________________
२३६
पारस्करगृह्यसूत्रम्
[पश्चमी
तत्र विशेषः । गात्रालम्भने कर्कमतेऽभ्याहारः । अङ्गानि च म आप्यायन्तामिति गर्गपद्धती । त्र्यायुपकरणान्ते शिवो नामेति जपः । यदि बटुर्मेधाकामः स्यात्तदा सदसस्पतिमितितृचेन मेधां याचते । श्रीकामश्चेदिमंमे इति श्रियं या० । ततो मेखलास्थान्प्रवरान्प्रदक्षिणोपचारेण स्पृष्ट्वाऽमुकसगोत्रोऽमुशर्माऽहं भो वैश्वानर अभिवादयामि । एवं वरुणाचार्यवृद्धानाम् । भिक्षाचर्यच० गुरवे नि० । अनुज्ञातस्तां स्वीकृत्य मातृहस्ते समर्पयति । बर्हिमादिविप्रभुक्तत्यन्तम् । इत्युपनयने पदार्थाः । ततः सन्ध्याकालेऽञ्जलिप्रक्षेपान्ते सूर्योपस्थानं वारुणीभिर्ऋग्भिरिमम्मेत्यादिभिः । मित्रः सः सृज्येत्यादिभिः प्रातः । उहूयमित्यादिभिर्मध्याह्ने । ततो दण्डं गृहीत्वाऽग्निपरिचरणम् । मध्याह्ने सायाह्ने च संध्योपासनान्ते प्रत्यहमग्निपरिच० । एके प्रातरप्यग्निपरिचरणमिच्छन्ति । ततो वाग्विसर्गः । पूर्वोक्ता एव ब्रह्मचारिधर्माज्ञेयाः । संध्योपासनादीनि स्वस्वकाले कार्याणि तेषां कालातिक्रमे कर्मणां भ्रेपे प्रायश्चित्तमुच्यते । परिसमूहनादि कृत्वाऽन्वग्निरिति मन्त्रेणामेराहरणम् । पृष्ठोदिवीति स्थापनम् । तार्थं सवितुस्तत्सवितुर्विश्वानि देवेत्यादिभिः सावित्रमन्त्रैस्त्रिभिः प्रज्वालनम् । नात्र ब्रह्मोपवेश • नादि । पूर्णाहुतिवदाज्यं संस्कृत्यानादिष्टं कार्यम् । अथामे यत्रतस्थितो ब्रह्मचारी समिधाऽग्निं दुवस्य - तेत्येवमाद्याग्नेयवेदविभागं संवत्सरपर्यन्तं पठित्वा व्रतमुत्सृजति । संवत्सरे पूर्णे आग्नेयव्रतविसर्गः । तत्र परिसमूहनादिविप्रभुक्तयन्तमाग्नेयव्रतादेशवत् भवति । एतावान्विशेषः । यस्मिन्काले आग्नेयत्रतग्रहणं कृतं तस्मिन्संध्यावन्दनम् | अग्निपरिच० । आग्नेयत्रतविसर्गः । अनेत्रतपते व्रतमचारिपं सांवत्सरिकं तदशकं तन्मेराधीति मन्त्रेण । ततोऽनन्तरमामभिक्षानिवृत्तिः । दण्डादीनामप्सु प्रक्षेपः । व्रतादौ ग्रहणं तेषाम् । इत्याग्ने यत्रतविसर्गः ॥ ॥ अथ शुक्रियव्रतादेशः । तत्रोपलेपनादि वर्हिस्तरणान्तं कृत्वा मेखलायज्ञोपवीतदण्डानां धारणपूर्वकं व्रतग्रहणम् । अग्ने० मि शुक्रियं सांवत्सरिकं तच्छकेयमिति विशेषः । तत उपयमनादिविप्रभुक्त्यन्तमान्ने यत्रतादेशवत् । शुक्रियवेदव्रतस्थित न वाचमित्यादि शुक्रियवेदविभागं पठति संवत्सरं यावत् । उत्तमेऽहनि अपराहकालान्ते निशामुखे त्रिगुणेन पटेन एकस्यां दिशि बद्धेन नाभिमात्रं यावन्माणवकस्य प्रच्छादनम् मूर्धानमारभ्य ग्रन्थेः शिरस उपरिकरणम् । ततः सावित्र्या वेदशिरसा हिरण्मयेन पात्रेणेति मन्त्रैरवगुण्ठनम् । एवं प्रच्छादितो ब्रह्मचारी सूर्योदयं यावत्तिष्ठति । रात्रौ वा गोष्ठे वा देवायतने वाऽधः शयनम् । रात्रौ गृहे यदि स्थितिस्तदा व्युष्टायां रात्रौ ग्रामाद्बहिर्गमनम् । ततोऽवगुण्ठनीयविसर्गः । ततोऽदृश्रमस्य उदुत्यम्, चित्रं देवानामुदितेऽर्के जपः । ततो व्रतस्थाने माणवकमानीय शुक्रियव्रतस्य विसर्गः। तत्र परिसमूहनादिवर्हिस्तरणान्तम् । ततः प्राकृतं संध्योपासनम् | अग्निस्वीकरणम् । ततोऽग्ने - व्रत० मचारिपं शुक्रियं सांवत्सरिकं तदशकं तन्मे राधीति मन्त्रेणोत्सर्गः । उपयमनादानादिब्राह्मणभो जनान्तम् । ततस्ताम्रपात्रे उदकप्रक्षेपः । द्यौः शान्तिरिति शान्तिकरणम् । शान्तिपात्रमवगुण्ठनीयवस्त्रं च गुरवे दद्यात् । ततोऽप्स्वन्तरमृतमित्यादिभिः पूर्ववत्प्रत्यृचं दण्डमेखलायज्ञोपवीतानामप्सु प्रक्षेपः । दधिघृतार्कराणां नमोवरुणायेति प्रतिमन्त्रं प्राशनम् । ततो वपनम् । व्रतग्रहणस्यादौ सर्वत्र शुक्रिया - दिपु मेखलायज्ञोपवीतदण्डानां धारणम् ॥ ॥ अथौपनिषद्द्व्रतम् । उपलेपनादिवर्हिस्तरणान्तम् । ततोऽग्ने व्रत औपनिषदं सांवत्सरिकं तच्छके० राज्यतामिति व्रतग्रहणम् । तत उपयमनादानादि विप्रभुक्त्यन्तम् । औपनिपदे व्रते स्थितो द्वयाह प्राजापत्या इत्याद्योपनिपदवेदविभागं संवत्सरं याव - त्पठति । तत उत्तमेऽहनि निशामुखे अवगुण्ठनीयवत्रेणाच्छादनादि । उदिते अदृश्रमस्य । उदुत्त मम् । चित्रं देवानामिति जपान्तं शुक्रियवत् । ततो व्रतस्थाने माणवकमानीय व्रतविसर्गः । तत्र परिसमूहनादि बर्हिस्तरणान्तं कृत्वा पूर्ववत्संध्योपासनमग्निपरिचरणं च । ततोऽमे० व्रतमचारिपमौ - पनिषदं सांवत्सरिकं तद्० तन्मे राधीति व्रतविसर्गः । तत उपयमनादानादिविप्रभुक्तयन्तम् । ताम्रे
1