________________
कण्डिका ]
द्वितीयकाण्डम् |
२३३
ऽनुष्ठेयाः पदार्थाः । अङ्गानि च म आप्यायन्तामिति शिरःप्रभृति पादान्तं सर्वांङ्गान्यालभते । वाक् च म आप्यायतामिति मुखालम्भनम् । प्राणश्च म आप्यायतामिति नासिकयोरालम्भनम् । चक्षुच म आप्यायतामिति नेत्रयोरालम्भनम् । श्रोत्रं च म आप्यायतामिति दक्षिणकर्णमालभ्यानेनैव मन्त्रेण वामालम्भनम् | यशोचलं च म आप्यायतामिति जपः । ततो भस्मना ललाटे तिलकं त्र्यायुषं जमनग्नेरिति । कश्यपस्य त्र्यायुपमिति श्रीवायाम् । यद्देवेषु त्र्यायुपमिति दक्षिणऽसे । तन्नो अस्तु ज्यायुपमिति हृदि । ततोऽभिवादनम् । तत्रैवं प्रयोगः । माण्डव्यसगोत्र: भार्गवच्यावन आप्तवानौर्वजामदग्न्येतिपञ्चप्रवरोऽभिवादयेऽमुकनामाऽहमस्मि ३ ॥ कारिकायाम् - पद्माकारौ करौ कृत्वा पादोपत्रहणं गुरोः । उत्तानाभ्यां तु पाणिभ्यामिति पैठीनसेर्वचः । आयुष्मान् भव सौम्य विष्णुशर्मइन् इत्या• चार्यस्य प्रत्यभिवादनम् । ततो वृद्धाभिवादनम् । अथ भिक्षाचर्यचरणम् । तत्र ब्रह्मचारी पात्रं गृहीत्वा भवति भिक्षां देहीत्येवं भिक्षां याचेत । तित्रोऽप्रत्याख्यायिन्यः पद द्वादशापरिमिता वा । ततो भिक्षामाचार्याय निवेदयेत् । अत्र मध्याह्नसंध्यां कुर्यादिति प्रयोगपारिजाते । नेति कृष्णंभट्टीकारः। ततो भैक्ष्यं सुद्वेति गुरुणाऽनुज्ञातो भोजनं कुर्यात् । इतः प्रभृति सूर्यास्तमयं यावद्वाग्यतो वा भवेत् । ततः सायं संध्यावन्दनपूर्वक्रमन्निपरिचरणं पाणिनानिं परिसमूहतीत्याद्यभिवादनान्तं पूर्ववत् । उपनयना निखिरात्रं धार्यः । त्र्यहमेतमग्निं धारयतीत्यापस्तम्वोक्तेः । यावद्धुतमन्निरक्षणमिति गर्गपद्धतौ । इत्युपनयने पदार्यक्रमः || || एप प्रयोगः स्वस्वकाले कृतपूर्वसंस्कारस्य । असंस्कृतस्य तु विशेष उच्यते । आचार्य उपनयनात्पूर्वाहे बटुना सह मङ्गलन्नातः प्राणानायम्य तिथ्यादि सङ्कीर्त्य मम कुमारस्य गर्भाधानपुंसवनसीमन्तजातकर्मनामकरणनिष्क्रमणान्नप्राशनचौलकर्मान्तानां संस्काराणां कालातिपत्तिदोवनिवृत्तिद्वारा परमेश्वरप्रीत्यर्थे प्रायश्चित्तहोमं करिष्य इति संकल्प्य पश्वभूसंस्कारपूर्वकमग्निं लौकिकं स्थापयित्वा स्यात्यामाज्यं निरुप्यानावविश्रित्य स्रुवं दर्भेः संमृज्याज्यमुद्वास्य कुशतॄणाभ्यामुत्पूयावेश्य नुवेणादाय समित्प्रक्षेपं कृत्वा नवाहुतर्जुहोति । भूः स्वाहा १ भुव:०२ स्वः० ३ भूर्भुवः स्वः ०४ तन्नो अग्ने० ५ सत्वन्नो अग्ने ०६ अयाञ्चान्ने० ७ येतेशतं० ८ उदुत्तमं० ९ इति नवाहुतिहोमात्मकं प्रायश्चित्तं कृत्वा चौलातिरि'क्तसंस्काराणां प्रमादादकरणे प्रत्येकं पादकृच्छ्रं चौलाकरणेऽर्द्धकृच्छ्रं बुद्धिपूर्व चौलातिरिक्ताकरर्णे प्रत्येकमर्द्धकृच्छ्रं चौलाकरणे कृच्छ्रं बटुना कारयेत् । अशक्तौ तत्प्रत्याम्नायत्वेन गोनतिला हुतिसहस्रदशसहस्रगायत्री जपङ्कादशविप्रमुक्त्यादिष्वेकं प्रायश्चित्तं कारयित्वाऽतीतजातकर्मादीनि कृत्वा पूर्वोक्तोपनयनतन्त्रं सर्वमाचरेत् । उपनीत्या सह चौलकरणे पूर्वेद्युः संस्कारद्वयं संकीर्त्य युगपत्स्वस्तिवाचनग्रहयज्ञनान्दीश्राद्धानि कृत्वा परेर्मङ्गलस्नानविप्रत्रयमुक्त्यादिवरदानान्तं पूर्वोक्तं चौलप्रयोगं सर्वं कृत्वा पुनस्तिध्याद्युल्लिख्य कुमारस्य वपनाद्युपनयनं सबै कार्यम् । अत्र शौनकः --- आरभ्याथानमा चौलात्कालेऽतीते तु कर्मणान् । व्याहृत्याज्यं सुसंस्कृत्य हुत्वा कर्म यथाक्रमम् । एतेष्वेकैक्लोपे तु पादकृच्छ्रं समाचरेत् । चूडाया अर्द्धकृच्छ्रं स्यादापदीत्येवमीरितम् । अनापदि तु सर्वत्र द्विगुणं द्विगुणं चरेत् । कात्यायनः । लुप्ते कर्मणि सर्वत्र प्रायश्चित्तं विधीयते । प्रायश्चित्ते कृते पश्चाल्लुप्तं कर्म समाचरेत् । स्मृत्यर्थसारे चैत्रम् | आश्वलायनकारिकायां तु प्रायचित्ते कृतेऽतीतं कर्म कृताकृतमित्युक्तम् । प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै । कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चित इति । मण्डनस्तु - कालातीतेषु सर्वेषु प्राप्तत्रत्स्वपरेषु च । कालातीतानि कृत्वैव विध्यादुत्तराणि त्वित्युक्तवान् । तत्र सर्वेपां तन्त्रेण नान्दीश्राद्धं कुर्यात् देशकाल - कक्यात् । अथ ब्रह्मचारिधर्माः -- अवः शयनमक्षा रावणाशनं दण्डधारणमरण्यात्त्रयंप्रशीर्णानां समिवामाहृतिः कालत्रये संध्योपासनं परिसमूहनादि यथोक्तमग्निपरिचरणं सायं प्रातः संध्योपास्ते
३०