________________
फण्डिका द्वितीयकाण्डम् ।
२३१ श्चित्तं नियतवत् नित्यवत् नियते औतकल्पे नैमित्तिकेपु यद्विहितं स्मात तदेवानादिष्टं भवति । तच्चाविज्ञाते प्रतिमहाव्याहृति सर्वाभिश्चतुर्थ सर्वप्रायश्चित्तं चेति । कालव्यतिक्रमादन्यत्रापि यज्ञोपवीतिना वद्धशिखेन पवित्रपाणिना वद्धकच्छेन प्रदक्षिणमाचान्तेन शुचिना स्नातेन कर्म कर्तव्यमित्यादिस्मृत्यन्तरविहितेऽपि भ्रेपे उत्पन्न एतदेव भवति । नैमिन्नित्तिकान्तराविधानात् । आवसथ्याग्निसाध्यलौकिकाग्निसाध्यानग्निसाध्यकर्मसु चतुर्गृहीतान्येतानि सर्वत्रेति प्रायश्चित्तसूत्र उक्तत्वादत्र चतुर्ग्रहीतं गृहीत्वा होमः कार्यः । चतुर्ग्रहीतं च सुगभावे न संभवत्यतः स्रगुत्पाद्येति रामवाजपेयिभिः प्रायश्चित्ते उक्तम् । सा च होमसंबन्धाद्वैकङ्कती भवति । सुवस्तु खादिर एव । स्रवेण प्रायश्चित्तहोम इति हरिहरः । तदयुक्तम् । अत्र औतातिदेशो नियतवदिति भगवता कृतः तत्र चतुर्ग्रहीत विहितं तदत्रापि प्राप्नोत्येव । चतुर्ग्रहणं च मुच्येव संभवति अतः सुक् प्राप्ता केन निवार्यते । किच पूर्णाहुतिधर्मोऽपि हरिहरैरङ्गीकृतस्तत्र पठिता सुक् स्वयं कुतो नाङ्गीकृतेति । यदि गृह्योक्तेतिकर्तव्यताऽङ्गीकृता स्यात्ततः स्यात्वेण होमः सा नाङ्गीकृतेत्यलमतिप्रसङ्गेन । कारिकायाम्-मुख्यकाले नरैः कर्म कर्तुं यदि न शक्यते । गौणकालेऽपि कर्तव्यं तदनादिष्टपूर्वकम् । इदं प्रायश्चित्तं त्वनादिष्टम् । यत्र विशिष्टप्रायश्चित्तं स्मयते तत्र नैतद्भूयते किंतु तदेव तन भवति । यथा-सर्वकर्ममध्येतु क्षुत आचमनं स्मृतम् । तथा-अबोवायुसमुत्सर्गे प्रहासेऽनृतभापणे । मार्जारमूषकस्पर्शे आक्रुष्टे क्रोधसंभवे । निमित्तेष्वेपु सर्वेषु कर्म कुर्वन्नपः स्पृशेदिति रामवाजपेयिनः । 'त्रिपु"नं च त्रीन्पुरुषान्यावत् ये पतितसावित्रीकाः पितृपुत्रपौत्रास्तेपामपत्ये चतुर्थे पुरुषेऽसंस्कार उपनयनसंस्कारो न भवति । अध्यापनं च न भवति । अत्र हरिहरभाष्यं मृग्यम् । 'तेपाठ "नात् ' तेषां पितृपुत्रपौत्राणां त्रयाणां पतितसावित्रीकाणां मध्ये यः संस्कारेप्सुः आत्मानं संस्कारयितुकामः स ब्रात्यस्तोमेन यज्ञेनेष्वा ब्रात्यस्तोमं कृत्वा व्यवहार्यों भवति । काममिच्छया ब्रात्यस्तोमेनेष्वा अधीयीरन् वेदं पठेयुः व्यवहार्याः शिष्टानामध्यापनादिकर्मसु योग्या भवन्तीति वचनाच्छ्रतेः । अथ षण्डमूकादीनां विशेषः प्रयोगपारिजाते-ब्राह्मण्यां ब्राह्मणान्जातो ब्राह्मणः स इति श्रुतिः । तस्माच पण्डवधिरकुन्जवामनपडपु । जडगद्गदरोगार्तशुष्काइविकलादिपु । मत्तोन्मत्तेषु मूकेपु शयनस्थे निरिन्द्रिये । ध्वस्तपुंस्त्वेषु चैतेषु संस्काराः स्युर्यथोचितम् । मत्तोन्मत्तौ न संस्कार्याविति केचित्प्रचक्षते । कर्मस्वनधिकाराच पातित्यं नास्ति चैतयोः। तदपत्यं च संस्कार्यमपरे त्वाहुरन्यथा । संस्कारमत्र होमादीन् करोत्याचार्य एव तु । उपनेयांश्च विधिवदाचार्यः स्वसमीपतः । आनीयाग्निसमीपं वा सावित्री स्पृश्य वा जपेत् । कन्यास्वीकरणादन्यत्सर्वं विप्रेण कारयेत् । एवमेव द्विजैर्जातौ संस्कायौँ कुण्डगोलकाविति । स्मृत्यर्थसारेऽप्येवम् । आपस्तम्बः-शूद्राणामदुष्टकर्मणामुपनयनम् । इदं च रथकारस्योपनयनम् । तस्य च मातामहीद्वारकं शुद्रत्वम् । अदुष्टकर्मणां मद्यपानादिरहितानामिति ॥ इति पञ्चमी कण्डिका५
अथ पदार्थक्रमः-शुक्लपक्षे द्वितीयादिस्वाध्यायतिथिषु नानध्याये न नैमित्तिकानध्याये पूर्वादे शुभमुहूर्ते शुभचन्द्रादौ गुरुशुक्रयोल्यवार्धकास्तराहित्यादौ ज्योतिर्विज्ञोक्ते शुभे काले उपनयनं कार्यम् । तत्राधिकारसिद्धये प्रायश्चित्तमाह वृद्धविष्णु:-कृच्छ्रत्रयं चोपनेता त्रीन् कृच्छ्रांश्च वटुश्चरेत् । आचार्यों द्वादशसहस्रं गायत्री च जपेत्तथा । नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः । तदोपनयनं कार्य वेदारम्भं न कारयेत् । उक्त काले उपनिनीषुः पिता पूर्वेधुर्बटोः परिधानार्थ शुक्लमीपद्धौतं नवं सदशं परेणाधृतं वस्त्रमुत्तरीयाथै चाजिनं यज्ञोपवीतं मेखलामव्रणमृगँ सौम्यदर्शनं दण्डं कौपीनं मिक्षाभाजनं च संपाद्य स्वस्योपनेतृत्वाधिकारसिद्धये कृच्छत्रयं द्वादशसहस्रं गायत्री च जप्त्वा कुमारेणापि कामचारकामवादकामभक्षणादिदोपापनोदनाथै कृच्छ्रत्रयं कारयित्वा स्वस्तिवाचनारार्पणमयज्ञनान्दीश्राद्धानि संकल्पपूर्वकं कृत्वा मण्डपप्रतिष्ठां कुर्यात् । तत्र संकल्पः-अस्य