________________
२३४ पारस्करगृह्यसूत्रम् ।
[पञ्चमी रूद्ध गुरुशुश्रूपया स्थातव्यं, भोजनार्थ वारद्वयं सायं प्रातश्च भिक्षाचरणं, भैक्षाशनं लौहे मृन्मये पर्णादौ वा कार्यम् । मधुमांसयोरभक्षणमुन्मजनं न कार्यमुद्धृतोदकेन स्नानमासनस्योपरि मसूरिकां स्थापयित्वा नोपविशेत् , स्त्रीणां मध्ये नावस्थानं, नानृतवदनं नादत्तादानम् । अन्येऽपि स्मृत्यन्तरोक्ता नियमाः । याज्ञवल्क्यः-मधुमांसाधनोच्छिष्टं शुक्लषीप्राणिहिंसनम् । भास्करालोकनाश्रीलपरिवादादि वर्जयेत् । शुक्लं परुपं वचः पर्युपितान्नं च । मनु:-अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । वर्जयेदिति प्रकृतम् । पारिजाते कौमें-नादर्श चैव वीक्षेत नाचरेद्दन्तधावनम् । गुरूच्छिष्टं भेपजार्थ प्रयुञ्जीत न कामतः । एतन्निपिद्धमथ्वादिविपयम् । अन्यस्य गुरूच्छिष्टस्य सर्वदा प्राप्तेः । वसिष्ठः-स चेद्वयाधीयीत कामं गुरोरुच्छिष्टशेपमौपधार्थ सर्व प्राश्नीयादिति । ज्येष्ठभ्रातुरित्यपि ज्ञेयम् । तथाऽऽपस्तम्बः-पितुर्येष्ठस्य च भ्रातुरुच्छिष्टं भोज्यमिति । स्मृत्यन्तरे-गुरुवदुरुपुत्रे स्यादन्यत्रोच्छिष्टभोजनात् । प्रचेता:-ताम्बूलाभ्यजनं चैव कांस्यपात्रे च भोजनम् । यतिश्व ब्रह्मचारी च विधवा च विवर्जयेत् । यमः-मेखलामजिनं दण्डमुपवीतं च नित्यशः । कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत् ॥ ॥ अथ ब्रह्मचारिव्रतलोपे प्रायश्चित्तम् । तत्र वौधायन:-अत्र शौचाचमनसन्ध्यावन्दनदर्भभिक्षाऽग्निकार्यराहित्यशूद्रादिस्पर्शनकौपीनकटिसूत्रयज्ञोपवीतमेखलादण्डाजिनत्यागदिवास्वापच्छत्रधारणपादुकाध्यारोहणमालाधारणोद्वर्तनानुलेपनाजनजलक्रीडायूतनृत्यगीतवाद्याद्यभिरतिपाखण्डादिसंभापणपर्युपितभोजनादिब्रह्मचारिव्रतलोपजसकलदोवपरिहारार्थं ब्रह्मचारी कृच्छ्रत्रयं चरेन्महाव्याहृतिहोमं च कुर्यात् । तद्यथा । लौकिकाग्निं प्रतिष्ठाप्य ब्रह्मवरणाद्याज्यभागान्तं कृत्वा प्रथमं व्यस्तसमस्तव्याहृतिभिश्चतस्र आज्याहुतीर्तुत्वा ४ भूरग्नये च पृथिव्यै च महते च स्वाहा ५ भुवो वायवे चान्तरिक्षाय च महते च स्वा० ६ सुवरादित्याय च दिवे च महते च स्वा० ७ भूर्भुवः सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वा० ८ पाहि नो अग्न एनसे स्वा० ९ पाहि नो अग्ने विश्ववेदसे स्वा० १० यज्ञं पाहि विभावसो स्वा० ११ सर्व पाहि शतक्रतो स्वा० १२ पुनरूर्जानिवर्तस्व पुनरम इपायुपा । पुनर्नः पाद्यंहसः स्वाहा १३ सहरज्जानिवर्तस्वाग्ने पिन्वस्व धारया। विश्वप्न्याविश्वतस्परि स्वाहा १४ पुनर्व्याहृतिभिर्हत्वा स्विष्टकदादिवरदानान्तं शेपं समापयेदिति ॥ एतदल्पधर्मलोपे प्रायश्चित्तम् । बहुधर्मलोपे तु प्रायश्चित्तविशेष ऋग्विधाने शौनकेनोक्तः-तंवोधिया जपेन्मन्त्रं लक्षं चैव शिवालये । ब्रह्मचारी स्वधर्म च न्यूनं चेत्पूर्णमेव तदिति । महानाम्न्यादिव्रतेपु लुमेपु तारतम्येन त्रीन् पट् द्वादश वा कृच्छ्रान् कृत्वा पुनव्रतं प्रारमेतेति स्मृत्यर्थसारे । तथा संध्याग्निकार्यलोपे स्नात्वाऽष्टसहस्रं जपः । भिक्षालोपेऽष्टशतम् । अभ्यासे द्विगुणं पुनः संस्कारश्चेत्युक्तम् । इति ब्रह्मचारिव्रतलोपे प्रायश्चित्तम् ॥ ॥ अथ पुनरुपनयनम् । तत्र मनुः-अज्ञानात्प्राश्य विण्मूत्रं सुरासंसृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः । चन्द्रिकायां वौधायन:-सिन्धुसौवीरसौराष्ट्रान तथा प्रत्यन्तवासिनः । अङ्गवङ्गकलिङ्गांश्च गत्वा संस्कारमर्हति । हेमाद्रौ पाझे-प्रेतशय्याप्रतिग्राही पुनः संस्कारमर्हति । वृद्धमनुः-जीवन यदि समागच्छेद् घृतकुम्भे निमज्ज्य च । उद्धृत्य स्थापयित्वाऽस्य जातकर्मादि कारयेदिति । मिताक्षरायां पराशरः यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः । अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति । स चरेत् त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च । जातकर्मादिभिः सर्वैः संस्कृतः शुद्धिमाप्नुयात् । शातातप: लशुनं गृखनं जग्वा पलाण्डं च तथा शुनम् । उष्ट्रमानुपकेभाश्वरासमीक्षीरभोजनात् । उपायनं पुनः कुर्यात्तप्तकृच्छू चरेन्मुहुः । अपरार्कादिसर्वग्रन्थेषु पित्रादिव्यतिरेकेण ब्रह्मचारिणः प्रेतकर्मकरणे पुनरुपनयनमित्युक्तम् । त्रिस्थलीसेतौ कर्मनाशाजलस्पर्शात्करतोयाविलचनात् । गण्डकीघाहुतरणासुन.संस्कारमर्हति । पराशरः-अजिनं मेखला दण्डो भैक्ष्यचर्या व्रतानि च । निवर्तन्ते