________________
द्वितीयकाण्डम् |
२२७
fuser ]
अग्नये समिधमहार्पे वृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा मेधया वर्चसा प्रजया पशुभिर्ब्रह्मवर्चसेन समिन्धे जीवपुत्रो ममाचायों मेधाव्यहमसान्यनिराकरिष्णुर्यशस्त्री तेजस्वी ब्रह्मवर्चस्यन्नादो भूयासंस्वाहेत्यनेन मन्त्रेण उक्तलक्षणामेकां समिधमग्नावाधायानेनैव द्वितीयां तथैव तृतीयां चाधते । एपा ते अग्ने समिदित्यादिना वा मन्त्रेण अग्नये समिधमहार्षमिति पातेअने समिदित्येताभ्यां समुचिताभ्यां मन्त्राभ्यां वा एकैकशस्तिस्रः समिध आदधाति । तत उपविश्य पूर्ववदश्रव इत्यादिभिरग्निं संधुक्ष्य पर्युक्ष्य च तूष्णीं पाणी प्रतप्य तनूपा अग्नेऽसि तन्वं मे पाहि आयुर्दा अग्नेस्यायुर्मे देहि वर्चोदा अग्नेऽसि वर्चो मे देहि । अग्ने यन्मे तन्त्रा ऊनं तन्म आपूण | मेधां मे देवः सविता आदधातु मेधां मे देवी सरस्वती आदधातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति सप्तभिर्मन्त्रैः प्रतिमन्त्रं मुखं विमार्ष्टि । अत्र शिष्टाचारप्राप्ताः केचन पदार्था लिख्यन्ते । तत अङ्गानि च म आप्यायन्ता मित्यनेन शिरःप्रभृति पादान्तं सर्वाङ्गमालभते । वाक्च म आप्यायतामिति मुखं, प्राणश्च म आप्यायतामिति नासारन्ध्रे युगपत् चक्षुश्च म आप्यायतामिति चक्षुपी युगपत् श्रोत्रं च म आप्यायतामिति दक्षिणं श्रोत्रं ततोऽनेनैव मन्त्रेण वामम् । यशोवलं चम आप्यायतामिति मन्त्रं पठेत् । ततोऽनामिकया अग्नेर्भस्म गृहीत्वा ललाटे ग्रीवायां दक्षिणेऽसे हृदि चतुर्षु स्थानेषु त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुपं, यद्देवेषु त्र्यायुपं, तन्नो अस्तु त्र्यायुषमिति चतुर्भिर्मन्त्रैः प्रतिमन्त्रं त्र्यायुषाणि कुरुते । अत्र स्मृत्यन्तरोक्तमभिवादनं लिख्यते - ' ततोऽभिवादयेदृद्धानसावहमिति ब्रुवन्' इति याज्ञवल्क्यादिस्मृतिप्रणीतस्याभिवादनस्य प्रयोगो यथा --- वत्सगोत्रो भार्गवच्यावनानवानौर्वजामदग्न्येति पश्चप्रवरः श्रीधरशर्माऽहं भो ३ श्रीहरिहरशर्मन् त्वामभिवादये इत्युक्त्वाऽभिवाद्य गुर्वादिकं ब्रह्मचारी अभिवादयेत् । अभिवाद्यश्च गुर्वादिः आयुष्मान् भव सौम्य श्रीधर शर्मन भो३इति प्रत्यभिवादयेत् । अयमभिवादनप्रयोगो गृहस्थस्यापि । अत्र वृद्धानिति वचनान् कनिष्ठाभिवादने नाधिकारः । वृद्धाश्च त्रिविधाः । विद्यातपोवयोभिः | अत्र समये ब्रह्मचारी भैक्षं चरति । तद्यथा । भवति भिक्षां देहीति ब्राह्मणः, भिक्षां भवति देहीति राजन्यः, भिक्षां देहि भवतीति arrar भिक्षां भिक्षेत । अत्र भिक्षाया चनवाक्ये भवतीति स्त्रीसंबोधनपदात् स्त्रियो भिक्षेतेति प्राप्तम् । ताश्च कीदृशीः कति च इत्यपेक्षायामुच्यते । याः प्रत्याख्यानं न कुर्वन्ति ताः भिक्षेत । कति ? तिस्रः पड़वा द्वादश वा द्वादशभ्योऽधिका वा । मातरं वा प्रथमां भिक्षेतेत्यन्वयः । एवं भिक्षां भिक्षित्वा ब्रह्मचारी गुरवे भैक्षं निवेद्य अहश्शेषं वाग्यतस्तिष्ठेत् वा आसीत वेत्यनियमः । तत उपास्तमयं संध्यावन्दनपूर्वकं स्वयं प्रशीर्णाः पूर्वोक्तलक्षणाः समिधः पूर्ववत् उक्तप्रकारेण तस्मिन्नेवाग्नौ आधाय वाचं विसृजत इति तद्दिनकृत्यम् । अथ तद्दिनमारभ्यासमावर्तनात्कर्तव्यमुच्यते — भूमौ शयनमक्षारालवणाशनं दण्डधारणमग्निपरिचरणं गुरुशुश्रूषा भिक्षाचर्या सायंप्रातर्भोजनार्थं भोजनसन्निधाने वारद्वयं वा भैक्षचरणम्, अनिन्द्ये ब्राह्मणगृहे भैक्षं गुर्वाज्ञया याचित्वा भोजनविधिना भुञ्जानः मधुमांसमज्जनोपर्यासनस्त्रीगमनानृतादत्तादानानि वर्जयेत् । स्मृत्यन्तरे तु — मधुमांसाञ्जनोच्छिष्टमुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लीलपरिवादादि वर्जयेत् । आदिशब्देन पर्युपितताम्बूलदन्तधावनावसक्थिकादिवास्वापच्छत्रपादुकागन्धमाल्योद्वर्तनानुपलेपनजलक्रीडा द्यूतनृत्यगीतवाद्यालापादीन्यन्यान्यपि वर्जनीयानि स्मृतानि । तथा कार्या भिक्षा सदा धार्य कौपीनं कटिसूत्रकम् । कौपीनमहतं धार्ये दण्डं वा वस्त्रपार्श्वयुक् । यज्ञोपवीतमजिनं मौञ्जीं दण्डं च धारयेत् । नष्टे भ्रष्टे नवं मन्त्रात् धृत्वा भ्रष्टं जले क्षिपेत् । अष्टाचत्वारिध-शद्वर्षाणीत्यादि व्यवहार्या भवन्तीति वचनादित्यन्तं सूत्रमुक्तार्थम् । कालातिक्रमे नियतवदित्यस्यार्थ उक्तः । इतिकर्तव्यताऽत्र लिख्यते । पूर्णाहुतिवदाज्यं संस्कृत्य अनादिष्टप्रायश्चित्तोमं कुर्यात् । पूर्णाहुतिर्यथा कात्यायनसूत्रे पूर्णाहुतिं जुहोति निरुम्याज्यं गार्हपत्येऽधि -