________________
२३० पारस्करगृहासूत्रम् ।
[पञ्चमी श्वापस्य ज्या गुणः मेखला क्षत्रियस्य ब्रह्मचारिणो भवति । सामर्थ्याच्च स्नायुमयी वेणुमयी वा। इयं च त्रिवृन्न कार्या ज्यात्वविनाशप्रसङ्गात् 'मौर्वी वैश्यस्य ' मुरुरिति तृणविशेपस्तन्मयी मौर्वी मेखला वैश्यस्य ब्रह्मचारिणो भवति । 'मुखाआनाम् ' मुजाभावे ब्राह्मणस्य कुशाश्मन्तकवल्वजानां संबन्धिनी राना भवति । कुरामयी वा अइमन्तकाख्यतृणमयी वाल्वजी वा भवतीति भर्तृयजव्याख्याने लभ्यते । मुखाभावशब्दोऽत्र धनुामौर्यभात्रोपलक्षणार्थ इति रेणुगर्गहरिहराः । मुखाद्यभावे वर्णक्रमेण कुशाद्या ग्राह्या इति मदनपारिजाते । 'पाला'"दण्डः' ब्राह्मणस्य ब्रह्मचारिणः पालाशो दण्डो भवति । 'वैल्वो 'न्यस्य ' वैल्वः बिल्ववृक्षोद्भवो दण्डः क्षत्रियस्य ब्रह्मचारिणो भवति । औदुः"श्यस्य वैश्यस्य ब्रह्मचारिण उदुम्बरवृक्षोद्भवो दण्डो भवति । अत्राचार्येणानुक्तमपि दण्डमानमुपयुक्तत्वादविरोधित्वाच्छाखान्तरीयं ग्राह्यम् । तत्र । 'केश "उयस्येति' दण्डं प्रक्रम्योक्तमिति जयरामभाष्ये । इदं च सूत्रं सूत्रत्वेन हरिहरभाष्ये तिष्टति । भर्तृयज्ञकर्कादिनन्थेषु नोपलभ्यते । अत: क्षिप्तमेतदित्याभाति । 'सवें वा सर्वेषाम् । अथवा सर्वे पालागादयो दण्डाः सर्वेषां ब्राह्मणक्षत्रियविशामनियमेन भवन्ति । न प्रतिवर्ण जातिव्यवस्था भवति । 'आचा' 'यात् ' आचार्येणोपनयनका आहूत आकारितो ब्रह्मचारी आसनादुत्याय प्रतिशृणुयात् । प्रतिवचनं दद्यात् । 'शया "सीनः । चेद्यदि आचार्यः शयानं स्वपन्तं ब्रह्मचारिणमाह्वयति तदा स आसीन उपविष्टः सन् प्रतिवचनं दद्यात् । 'आसी "प्टन्' चेद्यद्यासीनमुपविष्टं ब्रह्मचारिणमाकारयत्याचार्यस्तदा स ब्रह्मचारी तिष्ठन् प्रतिवचनं दद्यात् । 'तिष्ठ"मन् । चेद्यदि तिष्ठन्तं ब्रह्मचारिणमाह्वयति तदाऽभिक्रामन्नाचार्याभिमुखं व्रजन्प्रतिवचनं कुर्यात् । 'अभिवन् । चेद्यदि अभिकामन्तं ब्रह्मचारिणमाकारयति तदा ब्रह्मचारी अभिधावन आचार्याभिमुखं धावन् प्रतिवचनं दद्यान् । अस्यार्थवादमाह-'स एवं'''तीति' स ब्रह्मचारी एवं पूर्वोक्तब्रह्मचर्यधर्मेण वर्तमानः अमुत्र स्वोंके अद्य इहैव स्थितः सन् वसति तिष्ठति । द्विरक्तिः प्रसार्था । 'तस्य"वति । येनैवं ब्रह्मचर्यानुष्टानं कृतं तस्य स्नातकस्य समावृत्तस्य कीर्तिर्यगो भवति । यथोकधर्मकर्तुः फलं चैतत् । स्नातकलक्षणमाह 'त्रयः "भवन्ति । त्रयः त्रिविधाः स्नातका भवन्ति । 'विद्या"तक इति । त्रिविधाः स्नातका इत्युक्तं तत्रैको विद्यास्नातको द्वितीयो व्रतस्नातकः तृतीयो विद्याव्रतस्नातक इति । 'समा'तक्र: ' समाप्य वेदं पाठतोऽर्थतश्च वेदं वेदस्य मन्त्रब्राह्मणात्मिकामेकां शाखाम् । असमाप्य व्रतं द्वादशवार्पिकं ब्रह्मचर्यमसमाप्य यः समावर्तते नाति स विद्यास्नातक इत्युच्यते । 'समा तकः' व्रतं ब्रह्मचर्य द्वादशवापिकं समाप्य वेदमसमाप्य संपूर्णमनधीत्य यः समावर्तते स व्रतस्नातक इत्युच्यते । एवं च व्रतस्नातकस्य विवाहोत्तरकालमध्ययनसमापनं वेदार्थज्ञानं चेति मन्तव्यम् । उभ 'तक: । उभयं वेदं ब्रह्मचर्य च समाप्य यः स्नाति स विद्यावतस्नातक इत्युच्यते । लक्षणप्रयोजनं च स्नातकानेके इत्यादिपु नेयम् । उपनयनकालस्य परमावधिमाह 'आपो"वति ' अर्वाक षोडशाद्वर्षाद्राह्मणस्यानतीतः न अतिक्रान्त एवोपनयनस्य कालो भवति । 'आद्वा""न्यस्य । अर्वाक् द्वाविंशाद्वात्क्षत्रियस्यानतीत एवोपनयनकालो भवति । आच 'श्यस्य' अर्वाक् चतुर्विंशाद्वर्षाद्वैश्यस्यानतीत एवोपनयनस्य कालो भवति । 'अत्र"वन्ति । अत उक्तकालादूर्ध्वमनुपनीता ब्राह्मणादयः पत्तितसावित्रीका भवन्ति संपद्यन्ते अधिकाराभावात् पतिता स्खलिता सावित्री येभ्यस्ते पतितसावित्रीकाः। 'नैना' 'रेयुः। एतान् पतितसावित्रीकान् नोपनयेयुः शास्त्रज्ञाः । अज्ञानादुपनीतानपि नाध्यापयेयुः । एवमध्यापितानपि न याजयेयुः यज्ञं न कारयेयुः । एभिः सह भोजनादिभिः कर्मभिर्व्यवहारमपि न कुर्युः । सन्ति गर्भाधानादीनि नियतकालानि कर्माणि तेषु कालातिक्रमे प्रायश्रित्तमाह 'काला'"वत् गर्भाधानादिनियतकालानां कर्मणां नियतकालन्यतिक्रमे सति प्राय