________________
२३७
फण्डिका]
द्वितीयकाण्डम् । उदकप्रक्षेपः । द्यौः शान्तिरिति शान्तिकरणम् । भाजनर्वस्त्रयोराचार्याय दानम् । दण्डादीनामप्सु प्रासनम् । ध्यादीनां प्राशनम् । इत्यौपनिपदं व्रतम् ॥ ॥ अथ शौलभवतादेशः। तत्र परिसमूहनादिविप्रभुक्त्यन्तमौपनिषदबतादेशवत् । व्रतग्रहणे शौलभं सांवत्सरिकमिति प्रयोगः । शौलभिनीनामृचा पाठो व्रते स्थितस्य । अत्राप्युत्तमेऽहनि निशामुखे पटेन प्रच्छादनादि उदिते जपान्तं पूर्ववत् । ततो व्रतस्थाने माणवकमानीय व्रतविसर्गः । तत्रैवं परिसमूहनादि वहिस्तरणान्तम् । ततः संध्योपासनादि । ततो व्रतविसर्गः । अग्ने० रियं शौलभं सांवत्सरिकं तद० धीति मन्त्रः । तत उपयमनादानादि ब्राह्मणभोजनान्तम् । तत उदकं पात्रे कृत्वा द्यौः शान्तिरिति शान्तिकरणम् । पात्रवस्त्रयोर्गुरवे दानम् । दण्डादीनामप्सु प्रक्षेपः । दधिमधुशर्कराणां नमो वरुणायेति प्रत्यूचं प्राशनम् । ततो वपनम् । इति शौलभम् । अथ गोदानव्रतादेशः । तत्र परिसमूहनादिविप्रभुक्त्यन्तम् । व्रतग्रहणस्यादौ मेखलायज्ञोपवीतदण्डानां धारणम् ।गोदानं सांवत्सरिकमिति मन्त्रे विशेषः । अस्मिन्नते अवगुण्ठन्यादीनामभावः । त्रिष्ववगुण्ठन शुक्रियादिष्विति सूत्रणात् । ततः संवत्सरे पूर्णे गोदानव्रतविसर्गः। तत्र परिसमूहनादि बहिस्तरणान्तम् । ततः संध्योपासनादि । अग्नेकरिषं गोदानं सांवत्सरिकं तब्धीति मन्त्रेणोत्सर्गः । उपयमनादि विप्रभुक्त्यन्तं पूर्ववत् । अत्रास्मिन्त्रिसगें दण्डमेखलायज्ञोपवीतानामप्सु प्रक्षेपाभावः । आचार्याय गोमिथुनदानम् । समाप्तानि व्रतानि। इति गर्गमते उपनयने पदार्थक्रमो व्रतानि च । इमानि च ब्रतानि प्रक्षिप्तसूत्रे पठितानि कर्कमतानुसारिभिरण्यनुष्ठेयानि स्मृत्यन्तरे केषाश्चित् चत्वारिंशत्संस्कारेषु पाठात् । इति उपनयने पदार्थक्रमः ।
अथ वेदारम्भे पदार्थक्रमः । तत्र स्मृती-उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारॉश्च शिक्षयेत् । कारिकायाम्-अप्रसुप्ते हरौ स स्यान्नानध्याये शुभेऽहनि । नास्तइते जीवसिते वाले वृद्ध मलिम्लुचे ।। पष्ठी रिक्तां शनि सोमं भौमं हित्वोत्तरोडपु । मृगादिपञ्चधिष्ण्येषु मूलाश्चिन्योः करत्रये । पूर्वासु तिसृपूपेन्द्रभत्रये केन्द्रगैः शुभैः ॥ तत्र मातृपूजापूर्वकमाभ्युदयिक श्राद्धम् । देशकालौ स्मृत्वा यजुर्वेदव्रतादेशं करिष्य इति संकल्पः । ततः पञ्चभूसंस्कारपूर्वकं लौकिकाग्निस्थापनम् । ब्रह्मोपवेशनाद्याज्यभागान्तम् । ततः स्थाल्याज्येनैव जुहोति । अन्तरिक्षाय स्वाहा १ वायवे० २ ब्रह्मणे० ३ छन्दोभ्यः० ४ प्रजापतये० ५ देवेभ्य:०६ ऋषिभ्यः०७ श्रद्धायै० ८ मेधायै० ९ सदसस्पतये० १० अनुमतये० ११ ततो भूराद्याः विष्टकृदन्ताः । ततः प्राशनादिदक्षिणादानान्तम् । ततो विनेशं सरस्वती हरि लक्ष्मी स्वविद्यां च पूजयेत् । यदि ऋग्वेदारम्भस्तदाऽऽज्यभागान्ते पृथिव्यै स्वाहा अग्नये स्वाहेति च हुत्वा ब्रह्मणे स्वाहेत्यादि समानम् । यदि सामवेदारम्भस्तदाऽऽज्यभागान्ते दिवे स्वा० सूर्याय स्वाहेति हुत्वा ब्रह्मणे स्वाहेत्यादि पूर्ववत् । यद्यथर्ववेदारम्भस्तदाऽऽज्यभागान्ते दिग्भ्यः स्वा० चन्द्रमसे स्वाहेति हुत्वा ब्रह्मणे स्वाहेत्यादि यथोक्तम् । यद्येकदा सर्ववेदारम्भस्तदैवम् । आज्यभागान्ते वेदारम्भक्रमेण प्रतिवेदं वेदाहुतिद्वयं द्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं हुत्वा प्रजापतय इत्याद्याः सप्त तन्त्रेण जुहुयात् । ततो महान्याहृत्यादि समानम् । कारिकायाम्-तत्र प्रत्यङ्मुखायोपविष्टायाननमीक्षते । वेदारम्भमनुब्रूयाद्यथांशास्त्रमतन्द्रितः । मनुः-ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । व्यत्यस्तपाणिना कार्यमुपसग्रहणं गुरोः ।। सव्येन सव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणः । ब्राह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । प्राञ्जलिः पर्युपासीत पवित्रैश्चैव पावितः ॥ प्राणायामैत्रिभिः पूतस्तत ॐकारमहति ॥ ॐकारं व्याहृतीस्तिस्रः सपूर्वी त्रिपदान्ततः । उक्त्वाऽऽरभेच्च वृत्तान्तमन्वहं गौतमोऽब्रवीत् ॥ त्रिपदां गायत्रीं । मनुः-अध्येष्यमाणश्च गुरुर्नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् । दक्षः-द्वितीये तु तथा भागे वेदाभ्यासो विधीयते । वेदस्वीकरणं पूर्व विचा