________________
कण्डिका ]
द्वितीयकाण्डम् ।
२३९
·
C
1
।
'यावणं वा ' सूत्रयोर्ब्रह्मचर्यं चरेदित्यनुकर्ष: । अध्ययनसमयमनुरुणद्धि ब्रह्मचर्यमिति सूत्रणार्थः । वासा‘''कानि' ब्राह्मणक्षत्रियविशामिति शेप: । ' ऐणे णस्य ' ऐणेयमेण्याञ्चर्म । 'रौर' न्यस्य ' रुरोश्चित्रमृगस्य चर्म । ' आजंश्यस्य ' आजमजस्य गव्यं गोः । ' सर्वे 'प्रधानत्वात् ' गव्यस्य चर्मणः पौरुषीत्वग्गवि देवैराहिता । तेन गोत्वचः अजिनं सर्वेषां प्रधानमित्यर्थः । ' मौञ्जीणस्य ' मुमी रशना मेखला । ' धनु यस्य ' ज्या प्रत्यश्वा । ' मौर्वी वैश्यस्य ' मुरुस्तृणविशेषः ॥ 'मुञ्जा'''जानां ' यथाक्रमं मेखला भवन्तीत्यर्थः । 'पाला 'स्यौदुम्बरो वैश्यस्य' त्रिसूत्री स्पष्टार्था । यथाक्रमं मानमाह 'केश दण्ड: ' केशसंभितः केशमूलसंमितः । ललाटसंमित इत्यर्थः । अन्यथा सर्ववपनादिपक्षो वाध्येतेत्यभिप्रायः । ' लला...यस्य ' ललाटावविः ब्राणसंमित इत्यर्थ: । 'प्राण' श्यस्य ' ब्राणावधिः मुखसंमित इत्यर्थः । ' सर्वे वा सर्वेपां ' वाशब्दः पक्षान्तरे । सर्वे दण्डाः सर्वेषां ब्राह्मणादीनामनियमेन भवन्तीत्यर्थः । ' आचा' ' 'यात् ' ब्रह्मचारी आचार्याय प्रतिवाचं दद्यात् । शया...सीन: ' आचार्यः स्वपन्तं चेदाहयति तदोपविष्टः प्रतिवाचं दद्यात् एवमुत्तरसूत्रान्वयः । ' आसी" "धावन् ' त्रिसूत्री निगद्व्याख्याता । उक्तकर्तव्यतारतस्य फलमाह । ' स एवं तीति अद्य ब्रह्मचर्यकाले एवमुक्तकर्तव्यतायां वर्तमानः अमुत्र ब्रह्मलोके वसति तिष्ठति । द्विरुक्तिर्भूयोर्थ - प्रतिपादिका | अहो दर्शनीयाहोदर्शनीयेतिवत् । आग्नेयत्रते तिष्टता ब्रह्मचारिणा समिधाग्निमित्येव - माद्याग्नेयो वेदविभागः पठनीयः । संवत्सरे पूर्णे आग्नेयव्रतविसर्गः । परिसमूहनादि वर्हिस्तरणान्तम् । हस्तेनोदकमादायाग्ने व्रतपते व्रतमचारिषं ( आग्नेयं) सांवत्सरिकं तदशकं तन्मेराधि । ततः उपयमनकुशादानादि ब्राह्मणभोजनान्तं व्रतादेशवत् । आमभिक्षानिवृत्तिर्विशेषः ॥ ॥ ततः शुक्रिय - व्रतादेशः । परिसमूहनाद्युपयमनप्रक्षेपान्तमाग्नेयत्रतादेशवत् प्रयोगे विशेपः । अग्ने व्रतपते व्रतं चरि ष्यामि शुक्रियं सांवत्सरिकं तच्छकेयं तन्मे राष्यताम् । शुक्रियव्रतस्थेन ऋचं वाचमित्यादि शुक्रियो विदविभागोऽव्येतव्यः । संवत्सरस्योतमेऽह्नि त्रिगुणपटैकदेशे ग्रन्थि कृत्वा त्रह्मचारिण. शिरस उपरि ग्रन्थि कृत्वा नाभिं तेन पटेनाच्छादयीत । तत्सवितुर्हिरण्मयेन पात्रेणेति च । हिरण्मयेनेत्यस्याः वेदशिरस्त्वम् । एतच्चाच्छादनमपराह्नान्ते कर्तव्यं ततः सूर्योदयपर्यन्तं वाग्यतो भवेत् । ग्रामे गोष्ठे देवतायतने वा भूमौ शयनम् । अध्युषितायां रात्रौ प्रामाद्बहिर्गत्वाऽवगुण्ठनं विसृजेत् । अदृश्रमस्योदुत्यं चित्र॑दे॒वानांतृचमुदितेऽर्कै जपेत् । उदकं ताम्रे प्रक्षिप्य द्यौः शान्तिरिति शान्तिकरणं । ततोऽत्रगुण्ठनशान्तिभाजने गुरवे दद्यात् । ततः शुक्रियविसर्गः । परिसमूहानाद्युपयमनप्रक्षेपान्तं प्रयोगे विशेषः । अग्ने व्रतपते व्रतमचारिषं शुक्रियं सांवत्सरिकं तदशकं तन्मेराधि । शुक्रियादित्रये व्रतादेशविसर्गयोत्रिगुणपटावगुण्ठनवेष्टनं गुरवे दानान्तम् । ततो दण्डमेखलोपत्रीतान्यप्सु प्रक्षिपेदप्स्वन्तरिति प्रत्यृचम् । दधिघृतशर्कराणां प्राशनं नमोवरुणायेति । ततो वपनम् । पुनर्ब्रतार्थं मेखलोपवीतदण्डानां समन्त्रकः पूर्ववत्प्रतिग्रहः । एतच्च मेखलादित्रयप्रतियोगिकत्यागाङ्गीकारावाग्ने यादित्रतचतुष्टयेऽपि भवति ॥ 11 तत उपनिषद्ब्रतादेशे परिसमूहनादिब्राह्मणभोजनान्ते विशेष: अग्ने व्रतपते व्रतं चरिष्याम्यौपनिषदं सांवत्सरिकं तच्छकेयं तन्मे राध्यताम् । औपनिषदव्रतस्थेन द्वयाहप्राजापत्येत्याद्युपनिषद्भागोऽभ्येतव्यः । संवत्सरस्योत्तमेऽहन्यवगुण्ठनदानान्तं पूर्ववत् व्रतविसर्गः । प्रयोगे विशेषः - अग्ने व्रतपते व्रतमचारिपमौपनिपदं सांवत्सरिकं तदशकं तन्मेराधि । अत्राप्यवगुण्ठनदानानन्तरं दण्डादित्रितयत्यागाड़ीकारौ व्रतोद्देशेन ॥ ॥ ततः शौलभन्त्रतादेशः । परिसमूहना दिवाह्मणभोजनान्तम् । मन्त्रे विशेषः । अग्ने व्रतपते व्रतं चरिष्यामि शौलभं सांवत्सरिकं तच्छकेयं तन्मे राध्यताम् । संवत्सरस्योत्तमेऽहनि अवगुण्ठनदानान्तं ततो वपनम् । दण्डादिविमोचनादित्रिमधुरप्राशनादि । व्रतोद्देशेन पूर्ववद्दण्डादिप्रतिग्रहः । शौलभत्रतविसर्गः । परिसमूहनादि ब्राह्मणभोजनान्तम् । मन्त्रे विशेषः - अग्ने व्रतपते व्रतम
6