________________
२२८
पारस्करगृह्यसूत्रम् ।
[ पञ्चमी
1
श्रित्य स्रुक्स्रुवं च संमृज्योद्वास्योत्पूयावेक्ष्य गृहीत्वाऽन्वारन्ध एव सर्वत्र । अत्रैवं प्रयोगः - यदाऽऽव सथिकस्यानादिष्टं प्राप्नोति तदाऽग्निः संभृत एव । यदि च निरग्नेस्तदा शुद्धायां भूमौ पश्च भूसं स्कारान्कृत्वा लौकिकमग्निं स्थापयित्वा स्थाल्यामाज्यं तूष्णी निरुप्याग्नावधिश्रित्य स्रुवं दर्भैः संसृज्याज्यमुद्वास्य कुशतरुणाभ्यामुत्पूयावेक्ष्य स्रुवेणादायोपरि समिधं निधायोत्थाय स्रुवं सव्यहस्ते कृत्वा दक्षिणेनाग्नौ तिष्ठन् समिधमाथायोपविश्य दक्षिणं जान्वाच्य ॐ भूः स्वाहेति स्रुवस्थेनाज्येनैकामाहुतिं हुत्वा भुव: स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेति चतस्रः त्वन्नो अग्नइत्यादिभिः पञ्चभिः पञ्च स्रुवेणावदायाज्याहुतीर्जुहोति । इदं नवाहुतिहोमात्मकं कर्म यत्र यत्र प्रायश्चित्तानादेशः कर्मणां नियत कालातिक्रमो वा तत्र तत्रानादिष्टसंज्ञकं प्रायश्चित्तं वेदितव्यम् । यदा तु कस्मिंश्चित्तस्थालीपाकादिकर्मप्रयोगे वर्तमाने अनादिष्टप्रायश्चित्तमापद्येत तदा तत्कर्माङ्गभूत एवाग्नौ तत्कृत्वा [ ऽनादिष्टं हवा ] उपरितनं प्रयोगं कुर्यात् । यदा तु वहूनि निमित्तानि भवन्ति तदा प्रतिनिमित्तं नैमित्तिकमावर्तत इति न्यायात् यावन्ति निमित्तानि तावत्कृत्वः प्रायश्चित्तमावर्तते यथोक्तम् । इत्युपनयनपद्धतिः ॥ ॥ अन्न वेदब्रह्मचर्य चरेदित्यनेन वेदाध्ययनाङ्गतया ब्रह्मचर्याचरणमुक्तम्, वेदाध्ययनारम्भस्य काल इतिकर्तव्यता च नोक्ता केवलं समावर्तनकर्म सूत्रकारेणारव्धं वेदह • समाप्य स्नायादिति । तत्र वेदस्यारम्भं विना समाप्तिः कर्तुमशक्येति उपनयनानन्तरमेव वेदारम्भस्य समय इत्यवगम्यते । इतिकर्तव्यता च पुनरेतदेव व्रतादेशनविसर्गेष्विति उपाकर्महोमातिदेशाद्वतादेशने वेदारम्भे प्राप्नोति । अतश्च - उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदमध्यापयेदेनं शौचाचारॉच शिक्षयेदिति गुरोरुपनयनानन्तरं वेदाध्यापनविधानाच्च उपनयनोत्तरकालं पुण्येऽहनि मातृपूजापूर्वकं वेदारम्भनिमिन्तमाभ्युदयिकं श्राद्धमाचायों विधाय पश्चभूसंस्कारपूर्वकं लौकिकाग्निं स्थापयित्वा ब्रह्मचारिणमाहूय अग्नेः पश्चात् स्वस्योत्तरत उपवेश्य ब्रह्मोपवेशनाद्याज्यभागान्तं कृत्वा यदिऋग्वेदमारभते तदा पृथिव्यै स्वाहा अग्नये स्वाहेति द्वे आज्याहुती हुत्वा ब्रह्मणे छन्दोभ्य इत्याद्या नवाहुतीर्हुत्वा शेषं समापयेत् । यदि यजुर्वेदं तदाऽऽज्यभागानन्तरम् अन्तरिक्षाय स्वाहा वायवे स्वाहेति विशेपः । यदि सामवेदं तदाऽऽज्यभागान्ते दिवे स्वाहा सूर्याय स्वाहेति विशेषः । यदाऽथर्ववेदं तदाऽऽज्यभागान्ते दिग्भ्यः स्वाहा चन्द्रमसे स्वाहेति विशेषः । यद्येकदा सर्ववेदारम्भस्तदाऽऽज्यभागानन्तरं क्रमेण प्रतिवे वेदाहुतिद्वयं द्वयं हुत्वा ब्रह्मणे छन्दोभ्य इत्याहुतिद्वयं च हुत्वा प्रजापतय इत्याद्याः सप्त तन्त्रेण जुहुयात् । अनन्तरं महाव्याहृत्यादिस्विष्टकृदन्ता दशाहुतीर्हुत्वा प्रागनं विधाय पूर्णपात्रवरयोरन्यतरं ब्रह्मणे दत्त्वा ब्रह्मचारिणे यथाविधि वेदमध्यापयितुमारभते ॥ इति व्रतादेशप्रयोगः ॥ ॥ ॥
( गदाधरः ) ' अत्रणम्' अत्रास्मिन्काले भिक्षाचर्यचरणं कर्तव्यमित्यर्थः । अत्र विशेपो मनुस्मृतौ - प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् | प्रदक्षिणं परीत्यानि चरेद्भैक्षं यथाविधि । एतन् त्रितयं भिक्षाङ्गमिति पारिजाते । कारिकायामप्येवम् । 'भववैश्यः ' भवच्छन्दः पूर्वा यस्याः सा भवत्पूर्वा तां भवत्पूर्वा ब्राह्मणो वर्णोत्तमो भिक्षेत याचेत । एवं भवच्छदो मध्ये यस्याः सा भवन्मध्या तां भिक्षां राजन्यः क्षत्रियो भिक्षेत । तथा भवच्छब्दोऽन्त्यो यस्याः सा भवदन्त्या तां वैश्यो वर्णतृतीयो भिक्षेत । अयमर्थः -- सगौरवसंबोधनार्थं भवत्पदमादिमध्यावसानेषु ब्राह्मणादिभिः क्रमेण कार्य तब संबुद्धयन्तम् । तिन इति सूत्रसामर्थ्यात्त्रीप्रत्ययवच तत्पदं भवति । तत्रायं प्रयोगः - भवति भि क्षां देहीति ब्राह्मणः । भिक्षां भवति देहीति क्षत्रियः । भिक्षां देहि भवतीति वैय्यः । ' तित्रो "विन्यः ' तित्रः खियो भिन्नां भिक्षेत । किंभूता अप्रत्याख्यायिन्यः । अत्र द्वितीयार्थे प्रथमा । भिक्षेतेनि कर्तृप्रत्ययान्तस्याख्यातस्य कर्मकार कापेक्षित्वात् । प्रत्याख्यातुं निराकर्तुं शीलं यासां ताः न प्रत्याख्यायिन्यः अप्रत्याख्यायिन्य । याः स्त्रियो निराकरणं न कुर्वन्ति ता भिक्षणीया इत्यर्थः ।