________________
२३८ पारस्करगृह्यसूत्रम्
[पञ्चमी रोऽभ्यसनं जपः । तदानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ याज्ञवल्क्यः-हस्तो सुसंयतौ धायौँ जानुभ्यामुपरि स्थितौ । तथा । हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजु:सामभिर्दग्धो वियोनिमधिगच्छति । पराशरः-ज्ञातव्यः सर्वदैवायों वेदानां कर्मसिद्धये । पाठमात्रमधीती च पके गौरिव सीदति ॥ व्यासः- वेदस्याध्ययनं पूर्व धर्मशास्त्रस्य चैव हि । अजानतोऽर्थ तद्यथै तुषाणां कण्डनं यथा ॥ मनुः-योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ यमः- य इमां पृथिवीं सवी सर्वरत्नोपशोभिताम् । दद्याच्छास्त्रं च शिष्येभ्यस्तच्च तच्च द्वयं समम् ॥ न निन्दां ताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् । अधोभागे शरीरस्य नोत्तमा न वक्षसि ॥ अतोऽन्यथा हि प्रहरन् न्याययुक्तो भवेन्नरः ॥ न्याययुक्तो दण्डयुक्त इत्यर्थः । अत्र माणवकं कुलपरम्परागतं वेदमध्यापयेत् । तस्यैवाध्येतव्यत्वनियमात् । वसिष्ठः-पारंपर्यागतो येषां वेदः सपरिहणः । तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा॥अधीत्य शाखामात्मीयामन्यशाखां ततः पठेत् । स्वशाखां यः परित्यज्य अन्यशाखामुपासते । शाखारण्डः स विज्ञेयः सर्वकर्मवहिकृत इति । इति वेदारम्भः ॥
(विश्व०)- अत्र' ''रणं' अत्रावसरे अभिवादनानन्तरं भिक्षाप्रार्थना तस्याश्चरणमनुष्टानं कर्तव्यमिति शेषः । भवत्पूर्वा... वैश्यः' इति त्रिसूत्री । भिक्षेतेति द्वयोरनुषङ्गः । भवच्छब्दः संवुद्धयर्थः पूज्यताद्योतकः । ब्राह्मणक्षत्रियवैश्यैर्यथाक्रममादिमध्यावसानेपु भवच्छन्दोपलक्षिता वृत्त्यर्थ सिद्धान्नादिप्रार्थना कर्तव्या । कतिसंख्याकाः कीदृश्यश्च प्रार्थनीया इत्यत आह 'तिस्रो""यिन्यः । प्रत्याख्यानं प्रार्थितनिषेधः । अत्रापूतौँ पक्षान्तराण्याह 'षड्वा "मेके' इति चतुःसूत्री । याच्चायां दातुः स्नेहस्याभ्यर्हितत्वद्योतनार्थ मातरमित्युक्तम् । 'आचा' "यित्वा' आचार्याभावे स्वजनन्यै भिक्षानिवेदनम्। मिक्षां निवेद्याचार्याज्ञया भुक्त्वा वा कर्मणः प्रतिपत्तिं कुर्यादिति शेषः। बहिहोमः प्राशनं मार्जनं पवित्रप्रतिपत्तिः व्यस्तसमस्तव्याहृतिहोमानन्तरं त्वन्नइत्यादिपञ्चाहुतयः सर्वप्रायश्चित्तसंज्ञकाः। एवं नवाहुतयः । प्रणीताविमोकः ब्रह्माणभोजनसंकल्प एकस्य । कर्मापवर्गाः समिधः । उत्सर्जनं ब्रह्मणः उपयमनकुशानामग्नौ प्रक्षेपः । उपनयनान्तर्गताग्नेयव्रतादेशसाङ्गतासिद्ध्यर्थमिति संकल्प्य ब्राह्मणान्भोजयेद्दशेति परिशिष्टादशब्राह्मणभोजनसंकल्पः । इदानीमाग्नेयव्रतस्य संवत्सरसाध्यत्वेन ब्रह्मचारिकर्तव्यान्नियमान्सूत्रकृत्सूत्रयति 'वाग्य"त्येके' आत्मनोहःसाध्यां ब्रह्मचर्याश्रमकर्तव्यतामवसायोपसंध्यं वाग्यतो भवेदित्यर्थः । अहिर"जते ' तस्मिन्निति तच्छन्दस्य पूर्वप्रक्रान्तपरामर्शित्वाद्वतं यावक्तालं तावत्कालं व्रतादेशाग्निरक्षा कर्तव्या । पूर्ववदित्यनेन पूर्वकण्डिकाप्रतिपादिता पाणि नाग्निं परिसमूहतीत्याद्यभिवादनान्ता समस्तेतिकर्तव्यताऽतिदिश्यते । तां कृत्वा पूर्वनियमितां वाचं विसृजते । समिदाधानस्य प्राधान्यं द्योतयितुं वृक्षादिकमपीडयन्समिधमाहृत्याधायेत्युक्तं जातावेकवचनम् । सायंकाले संध्यावन्दनं पूर्वोक्तविधिना । सायंकाले इममेति चतसृभिर्वारूणीभिरुपस्थानं, प्रातमित्रः ससृज्य मित्रस्यचर्षणीधृतः मित्रतांत उषांपरिददाम्यभित्या एषामाभेदीत्येतावदेव प्रातरुपस्थानमाचार्यमते । ' अध"स्यात् । क्षारं गुडादि । ' दण्ड"'येत् ' अग्निपरिचरणं मध्याह्ने सायंकाले च । प्रतिसंध्यमग्निचरणं तेन प्रातःसमये भवतीत्याहुः । यत्तु माध्याहिक नेति । तन्न । अनाहिताग्नेय॑स्तब्रह्मस्यापि माध्याह्निकापरिचर्यायाः पातित्याधायकतया नित्यत्वात् । गुरुशुश्रूपणं मनोवाकायकर्मभिः । आत्मनस्तृप्त्यथै भिक्षा आचार्यार्थमपि । स्नानकालेऽमज्जतः स्नानम् आसनोपर्यासनं न स्थापयेत् । अदत्तं न गृहीयात्। स्पष्टमन्यत्। अष्टा'"चरेत् । विभागमाह । 'द्वाद'वेद'
१ याच्यायाच्यायामिति पाठः । २ उपनयनसांगतासिद्धार्थमिति पाठः।