________________
५४०
पारस्करगृहासूत्रम् ।
[ पञ्चमी
तस्य
"
I
चारिषं शौलभं सांवत्सरिकं तदशकं तन्मेराधि । अत्राप्यवगुण्ठनादि पूर्ववत् । अवगुण्ठनाभावे शौलभिन्य: कण्डिका ब्रह्मचारिणे श्रावयेत् । आब्रह्मन् । १ उदीरतां । २ आनोभद्राः । ३ । आशु:शिशानः । ४ इमानुकमित्येता, शौलभिन्यः ५ ॥ ॥ ततो गोदानादेशः । परिसमूहन्नादि । व्रतोद्देश्यकं मेखलाद्युपादानं सर्वे पूर्ववत् । गोदानं सांवत्सरिकम् । संवत्सरे पूर्णे पुण्येऽह्नि गोदानविसर्गः पूर्ववत् । दण्डाद्यसुप्रक्षेपाभाव: । सौकर्याय व्रतकर्तव्यतालेखनम् । स्नावति ' वेदाध्ययनत्रतकर्तव्यतान्यतरसमुदायैतस्य (?) स्नातकस्य कीर्तिर्भवति । तस्यैव प्रकार - भेदविजृम्भितान्भेदानाह ' त्रय" भवन्ति । कथमत आह ' विद्यातक इति ' । किस्वरूपो विधास्नातक इत्यत आह " समातकः ' । वेदाध्ययनपरित्यागेन व्रतकर्तव्यतामादाय व्रतस्नातकं लक्षयति ' समातकः' एतेन स्वाध्यायाध्ययनगोचराद्यप्रवृत्तेरेव व्रतादेशनां मन्यमाना हृच्छ्रन्यतया निर्लज्जया च सूत्रकृतैवापहस्तिता इत्यवधेयम् । नच ब्रह्मचर्यमेव व्रतं समावर्तनप्राकालिकत्रह्मचर्य - प्रतियौगिक विसर्गस्य गगनकमलकल्पत्वात् । नच मेखलादिधारणाधिकारकाले ब्रह्मचर्यपरित्यागः शास्त्रप्रसिद्धः । नच समावर्तनमेव व्रतविसर्ग इति वाच्यं, गुरवे तु वरं दश्वेत्यादिधर्मशास्त्रे व्यस्तयोः समुचितयोर्वा वेदाध्ययनत्रतानुष्ठानयोः समाप्त्युत्तरकालं समावर्तनाधिकारात् । अतिस्पष्टं समाप्यत्रतमित्यादिना तथैव सूत्रणात्पारस्कराभिधैः कात्यायनचरणैः । समावर्तनस्यैकत्वाच्च नच तादेशो - ऽप्येक एवेति वाच्यम् । एतदेव व्रतादेशन विसर्गेष्विति वक्ष्यमाणसूत्रकारेणैव व्रतादेशानां विसर्गाणां च बहुवचनेन बाहुल्यप्रतिपादनात् । नच बहुत्वमविवक्षितमिति वाच्यम् । स्थालीपाकानामित्यादावविवक्षापत्तेः वेदव्रतानि वेत्यत्रापि बहुत्वश्रवणात् । नच तदप्यविवक्षितेव । एवं च बहुवचनमात्रस्यैवाविवक्षितत्वे बहुपु बहुवचनमित्यस्य पाणिनीयप्रणयनस्याप्यानर्थक्यापत्तेरितिदिक् । ' उभतक इति ' उभयं वेदं व्रतानि चेत्यर्थः । ' आषोवति' अर्वाक् पोडशाद्वर्षाद्दिजस्यानतिक्रान्तः कालो भवति । 'आद्वा’''न्यस्य' 'आ' च’'श्यस्य' अनतीतः कालो भवतीति शेषः सूत्रयोः । 'अतवन्ति पतिता सावित्री येभ्यः सवितृदेवताकमन्त्रोपदेशानधिकारः । ' नैना "युः ' चतुःसूत्री निगदव्याख्याता । 'काला' "वत् ' नियते श्रते यदनादिष्टं तद्वत् तादृशम् अविज्ञाते प्रतिमहाव्याहृति सर्वाभिचतुर्थ सर्वप्रायश्चित्तं चेत्येतदाहुतिनवकं भवतीति शेषः । तथाहि भूसंस्काराः अन्वग्निरित्यग्नेराहरणं पृष्टोदिवीति स्थापनं ता सवितुः तत्सवितुः, विश्वानिदेव सवितरिति प्रज्वालनं परिस्तरणं पात्रासादनं पवित्रे आज्यस्थालीं आज्यं संमार्गकुशाः उपयमनकुशाः स्रुवः निरूप्याज्यमधिश्रित्य पर्य ग्नि कुर्यात् स्रुवं प्रतप्य संमृज्य लौकिकोदकेनाभ्युदय पुनः प्रतप्य निदध्यात् । आज्यमुद्रास्य पवित्रा - भ्यामुत्पूयावेक्ष्य कुशोपग्रहो दक्षिणं जान्वाच्य जुहुयात् । तिस्रो महाव्याहृतयः सर्वाभिचतुर्थी सर्वप्रायश्चित्तं च । इदमग्नये इदं वायवे इदं सूर्याय इदंप्रजापतये इदमनीवरुणाभ्याम् इदमग्नये अयासे इदं वरुणायसवित्रेविष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वकेंभ्यः इदं वरुणायादितये । एतच्चाग्नेयत्रतस्थस्य बटोः । शुक्रियव्रतस्थस्तु संध्याकाले व्यतिक्रान्ते जपं कुर्यात्पुनर्मनः । ऋचं वाचंतूचं जप्त्वा कालदोषैर्न लिप्यते । अन्यदापि आदित्योभ्युदियाद्यस्य संध्योपास्तिमकुर्वतः । स्नात्वा प्राणात्रिरायम्य गायत्र्यष्टशतं ज पेत् । केचित्तु कालातिक्रमे नियतवदित्यनेन गर्भाधानादिसकलकर्मकालातिक्रमे श्रौतानादिष्टातिदेश इत्याहु: । ' त्रिपु‘“स्कारः ' सावित्र्यनधिकारसंपन्नहृत्संतापानामपत्यसंस्कारः पुनः प्रसूयते । सकियहूरमत आह् त्रिपुरुपमिति । यत्तु चतुर्थाद्यपत्यस्य संस्कार्यताऽनेन प्रतिपाद्यत इति तन्न | त्रिपुरुपमित्यस्य व्यर्थतापत्तेः । नच त्रिपुरुपमसंम्कार्यताप्रतिपत्त्यर्थमिदमिति वाच्यं पुरुपत्रयमनुवृत्तस्यै नसो वलवत्त्वेन निवर्तयितुमशक्यत्वात् । संस्कारांशं प्रतिप्रसूयाव्यापनांशं निषेधति नाध्यापनं च तेपामिति । पुनस्तत्प्रतिप्रसवमाह ' संस्कायीरन् तेपा मध्ये यः संस्कारेप्सुः आत्मनः संस्कारेच्छावान् स
5
2