________________
fusat ]
द्वितीयकाण्डम् |
२२९
शौनकेन विशेषो दर्शितः- अप्रत्याख्यायिनमये भिक्षेताप्रत्याख्यायिनीं वेति । याज्ञवल्क्यः — ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तय इति । भैक्षं प्राप्तुं चरेदित्यर्थः । आत्मवृत्तये स्वशरीरयात्रार्थं नाधिम् । ब्राह्मणेषु चरेदित्येतद्ब्राह्मणविषयम् । अत एव व्यासः - त्राह्मणक्षत्रिय विशश्वरेयुभैक्षमन्वहम् । जातीयगृहेष्वेव सार्ववर्णिकमेव वेति । सर्वशब्दः प्रकृतवर्णत्रयपरः । ' पदता वा ' षड्ढा स्त्रियः । द्वादश वा स्त्रियः । अपरिमिता असंख्याता वा भिक्षेतेत्यर्थः । मातरं प्रथमामेके । एके आचार्या मातरं स्वजननी प्रथमां भिक्षेतेत्याहु: । अयं च प्रथमाहर्द्धर्म इति कर्क: ! आचा.."त्येके । ततो ह्मचारी भिक्षां भक्षित्वा आचार्याय उपनयनकर्त्रे भैक्षं भिक्षां लवां निवेदयित्वा निवेदनं कृत्वा इयं भिक्षा लब्धेति । वाग्यतः संयमितवागहः शेषं तिष्ठेत् । इतः प्रभृति यावदस्तमयमासीतेति एके वदन्ति नवेत्यन्ये, अतो विकल्पः । ' अहिर्टजते ' ब्रह्मचारी अहिंसन् अच्छिन्दन् हिंसामकु
6
।
अरण्याद्वनात्समिध आहृत्य आनीय तस्मिन् यस्मिन्नुपनयनहोमः कृतस्तस्मिन्ननौ पूर्ववत्पाणिनाऽसिं परिसमूहतीति पूर्वोक्तरीत्याधाय समिदाधानं कृत्वा वाचं विसृजते यदि वाग्यमो गृहीतस्तदा तस्मि - न्काले विसृजते । ' अध:'चर्या ' अधःशायी स्यात् । अक्षारालवणाशी भवेत् । दण्डधारणं सर्वदा कार्यम् । अग्नेः परिचरणम् । समिदाधानं परिसमूहनादि सायंप्रातः । उभयकालमग्निं परिचरेदिति स्मृत्यन्तरात् । गुरुशुश्रूपा च प्रत्यहं कर्तव्या स्वाधायाऽनुरोधेन । भिक्षाचर्या भिक्षाचरणं स्थित्यर्थम् । 'मधु' येत् ' मधु प्रसिद्धं मांसं च मज्जनं गङ्गादौ स्नानं प्रतिषिध्यते । उद्धृतोदकेन तु कार्यमेव । उपर्यासनमासनस्योपरि मसूरिकाद्यासनं निधायोपवेशनम् । स्त्रीगमनं स्त्रीणां मध्येऽवस्थानम् । अभिगमनस्योपरि वक्ष्यमाणत्वात् । अनृतमसत्यभाषणम् । अदत्तादानं परद्रव्याणामदत्तानां स्वयं ग्रहणम् । एतानि ब्रह्मचारी वर्जयेन्न कुर्यात् । अष्टा' 'रेत् ' अष्टाभिरधिकानि चत्वारिंशदष्टाचत्वारिंशत् तान्यष्टत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरेत् चतुर्णा वेदानां ग्रहणार्थं एकमेव ब्रह्मचर्यव्रतं कुर्यात् । अस्मिन्पक्षे चतुर्णामपि वेदानामेक एव प्रतादेशः । सर्वाश्च वेदाहुतयो हूयन्ते । 1 द्वाददम् ' अथवा प्रतिवेदं द्वादशद्वादशवर्षपर्यन्तं ब्रह्मचर्यं चरेत् । अयमर्थः एकं वेद समाप्य समावर्तनं कृत्वा पुनर्द्वितीयवेदग्रहणं यावत् ब्रह्मचर्य चरित्वा स्नात्यैवं वेदान्तरेऽपि ब्रह्मचर्यं चरेत् यावद्ग्रहणं वा । यद्वा यावद्वेदस्य वेदयोर्वेदानां पाठतोऽर्थतश्च स्त्रीकरणं तावत् ब्रह्मचर्यं चरेत् । अथ वर्णक्रमेण परिधानवस्त्राण्याह । ' वासाठ... कानि ' ब्राह्मणक्षत्रिय विशां त्रयाणां ब्रह्मचारिणां शाणक्षौमाविकानि वासांसि वस्त्राणि यथासंख्यं परिधानार्थं भवन्ति । शाणं शणमयम् । क्षौमं क्षुमा अतसी तद्विकारमयम् | आविक्रमवेमेंपस्य विकार आविकं मेपरोमनिर्मितम् । गौतमः — सर्वेषां कार्पासं वाऽविकृतमिति । वसिष्ठः --- शुकुमहतं वासो ब्राह्मणस्य माजिष्ठं क्षौमं च क्षत्रियस्य पीतं कौशेयं वैश्यस्येति । कारिकायामप्येवम् । कौशेयं पटविशेष इति पारिजाते । 'ऐणे णस्य ' एणी हरिणी तस्या इदमैणेयं चूर्म उत्तरीयं ब्राह्मणस्य ब्रह्मचारिणो भवति । अत्र कारिकायां प्रयोगरत्ने च विशेषः- तत् त्र्यङ्गुलं वहिर्लोम यद्वा स्याच्चतुरङ्गुलम् । एकखण्डं त्रिखण्डं वा धायै तदुपवीतवदिति । ' रौर' न्यस्य' राजन्यस्य क्षत्रियस्य ब्रह्मचारिणो रुरुर्ना - मारण्यसत्वविशेपस्तदीयं चर्म उत्तरीयं भवति । ' आजंश्यस्य ' अजस्येदं चर्म आजं यद्वा गव्यं गोरिदं चर्म वैश्यस्योत्तरीयं भवति । ' सर्वे "त्वात् ' असति यथोदिते चर्मणि सर्वेषां वर्णानां वा गव्यं चर्म भवति । कुत एतत् पुरुषप्रधानत्वात् गव्यस्य चर्मणः । पुरुपप्रधानं हि गव्यं चम श्रूयते । ते अवच्छाय पुरुषं गव्येतां त्वचमादधुरिति । ते देवाः पुरुषत्वचमवच्छाय उत्कृत्य एतां त्वचं गवि अदधुः धृतवन्त इति श्रुत्यर्थ: । 'मौजी'' 'णस्य ' मुञ्जः शरस्तन्मयी मौजी मेखला ब्राह्मणस्य ब्रह्मचारिणो भवति । ' धनु न्यस्य ' धनुर्ज्या धनुष