________________
कण्डिका] द्वितीयकाण्डम् ।
२३५ द्विजातीनां पुनःसंस्कारकर्मणि । य एक वेदमधीत्यान्यवेदमध्येतुमिच्छति तस्य पुनरुपनयनमिति हरदत्तः । नेत्यन्ये । सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इत्यापस्तम्ववचनात् । यमः-पुराकल्पेषु नारीणां मौजीवन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवाचनं तथा । इदं च युगान्तरविपयम् । इति पुनरुपनयनम् ॥ ॥ त्रुटितानां मेखलादीनां प्रतिपत्तिमाह मनुः-मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृहीत्वाऽन्यानि मन्त्रवत् ॥ ॥ अथ गर्गमते पदार्थक्रमः-श्राद्धम् । वपनम् । विप्रभोजनम् । वटोरपि । अग्निस्थापनम् । अलंकृतस्यानयनम् । पश्चादग्नेरवस्थाप. नम् । ततो ब्रह्मासनादिवर्हिस्तरणान्तं कर्म । ततो ब्रह्मचर्यमागामिति वाचनम् । ब्रह्मचार्यसानीति च । वासः परिधापयति । मेखलावन्धनम् । बटोर्मन्त्रपाठः । मन्त्रेण यज्ञोपवीतपरिधानम् । तत आचमनम् । उत्तरीयधारणं मन्त्रेण । दण्डप्रतिग्रहः । दीक्षावद्वा । अनलिनाऽचलिपूरणमन्तिः । प्रैपपूवैकं सूर्यावेक्षणम् । हृदयालम्भनम् । दक्षिणहस्तग्रहणादि भूतेभ्यः परिदानान्तम् । ततो हस्तविसर्गः । ततः प्रदक्षिणं परिक्रम्योपवेशनम् । तत आचार्यस्योपयमनादानादिपर्युक्षणान्तम् । आचार्यस्यान्वारम्भो माणवककर्तृकः । तत आधाराद्याश्चतुर्दशाहुतयः । संस्रवप्राशनादिदक्षिणादानान्तम् । ततो ब्रह्मचारिशासनं ब्रह्मचार्यसीत्यादि पूर्ववत् । ततो वर्हिोमादिब्राह्मणभोजनान्तम् ॥ ॥ अथ सावित्रत्रतादेशः । तत्रोपलेपनादिवर्हिस्तरणान्तम् । ततः कुमार उत्थाय हस्तेनोदकं गृहीत्वाऽग्निमभिमुखो भूत्वाऽग्नेवतपते व्रतं चरिष्यामि सावित्रं सद्यःकालं तच्छकेयं तन्मे राध्यतामिति व्रतग्रहणं करोति । ततो ब्रह्मचारिण उपवेशनम् । ब्रह्मचारिण आचार्यस्यान्वारम्भः सर्वाहुतिः। तत उपयमनादानादि आज्यभागान्तम् । ततो वेदाहुतयः पोडश । प्रतिवेदं चतस्रश्चतत्रः । एवं पोडश । ततः प्रजापतये देवेभ्य इल्याद्याः सप्त । ततो महाव्याहृत्यादिस्त्रिष्टकृदन्ता दश । आज्यभागाद्या एताः सप्तत्रिंशदाहुतयो ब्रतानामादेशे विसर्गे च होतव्याः । ततः संवप्राशनादि ब्रह्मणे दक्षिणादानान्तम् । तत अथास्मै सावित्रीमन्वाहेत्यादि यथोक्तं सावित्रीप्रदानम् । ततो माणवकस्य तत्सवितुरित्यनेन मन्त्रेण सन्ध्योपासननम् । सन्ध्योपासनान्ते तत्सवितुरित्यनेनैवाग्निपरिचरणम् । तदन्ते गोत्रनामग्रहणपूर्वकं सर्वेपामभिवादनम् । ततो भिक्षाचर्यचरणम् । भिक्षानिवेदनम् भिक्षा भो इत्येवम् । आचार्यस्तु भिक्षां भो इत्येवं भिक्षा स्वीकुर्यात् । ततो ब्रह्मचारी शुचिर्भूत्वा स्वासने उपविशति । ततो वर्हिहोमादिविप्रभुत्त्यन्तम् । अथानन्तर सावित्रव्रतवत् सन्ध्योपासनाग्निपरिचरणम् । तत उपलेपनादिवहिस्तरणान्तम् । तत उत्थाय हस्तेनोदकं गृहीत्वाऽग्निमभिमुखो भूत्वाऽग्ने बतपते व्रतमचारिपं सावित्रं सद्यःफलं तदशकं तन्मे राधीतिमन्त्रेण सावित्रव्रतोत्सर्ग करोति । उपयमनकुशादानादिपर्युक्षणान्तम् । अन्वारम्भः । आधारावाज्यभागौ । वेदाहुतयः पोडश । प्रजापतय इत्याद्याः सप्त । महाव्याहृत्यादिस्विष्टकृदन्ता दश । एवं सप्तत्रिंशदाहुतयः । प्राशनादिविप्रमुक्त्यन्तं पूर्ववत् । सावित्रतादेशे ब्रह्मणे दक्षिणादानान्ते सावित्र्या संध्यावन्दनमग्निपरिचरणं च यत्कृतम् व्रतोत्सर्गे तदभावः । ततः अप्स्वन्तरिति दण्डस्याप्सु प्रक्षेपः । वातो वा इति मेखलाया अ० । वातरखंहा भवेति यज्ञोपवीतस्या०। नमो वरुणायेति कुमारस्य दधिघृतशर्कराणां प्रत्येकं प्राशनम् । इति सावित्रव्रतोत्सर्गः ॥ ॥ अथाग्नेयव्रतम् । तत्रोपलेपनादिवर्हिस्तरणान्तम् । ततो ब्रह्मचारिणो मेखलावन्धनम् । यज्ञोपवीतधारणम् । दण्डसमर्पणम् ग्रहणं च । मेखलादिपु पूर्वोक्ता एव मन्त्राः । व्रतग्रहणं पूर्ववत् । अग्ने व्रतपत इति । आग्नेयं सांवत्सरिकम् तच्छ०राद्ध्यतामिति । आग्नेयं यथाकालं तच्छके०ध्यतामितीदानी प्रयोगं कुर्वन्ति । ततः स्वस्थाने उपवेशनम् । आचार्यान्वारम्भः । उपयमनादानादिपर्युक्षणान्तम् । आधाराद्याः स्विष्टकदन्ताः सप्तत्रिंशदाहुतयोऽत्रापि होतव्याः । ततः प्राशनादिब्राह्मणभोजनान्तम । ततः स्मृत्युक्तं माध्याह्निकं संध्योपासनम् । ततोऽग्नेः पश्चादुपविश्य पाणिनाऽग्निं परिसमूहतीत्याव्यायुपकरणान्तं यथोक्तम् ।