमात्रे ॥ ७ ॥ कामं तु याज्ञिकस्य॥८॥ उपसंगृह्य गुरुर्छः समिधोऽभ्याधाय परिश्रितस्योत्तरतः कुशेषु प्रागग्रेषु पुरस्तास्थित्वाऽष्टानामुदकुम्भानाम् ॥ ९॥ ये अप्स्वन्तरग्नयः प्रविष्टा गोह्य उपगोह्यो मयूषो मनोहास्खलो विरुजस्तनूदूषुरिन्द्रियहातान्विजहामि यो रोचनस्तमिह गृह्णामीत्येकरमादपो गृहीत्वा ॥ १० ॥ तेनाभिषिञ्चते । तेन मामभिषिञ्चामि श्रियै यशसे ब्रह्मणे ब्रह्मवर्चसायेति ॥ ११ ॥ येन श्रियमकृणुतां येनावमृशताळं सुराम् । येनाक्ष्यावभ्यषिञ्चतां यहां तदश्विना यश इति ॥ १२ ॥ आपोहिष्ठेति च प्रत्यूचम् ॥ १३ ॥ त्रिभिस्तूष्णीमितरैः ॥ १४ ॥ उदुत्तममिति मेखलामुन्मुच्य दण्डं निधाय वासोऽन्यत्परिधायादित्यमुपतिष्ठते ॥ १५ ॥ उद्यन्भ्राजभृणुरिन्द्रो मरुद्भिरस्थात्प्रातांवभिरस्थादशसनिरसि दशसनिं मा कुविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्धिरस्थाद्दिवा यावभिरस्थाच्छतसनिरसि शतसनि मा कुर्वाविदन्मागमय । उद्यन्भ्राजभृष्णुरिन्द्रो मरुद्भिरस्थात्सायंयावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुविदन्मागमयेति ॥ १६ ॥ दधितिलान्वा प्राश्य जटालोम खानि सर्टहत्यौदुम्बरेण दन्तान्धावेत । अन्नाद्याय व्यूहबढ़ सोमो राजाऽयमागमत् । स मे मुखं प्रमाक्ष्यते यशसा च भगेन चेति ॥ १७ ॥ उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिक्योर्मुखस्य चोपगृह्णीते प्राणापानौ मे तर्पय चक्षुर्भे तर्पय श्रोत्रं मे तर्पयेति ॥ १८ ॥ पितरः शुन्धध्वमिति पाण्योरवनेजन दक्षिणानिषिच्यानुलिप्य जपेत् ॥ सुचक्षा अहमक्षीभ्यां भूयासठ सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयास
१ दूपिरिन्द्रियहा अतितान्सृजा इति जयरामसंमतः पाठः । २ भाजभ्रष्टिरितिभ्राजभृष्टिरिति च पाठान्त ३ नखानू इत्यपि पाठः।