________________
२३२
परिस्करगृह्यसूत्रम्
। पञ्चमी कुमारस्योपनयने ग्रहानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ ग्रहयज्ञं करिष्ये । ग्रहयज्ञं समाप्य देशकालौ स्मृत्वाऽस्य कुमारस्य द्विजत्वसिद्धिद्वारा वेदाध्ययनाधिकारार्थ श्व उपनयनं करिष्ये । तदङ्गभूतमद्य गणपतिपूजनपूर्वकं स्वस्तिवाचनपूर्वकं नान्दीश्राद्धं मण्डपप्रतिष्ठां कुलदेवतादिस्थापनं च करिष्ये । उपनयनेन सह चौलकरणपक्षे तदपि संकल्पे कीर्तयेत् । तन्त्रेण च स्वतिवाचनप्रहयज्ञनान्दीश्राद्धादीनि कुर्यात् । अथापरेयुः कृतनित्यक्रियः कुमारस्य वपनं कारयित्वा ब्राह्मणत्रयं भोजयित्वा कुमारं च भोजयित्वा बहि:शालायां पञ्चभूसंस्कारपूर्वकं लौकिकाग्निं स्थापयेत् । ततो वैकल्पिकावधारणम् । तूष्णीं मेखलाबन्धनम् । दण्डः पालाशः । आसीनाय गायत्रीप्रदानम् । एपा त इति समिदाधानम् । मातृपूर्वकमपरिमिताश्च भिक्षणीयाः । न वाग्यतोहःशेष तिष्ठेदिति पक्षः । तत आचार्योपनीताः पुरुषाः कृतमङ्गलस्नानं स्रङ्माल्याबैरलंकृतं बटुमाचार्यसमीपमानयन्ति । तत आचार्यों घटुमग्नेः पश्चादवस्थाप्य ब्रह्मचर्यमागामिति बहीति वदति । ब्रह्मचर्यमागामिति ब्रह्मचारी ब्रूयात् । ततो ब्रह्मचार्यसानीति बहीत्याचार्यों वदति । ब्रह्मचार्यसानीति ब्रूयात् । ततः कुमारमाचार्यों वासः परिधापयति येनेन्द्रायेति । तत आचार्यः कुमारस्य कटिदेशे इयं दुरुक्तमिति मन्त्रेण मेखलां वनाति । युवा सुवासा इति वा बन्धनम् । तूष्णी वा । ततो बटुः यज्ञोपवीतमिति मन्त्रं पठित्वा दक्षिणबाहुमुद्धृत्य वामस्कन्धे यज्ञोपवीतं निवेशयति । ततो वटुर्मित्रस्य चक्षुरित्यजिनमुत्तरीयं गृह्णाति । तत आचार्यो दण्डं माणवकाय प्रयच्छति । माणवको यो मे दण्ड इति दण्डं प्रतिगृह्णाति । अथाचार्य. स्वाञ्जलिना बटोरचलिमद्भिः पूरयत्यापोहिष्ठेति तिसृभिः । सूर्यमुदीक्षस्वेत्याचार्य आह । ततो वटुस्तञ्चक्षुरिति सूर्य पश्यति । तत आचार्यों माणवकस्य दक्षिणांसस्योपरि हस्तं नीत्वा हृदयमालभते मम व्रते त इति । तत आचार्यों माणवकस्य दक्षिणं हस्तं गृहीत्वाऽऽह कोनामाऽसीति । अमुक अहं भो ३ इति वटुः प्रत्याह । ततो गुरुवटुं प्रति कस्य ब्रह्मचार्यसीति वदति । भवत इति बटुराह । तदैवाचार्य इन्द्रस्य ब्रह्मचार्यसीति मन्त्रं ब्रूयात् । तवामुकब्रह्मचारीति प्रयोगो मन्त्रान्ते । अथैनमाचार्यों रक्षायै भूतेभ्यः परिददाति प्रजापतये त्वेति । ततो बटुरग्नि प्रदक्षिणीकृत्याचार्यस्योत्तरत उपविशति । ततो गुरुर्ब्रह्मोपवेशनादिदक्षिणादानान्तं चूडाकरणवत् कर्म कृत्वा कुमारस्यानुशासनं करोति । तथैवं-ब्रह्मचार्यसीत्याचार्य आह भवानीति ब्रह्मचारी प्रत्याह । अपोऽशानेत्याचार्य आह-अनानीति ब्रह्मचारी प्रत्याह । कर्म कुर्वित्या० करवाणीति ब्र० । मा दिवा सुषुप्था इत्या० । न स्वपानीति ब्र० । वाचं यच्छेत्या० यच्छानीति ब्र० । समिधमाघेहीत्या० आदधानीति व अपोऽशानेत्या० अश्नानीति व्र० । अथाचार्यों ब्रह्मचारिणेऽग्नेरुत्तरतः प्रत्यङ्मुखोपविष्टायोपसन्नाय समीक्षमाणाय समीक्षिताय सावित्री ब्रूयात् । तत्रैवम् प्रणवव्याहृतिपूर्वकं प्रथममेकैकं पादम् । तथा द्वितीयमर्द्धर्चशस्तथैव तृतीयं सवा स्वयं च बटुना सह पठेत् । दक्षिणत आसीनाय वा सावित्रीप्रदानम् । ततो ब्रह्मचारी समिदाधानं करोति । तत्र पूर्वमग्नेः संधुक्षणम् पंञ्चमन्त्रैरिन्धनप्रक्षेपणम् । अग्ने सुश्रव इति प्रथमम् । यथा त्वमग्ने इति द्वितीयम् । एवं माध्-समिति तृतीयम् । यथा त्वमग्ने देवानामिति चतुर्थम् । एवमहं मनुष्याणामिति पञ्चमम् । प्रदक्षिणमग्निमुदकेन पर्युल्योत्थाय समिधमग्नयेसमिधमित्यग्नौ प्रक्षिपति । एवं द्वितीयाम् । तथैव तृतीयाम् । एषा त इति वा मन्त्रेण समिधामाधानम् । अथवा द्वाभ्यामपि समिधामाधानम् । पुनः पञ्चभिर्मन्त्रैरग्नेः संधुक्षणं पूर्ववत् | अग्नेः पर्युक्षणम् । ततस्तूष्णीं पाणी प्रतप्य तनूपा अग्नेऽसि तन्वं मे पाहि इति मुखं विमार्टि। ततो द्वितीयवारं पाणी प्रतप्य आयुर्दा अग्नेऽस्यायुमें देहीति मुखं विमाप्टिं । एवं तूष्णी पाणी प्रतण्य वर्गोंदा अग्नेऽसि वर्षों में देहि । अग्ने यन्मे तन्वा ऊनं तन्म आपृण । मेधां मे देवः सविता आदधातु । मेवां मे देवी सरस्वती आदधातु । मेधामश्विनौ देवावाधत्तां पुष्कररजौ । अश्राचारतो.